भैषज्यरत्नावली /अध्यायः ९८

विकिस्रोतः तः
← अध्यायः ९७ भैषज्यरत्नावली
अध्यायः ९८
[[लेखकः :|]]
अध्यायः ९९ →
भैषज्यरत्नावली अध्यायाः


अथ शीर्षाम्बुरोगचिकित्साप्रकरणम्।।98
शीर्षाम्बरोगस्य निदानम्।
<98-1>
दुष्टाम्बुपानादतिशैत्यतो वा
आन्त्रक्रिमेरूद्भवतोऽभिघातात्।
असात्म्यभोज्याशनतः सुरायाअत्यर्थपानात्पवनप्रदोषात्।।1।।
</98-1>

<98-2>
संचीयते यत्कमतः शिरःस्थस्नेहस्य भूमौ बहुलंजलंहि
तदेव वैद्यैर्गदितस्तु शूर्षाम्बुरोगएषत्वतिदुश्चिकित्स्यः।।2।।
</98-2>

<98-3>
प्रायः शिशूनामुपजायतेऽसौ
बाल्ये वयस्येव गदे विशेषात्।
दन्तोऽद्गमेऽनेकविधाहितानां-
निषेवणात्सद्भिषजां मतेन।।3।।
</98-3>

तस्य पूर्वरूपम्-
<98-4>
जिह्ना मलाढयाऽपि च गाढविट्‌कता
दोर्बल्यनिद्राधिकते तथा च।
शीर्षाम्बुरोगे त्विति पूर्वरूपम्।।4।।
</98-4>

तस्य लक्षणम्-
<98-5>
तीब्रा व्यथा शिरसि कृष्णपुरीषताऽथो
मूत्राल्पता श्रुतिगताऽक्ष्णि च तीक्ष्णता स्यात्
वेगं समाश्रितवती धमनी त्वचायां-
रौक्ष्योष्णते च वमनं विषमाक्षितारा।।5।।
</98-5>

<98-6>
लौहित्यमक्षियुगले च विवर्णताऽऽस्ये
निद्राक्षणे दशनघर्षणमप्यवश्यम्।
कण्डूरदच्छदगताऽपि च नासिकाया-
माक्षेपकः प्रलपनं खलु पक्षनाशः।
शीर्षाम्बुरोग इति लक्ष्म भिषग्वरोक्तं-
भूयश्चिकित्सकजनैर्बहुशोऽनुभूतम्।।6।।
</98-6>

तस्य चिकित्सा-
<98-7>
यदौषधं रेचकं स्याद् यच्च मूत्रप्रवर्त्तकम्।
अस्त्रदोषहरं चापि तच्छीर्षाम्बुगदे हितम्।।7।।
</98-7>

<98-8>
मुण्डयित्वा शिरस्तच्च च्छाजयेदुष्णवाससा।
पाययेन्नारिकेलस्य स्नेहं शश्वच्च रोगिणम्।
सेवयेद्रसचूर्णं च स्वल्पमात्रं भिषग्वरः।।8।।
</98-8>

पीतमूल्यादिक्काथः-
<98-9>
पीतमूलीमनन्तां चामलकीं त्रिवृचां शटीम्।
तिक्तां गोपवधूमब्दं धन्याकं मधुकं निशे।।9।।
</98-9>

<98-10>
हरीतकीं त्रिजातं च क्काथयित्वा यथाविधि।
यवक्षारेण सहितं पाययेदस्य शान्तये।।10।।
</98-10>

सलिलशोषणं चूर्णम्-
<98-11>
रसचूर्णं यवक्षारं पीतमूलीं त्रिजातकम्।
भार्गौमेलां तथा लघ्वीमभयामिन्द्रवारूणीम्।।11।।
</98-11>

<98-12>
समांशेन च संचूर्ण्य प्रयुञ्ज्यात् पयसा सह।
शीर्षाम्ब्वेतन्निरपाकुर्याच्चूर्णं सलिलशोषणम्।।12।।
</98-12>

कुङ्कुमाद्यं घृतम्-
<98-13>
कुङ्कुमं शारिवां द्राक्षां जीवन्तीमभया विडम्।
पत्रं पटोलमूलञ्च सर्पिषा पाचयेद्भिषक्‌।।13।।
</98-13>

<98-14>
अस्य मात्रां प्रयुञ्जीत वीक्ष्य व्याधेर्बलाबलम्
सर्वशीर्षदान् हन्ति कुङ्कुमाद्यमिदं घृतम्।।14।।
</98-14>

<98-15>
भाषितं श्रीमहेशेन सर्वलोकहितार्थिना।।15।।
</98-15>

रसतैलम्-
<98-16>
धुस्तूरं धातकीं मूर्वां मधूकं विडम्।
नागरं नीलिनीं कृष्णां कट्‌फलं कटुकां जलम्।।16।।
</98-16>

<98-17>
शाणमानेन निःक्षिप्य कटुतैलशरावके।
संवृते मृन्मये भाण्डे निशाः सप्त च यापयेत्।।17।।
</98-17>

<98-18>
ततः कल्कान् विनिर्ह्यत्य कज्जलीमर्द्वकार्षिकीम्।
तत्र सम्मिश्रय शिरसि मुण्डिते तत् प्रयोजयेत्।।18।।
</98-18>

<98-19>
रसतैलमिदं हन्याच्छीर्षाम्ब्वाशु न संशयः।
व्याधितानां हितार्थाय हरेणैतदुदीरितम्।।19।।
</98-19>

वह्निभास्करो रसः-
<98-20>
सुवर्णमभ्रं वैक्रान्तं रजतं शाणमानकम्।
लौहं रसं गन्धकञ्च माक्षिकं कर्षसम्मितम्।।20।।
</98-20>

<98-21>
रक्तचित्रकयोगेन तथा ब्राह्नया रसेन च।
त्रिःसप्तकृत्वः सम्भाब्य कुर्याद्वल्लमिता वटीः।।21।।
</98-21>

<98-22>
रसोऽयं सर्वथा हन्ति मस्तिष्कोदकमाशु च।
अन्यांश्च शिरसो रोगान् वह्निस्तृणानिव।।22।।
</98-22>

<98-23>
वह्निवद्भासते यस्माद्वीर्येणैष रसोत्तमः।
ख्यातः प-थ्वीतले तस्मादाख्या वह्निबास्वरः।।23।।
</98-23>

<98-24>
यद्येवंविधभैषज्यैर्गदः शाम्येन्न जातु चित्।
तदा शस्त्रचिकित्सायां कुशलेन यथाविधि।।24।।
</98-24>

<98-25>
शस्त्रेणैव त्रिकूर्च्चेन मस्तिष्कादतियत्नतः।
निष्कासनीयं सलिलं येन शान्तिं घ्रजेद्‌ गदी।।25।।
</98-25>

<98-26>
यत्पुष्टिकृच्छ सुपचं पानमन्नं प्रकीर्त्तितम्।
शीर्षाम्बुरोगे यत् पथ्यं त्वपथ्यं च तदन्यथा।।26।।
</98-26>

इति भैषज्यरत्नावल्यां विशिष्टरोगाधिकारे
शीर्षाम्बुरोगचिकित्साप्रकरणम्।।98।।