सामग्री पर जाएँ

क्रियापादः/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ क्रियापादः
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्
त्रयोविंशोऽध्यायः

  • पूजोपकरणानि*

श्रीभगवान्----
आराधनोपकरणं तस्य लक्षणमेव वा।
उच्यते संप्रति ब्रह्मन् (1) श्रूयतां तदशेषतः।। 23.1 ।।
(1.उच्छ्रायं)
लोहजान् दीपिकास्तंभान् चतुर्हस्तसमुच्छ्रयान्।
त्रिहस्तानेकहस्तान्वा द्विहस्तान्वा यथाबलम्।। 23.2 ।।
(2) ताम्रजान्वा राजतीयानयुग्मैस्नेहधारणैः।
युग्मैर्वा (3) वृत्तिविस्तीर्णै र्बह्वश्रैर्वा परिष्कृतान्।। 23.3 ।।
(2.तालवालान् दर्शनीया.) (3.वृत्तविस्तारबह्वग्रैर्वा)
स्नेहधाराग्रतः क्लप्तपद्मकोशैरलंकृतान्।
कुर्यादर्घ्यादिपात्राणि सौवर्णानीतराणि वा।। 23.4 ।।
राजतान्युभयाभावे शुद्धताम्रमयानि वा।
पै शाचलोहवर्ज्यानि यथावित्तानुसारतः।। 23.5 ।।
व्याकोच पंकजाभानि चक्राद्यङ्गानि मध्यतः।
प्रस्थमानावरद्रव्यपूवयोग्यान्तराणि च।। 23.6 ।।
शङ्खशुक्तिस्वभावानि यद्वा पात्राणि कल्पयेत्।
नै वेद्यपात्राणि तथा सौवर्णानीतराणि वा।। 23.7 ।।
(4) रजतस्योभयभावे शुद्धताम्रमयानि वा।
हविर्द्रव्यप्रमाणानि वृत्तानि परिकल्पयेत्।। 23.8 ।।
(4.राजतान्युभया.)
दर्वीं हस्तायतामग्रमूलयोर्मण्डलाकृतिम्।
पानीयपात्रं सौवर्णमथवा कलधौतजम्।। 23.9 ।।
वृत्तायतं सुवृत्तं वा भवेदायतमेव वा।
(5) प्रस्थमात्रप्रमाणाम्भः पूरयोग्यान्तरां शुभाम्।।
(5." प्रस्थमात्र" ---कृताम्जुजम्" इत्यन्तंपद्यद्वयं क्वचिन्न)
पादमानानुसारेण पादुके रैमये शुभे।
यद्वा रौप्यमये ताम्रमये वा पादसन्नि भे।
तदाधारं च तल्लोहं नृत्तंमध्ये कृताम्बुजम्।
पादावनेजनजलग्रहणं पात्रमद्भुतम्।। 23.10 ।।
(6) त्रिपाद्वृत्तं सरोजाभं हैमं राजतमेव वा।। 23.11 ।।
(6.त्रिवृत्तं वा.)
ताम्रं सचक्रचरणमपि वा पावनं सताम्।
आचामवारिग्रहणपात्रमुत्तमलोहजम्।। 23.12 ।।
सरोजकर्णिकाकारं कुर्यादद्भुतदर्शनम्।
कङ्कतं कनकं रूप्यमपिवा ष्टाङ्गुलायतम्।। 23.13 ।।
ष़डङ्गुलायतं यद्वा तदर्धाङ्गुलविस्तृतम्।
विंशत्या दशनै र्युक्तं भवेदुभयतो मुखम्।। 23.14 ।।
यद्वा षोडशभिर्दन्तैरष्टाभिर्वा त्रियंगुलम्।
सौवर्णमंजनक्षोदभाजनं पुंमृगाकृति।। 23.15 ।।
सिह्माकारं भवेद्यद्वा हंसाकारमथापि वा।
शिरोबिलं शलाका च द्वादशाङ्गुलमायता।। 23.16 ।।
अष्टांगुला वा सौवर्णी भवेदुभयतो मुखा।
मुखं च केसरफलप्रतिमं संहतं भवेत्।। 23.17 ।।
दर्पणं प्रतिमायानं तदर्धं वासुशो भनम्।
वृत्तं कांस्यंमहारत्नखचितं वा यथावसु।। 23.18 ।।
पादयुक्तमयुक्तं वा मुखमानमथापि वा।
कार्तस्वरमयी वृत्ता राजती वा (7) थ पावनी।। 23.19 ।।
