भैषज्यरत्नावली /अध्यायः १०१

विकिस्रोतः तः
← अध्यायः ९९ भैषज्यरत्नावली
अध्यायः १००
[[लेखकः :|]]
अध्यायः १०१ →
भैषज्यरत्नावली अध्यायाः


अथ मस्तिष्करोगसामानयचिकित्साप्रकरणम्।।101।
बिल्वादिचूर्णम्-
<101-1>
बिल्वं मुस्तकमेलाञ्च चन्दनं रक्तचन्दनम्।
यवानीमजमोदाञ्च त्रिवृतां चित्रकं विडम्।।1।।
</101-1>

<101-2>
अश्वगन्धां बलां कृष्णां तुगाक्षीरीं शिलाजतु।
सञ्चूर्ण्य पयसा सार्द्वं प्रयुञ्जयात् काञ्जिकेन वा।।2।।
</101-2>

<101-3>
सेवनादस्य मास्तिष्का गदाः स्नायविका अपि।
पलायन्ते सुदूरं हि तार्क्ष्यत्रस्ता यथाऽहयः।।3।।
</101-3>

न्रिवृतादिमोदकः-
<101-4>
त्रिवृताममृतां द्राक्षां जातीकोषफलाभयाः।
जीवन्तीं मधुकं श्यामानन्तामिन्द्रवारूणीम्।।4।।
</101-4>

<101-5>
अब्दमिन्दीवरं वह्निं मधुकं मागधीं मुराम्।
चन्द्रशूरं च सूक्ष्मैलां शङ्खिनीं चविकां तथा।।5।।
<101-5>

<101-6>
चूर्णाङ्‌घ्रिमानां विजयां शुद्वां बीजविवर्ज्जिताम्।
सितां सर्वद्विगुणितां निकुम्भेन्धनवह्निना।।6।।
</101-6>

<101-7>
यथाशास्त्रं भिषक्‌ पक्तवा मोदकं परिकल्प्य च।
प्रयुञ्ज्यात् पयसोष्णेन सायाह्ने शाणणात्रया।।7।।
</101-7>

<101-8>
मास्तिष्के दारूणे ब्याधौ स्नायुजे मारूतोद्भवे।
पित्तजे कफजे वाऽपि ग्रहण्यां विकृतेऽनले।।8।।
</101-8>

<101-9>
क्लीबतायां ज्वरे जीर्णे दुष्टे रजसि रेतसि।
प्रयोज्यो देवदेवोक्तो मोदकस्त्रिवृतादिकः।।9।।
</101-9>

अमृतादिण्डूरम्-
<101-10>
अमृता निम्बभूनिम्बौ बृहती विश्वभेषजम्।
रजन्यौ मधुकं मूर्वा माञ्जिष्ठा मदभञ्जिनी।।10।।
</101-10>

<101-11>
श्रीप्रसूनं पाटला च तथैव जलपिप्पली।
समानि समभागनि मण्डूरद्विगुणं ततः।।11।।
</101-11>

<101-12>
मण्डूरादष्टगुणिते मूत्रेऽमूनि विपाच्य च।
कर्षप्रमाणं मधुना सह सेवेत मानवः।।12।।
</101-12>

<101-13>
मास्तिष्कानामयान् सर्वान् वातपित्तकफोत्थितान्।
मण्डूरममृताद्येतन्तिहन्त्येव न संशयः।।13।।
</101-13>

पञ्चामृतलौहगुग्गुलुः-
<101-14>
रसगन्धकचाराभ्रमाक्षिकाणां पलं पलम्।
लौहस्य द्विपलं चापि गुग्गुलेः पलसप्तकम्।।14।।
</101-14>

<101-15>
मर्दयेदायसे पात्रे दण्डेनाप्यायसेन च।
कटुतैलसमायोगाद्यामद्वयमतन्द्रितः।।15।।
</101-15>

<101-16>
माषमात्रप्रयोगेण गदा मस्तिष्कसंभवाः।
स्नायुजा वातजाश्चापि विनश्यन्ति न संशयः।।16।।
</101-16>

<101-17>
यं पञ्चामृतलौहाख्यो गुग्ग्लुर्न हरेद्गदम्।
नासौ संजायते देहे मनुष्याणां कदाचन।।17।।
</101-17>

अभयादिगुग्गुलुः-
<101-108>
अभयाऽऽमलकी द्राक्षा शताह्ना ब्रह्नयष्टिका।
शारिवे द्वे मञ्जिष्टा निशा दारूनिशा वचा।।18।।
</101-18>

<101-19>
शिथिलं वाससा बद्वं गुग्गुलुमष्टमुष्टिकम्।
सार्द्वद्रोणे जले पक्तवा पादशेषेऽवतारयेत्।।19।।
</101-19>

