भैषज्यरत्नावली /अध्यायः १०३
← अध्यायः १०२ | भैषज्यरत्नावली अध्यायः १०३ [[लेखकः :|]] |
अध्यायः १०४ → |
अथ योषाऽपतन्त्रकचिकित्साप्रकरणम्।।103।।
तस्य कारणाम्-
<103-1>
रक्तक्षयाद्वा बहुशोऽप्यजीर्णा-
दुद्वैगतः कोष्ठविबन्धतो वा।
शोकाच्च भङ्गन्मानसो जरायो-
र्विकारतोऽथो रजसो विनाशात्।।1।।
</103-1>
<103-2>
कुटुम्बिनीनिष्ठुरभावतो वा।
दौर्बल्यतोऽपि प्रकृतेः कदाचित्।
पत्युश्च निस्नेहतया तरूण्या-
वैधव्यशोकादथवा विशेषात्।।2।।
</103-2>
<103-3>
<103-4>
योषित्सु रोगो यत एष कष्टदः प्रजायते मानसदेहतापनः।
प्कराशितोभूमितले तु योषाऽपतन्त्रकाह्नोबहुरोगदोऽसौ
वदन्त्यनेके भिषजस्तु योषाऽपस्मारमेतं तु निदानविज्ञाः
यावत्प्रवृत्ती रजसः स्त्रियां स्यात्
तावद्गगस्यास्य मतो हि कालः।।
</103-3>
</103-4>
तस्य पूर्वरूपम्-
<103-5>
हृत्पीडनं जृम्भणमङ्गचित्तयोः
सदाऽवसादो भवतीह योषिताम्।
अव्यक्तरूपं गदितं तु योषाऽ-
पतन्त्रकाख्ये हि गदे भिषग्भिः।।5।।
</103-5>
तस्य लक्षणम्-
<103-6>
चिह्नान्यनेकानि विचित्ररूपाण्यपि प्रजायन्त इवेत्यवेहि।
ध्यानंभवेद्यस्य गदस्ययत्रस्यात्तत्रतस्याक्रमणांविशेषात्।।6।।
</103-6>
<103-7>
किंवा क्कचिद्रोगिणि यानि चिह्ना-
न्याकर्णितान्यप्यवलोकितानि।
सर्वाणि तानि स्युरिहापि योषा-
ऽपतन्त्रकाह्ने हि महागदेऽपि।।7।।
</103-7>
<103-8>
तथाऽपि चिह्नानि विशोषतोऽस्मिन्
स्युर्यानि दृष्टान्यखिलानि तानि।।
विविच्य सौकर्यकृते चिकित्सा-
विधावयं वच्मि भिषग्जनानम्।।8।.
</103-8>
<103-9>
वैचित्यमाक्रंदनरोदने च भ्रन्तिः प्रलापो मतिविभ्रमश्च
द्वेषः सदा ज्योतिषि चोद्वता स्यादाक्रोश उच्चैर्हसनंचकंठे।।9।।
</103-9>
<103-10>
श्लेष्माशये पीडनमङ्गमध्ये
सहानुभूतिः क्कचन व्यथायाः
स्पर्शोत्थशक्तोरपि वृद्विभावः-
श्वासस्य कृच्छ्रत्वमथोदराच्च।।10।।
</103-10>
<103-11>
यावद्गलंचानृतगुल्मरोगोत्पत्तिस्तुमूर्च्छाऽत्रमतिप्रणाशः
योषित्सु जायन्त इमानि चिह्नान्यनारतं प्रायश एव लोके।।11।।
</103-11>
तस्य परिणतिः-
<103-12>
<103-13>
<103-14>
<103-15>
यैःकारणैरेष गदः प्रजायते प्रयाति शान्तिं विरतेषु तेषु
अतः परिस्थित्यनुसारतोऽस्यास्याल्लोकमध्येकमध्येपरिणाम एव
दैवात्कदाचिद्यदिकारणानां स्थितिर्भवेत्तर्हिगदप्रवृद्विः
एवं निवृत्तेऽपिच हेतुवृन्देरोगस्यशान्तिर्नियताप्रदृश्यते
काचिन्नानारीमृतिमेतिरोगे वयोविवृद्वौस्वतएषशाम्यति
विपर्ययोऽपिप्रकृतेःकदाचिज्जायेतनार्या इतियन्नदृश्यते।
ततो गदस्यास्य भवेन्मुहुर्मुहुः प्रायः सदैवाक्रमणं नृलोक
इत्यं यथामत्यधुना तु योषापतन्त्रकाह्वस्यनिदानमुक्तम्
</103-12>
</103-13>
</103-14>
</103-15>
तस्य चिकित्सा-
<103-16>
धातुपुष्टिकरं यद् यत् पानमन्नं च भेषजम्।
कोष्ठशुद्विकरं तद्वत्तत्तदत्र हितं मतम्।।16।।
</103-16>
<103-17>
मूर्ध्नि नेत्रद्वये सेको मूर्च्छीयां शीतलाम्भसा।
अपि शीर्षविरेकस्तन्निवृत्त्यै योज्य एव हि।।17।।
</103-17>
<103-18>
मूर्च्छाऽपस्मारयोरूक्तं यद् यद् भेषजमुत्तमम्।
तत्तदत्र यथादोषं भिषक् सर्वं प्रयोजयेत्।।18।।
</103-18>
<103-19>
दरायुदोषं सर्वं च निराकुर्याद् यथाविधि।
योषाऽपतन्त्रकः शाम्येत् सान्त्वनैः प्रियदानतः।।19।।
</103-19>
भूतभैरवरसः(बृहत्)
<103-20>
सुवर्णबस्मनः स्वर्णसिन्दूरस्यांशयुग्मकम्।
मुक्ताविद्रुमकान्तायोरादपट्टं पृथक् पृथक्।।20।।
</103-20>
<103-21>
एकभागमितं ग्राह्यं मर्द्यं कन्याऽम्बुनाऽपि च।
मण्डूकपर्णोसंभूतरसेनापि यथाविधि।।21।।
</103-21>
<103-22>
गन्धर्वहस्तपत्रैश्च संवेष्टय दिवसत्रयम्।
धान्यराशौ यथायुक्ति स्थापयेत्तत्तु गोलकम्।।22।।
</103-22>
<103-23>
ततो निष्काश्य तस्माद्वि वल्लमात्रां वटीं चरेत्।
वरासितासमोपेतां वटीमेकां तु शीलयेत्।।23।।
</103-23>
<103-24>
अथवा पयसा साकं भूतोन्मादापहां शुभाम्
विनिहन्ति बृहद्भूतभैरवो सर एष हि।।24।।
</103-24>
<103-25>
योषाऽपतन्त्रकं घोरमपस्मारं मदं तथा।
मूर्च्छां च विविधा वातसंभवा वेदना द्रुतम्।।25।।
</103-25>
इति भैषज्यरत्नावल्यां विशिष्टरोगाधिकारे योषाऽप
तन्त्रकचिकित्साप्रकरणम्।।103।।