<101-20>
ततस्तं गुग्गुलुं तस्मिन् क्काथतोये पुनः पचेत्।
सिद्वप्राये क्षिपेत्पाके मुशलीं मधुकं मुराम्।।20।।
</101-20>

<101-21>
चातुर्जातं विडङ्गं च देवपुष्पं दुरालभाम्।
त्रिवृतां त्रायमाणां च त्र्यूषणं च पलोन्मितम्।।21।।
</101-21>

<101-22>
अभयादिरसौ हन्ति गुग्गुलुः स्नायुसम्भवान्।
मास्तिष्कानपि रोगांश्च मधुना सह सेवितः।।22।।
</101-22>

धान्रीघृतम्(बहत्‌)
<101-23>
धात्रीफलस्य शाल्मल्या बृहत्या वासकस्य च।
शतावर्या विदार्याश्च प्रस्थमानेन चाम्भसा।।23।।
</101-23>

<101-24>
कल्कैः करिकणाकृष्णाकक्कोलककसेरूभिः।
खलिनीखदिराभ्याञ्च खण्‍डिकेन च खण्डिना।।24।।
</101-24>

<101-25>
गदागदाभ्यां गन्धेन गोस्तन्या गोपकन्यया।
घनाघनघनाभ्याञ्च घनाघनघनस्वनैः।।25।।
</101-25>

<101-26>
पयसा च पयस्विन्या पक्ववा प्रस्थमितं घृतम्।
प्रयुञ्ज्यात्पयसोष्णेन प्रातरक्षप्रमाणतः।।26।।
</101-26>

<101-27>
मास्तिष्कानखिलान् व्याधीन् स्नायुदोषसमुद्भवान्।
रक्तपित्तं क्षयं क्लैव्यं कासश्वासानिलामयान्।।27।।
</101-27>

<101-28>
उग्मादञ्च भ्रमं मूर्च्छां धात्रीघृतमिदं महत्।
सप्ताहमभ्यवहृतं निराकुर्यान्न संशयः।।28।।
</101-28>

लक्ष्मीविलासतैलम्-
<101-29>
शतावर्या विदार्याश्च कदल्या गोक्षुरस्य च।
नारिकेलस्य धात्र्याश्च कूष्माण्डस्याम्बुना पृथक्‌।।29।।
</101-29>

<101-30>
मस्तुना काञ्जिकेनापि लाक्षायाः सलिलेन च।
छागेन पयसा कल्कैः शटीचम्पकमुस्तकैः।।30।।
</101-30>

<101-31>
बलाबिल्वाशवगन्धाभिर्बृहत्या वासकेन च।
चन्दनद्वयमञ्जिष्ठाश्यामाऽनन्तानिशायुगैः।।31।।
</101-31>

<101-32>
मधुकेन मधुकेन पझकोत्पलबालकैः।
यमान्या च प्रसारण्या गन्धद्रव्यैस्तथाऽखिलैः।।32।।
</101-32>

<101-33>
एकादश्यां पूजयित्वा लक्ष्मीनारायणौ शुचिः।
तैलं तिलसमुद्‌भूतं पचेन्मौनी जितेन्द्रियः।।33।।
</101-33>

<101-34>
मस्तिष्कस्नायुजान् घोरान् गदान् मेहाश्च विंशतिम्।
वातव्याधीनशेषांश्च मूर्च्छोन्मादावपस्मृतिम्।।34।।
</101-34>

<101-35>
ग्रहणीं पाण्डुतां शोषं क्लीबतां वातशोणितम्।
मूढगर्भं रजोदोषं दोषं शुक्रगतं तथा।।35।।
</101-35>

<101-36>
तैलं लक्ष्मीविलासाख्यं नाशयित्वाऽऽशु वै बलम्।
पुष्टिं कान्तिं धृतिं मेधां जनयेन्नात्र संशयः।।36।।
</101-36>

मस्तिष्करोगे पथ्यापथ्यम्-
<101-37>
यदन्नपानं स्नायूनां परमं पुष्टिकृत्स्मृतम्।
सारकं स्वादु सुजरं क्षीरं मांसरसः सुरा।।37।।
</101-37>

<101-38>
एतत् सर्वन्तु पथ्यं स्यादपथ्यं त्वितरत्‌ समम्।
अतो विचार्यैव भिषक्‌ सेवयेत्त्याजयेदपि।।38।।
</101-38>

इति भैषज्यरत्नावल्यां विशिष्टरोदाधिकारे मस्तिष्क-
रोगसामान्यचिकित्साप्रकरणम्।।101।।