(7.यथावनु.)
अरत्निमानविस्तारा मध्येऽष्टदलसंयुता।
प्रतिपद्मदलं मध्ये सुषिराणि शतं भवेत्।। 23.20 ।।
(8) कर्णिकायां केसरेषु (9) विष्टरेषु शतं भवेत्।
अष्टोत्तरशतं भूयः पर्यन्तदलमध्यतः।
खचितं च महारत्नैरेनं धारासहस्रकम्।। 23.21 ।।
(8.इदमर्धंक्वचिन्न.) (9.विवराणाम्.)
धाराष्टकेन संयुक्तमभिषेकाय कल्पयेत्।
(10) बिम्बानुगुणमानं वा तालमानावरान्तकम्।। 23.22 ।।
(10.शङ्खवद्मादिबिम्बानां वा न्येमाना.)
(11) अथ वक्ष्यामि संक्षेपात्पताकालक्षणं द्विज।
अष्टतालायतं वस्त्रं दशतालायतं तु वा।। 23.23 ।।
(11."अथनक्ष्यामि" ---"संस्कृत्य योजयेत्" इत्यन्तं क्वचिन्न.)
आयामसमविस्तीर्ण क्षौमं कार्पासंजं तु वा।
सुश्लक्ष्णं शोभनाकारं नानावर्णविचित्रितम्।। 23.24 ।।
विधाय सूत्रमार्गेण चतुरश्रं पुरासमम्।
विभज्य कोणसूत्राभ्यां पूर्वभागं तु लोपयेत्।। 23.25 ।।
दक्षिणोत्तरपाश्चात्यैर्भागै रेकसितां नयेत्।
तस्याः पश्चिमपार्श्वे तु यष्टिं संस्कृत्ययौजयेत्।। 23.26 ।।
व्याकोच पङ्कजाकारं शुद्दमुत्तमलोहजम्।
अढका (12) पूरमानाम्भः पूरयोग्यमहाबिलम्।। 23.27 ।।
(12.परिमाण----वरमाना)
हस्तदीर्घजलस्रावी पार्श्वमानोपशोभितम्।
कल्पयेदपरं स्नानपात्रं मुक्तापरिष्कृतम्।। 23.28 ।।
यद्वा शङ्खनिभाकारमग्रतोजलनालकम्।
धूपपात्रं सरोजाभं सुवर्णादिविनिर्मितम्!।। 23.29 ।।
(13) हस्तमानान्तरालं स्यान्नालयुक्तं त्रिपात् द्विपात्।
पादयोरपि (14) तत्तत्स्यादुत्सेधश्चतुरंगुलः।। 23.30 ।।
(13.हस्तमानायता तालमानयुक्ता.) (14.तस्यस्या.)
अनेक सुषितं तस्यविधानं सहजं भवेत्।
अथ वा विकसत्पद्म (15) सदृशाकारशोभितम्।। 23.31 ।।
(15.समुद्रा)
(16) इन्दुनालं तथाङ्घ्रौ च दण्डाग्रे सुप्रतिष्ठितम्।
दीपपात्रं तथा नाळमध्ये कुमुदकुट्मलम्।। 23.32 ।।
(16.भुजनालं तथाङ्घौ बुजुनालंतथानङ्घ्रि.)
वर्त्याधारैश्शतेनापि युक्तमष्टभिरेव वा।
विशत्या वाष्टभिश्चैव द्वाभ्यां वा दशभिश्चततम्।। 23.33 ।।
अष्टभिर्वा यथाशक्ति कल्पयेच्छिल्पवित्तमः।
शब्दब्रह्ममयी घण्टा हस्तोत्सेधप्रमाणिका।। 23.34 ।।
ब्रह्मण्डगोलकाकारस्सौराष्ट्रावयवो भवेत्।
अधोमुखस्तालमानविस्तारोत्सेधसंमितः।। 23.35 ।।
प्रदीपतुल्यसंस्थान स्तीक्ष्णाभ्यन्तरतालुकः।
(17) तालोनदण्डमूले स्यादग्रे सु स्थितपक्षिराट्।। 23.36 ।।
(17.तालेन दण्‍डो.)
चक्राग्रां पङ्कजाग्रं वा घण्टैषा परिकीर्तिता।
नालबन्धाश्चस्रोऽन्या घण्टा प्रतिदिशं कृता।। 23.37 ।।
एतस्या मेव घण्टायां यद्वा वित्तानुसारतः।
नीराजनक्रिया पात्यो हेमादि द्रव्यनिर्मिताः।। 23.38 ।।
त्रितालायत विस्त्रीर्णा वृत्तमध्यसरोरुहः।
नववासप्तवा पंच तिस्रश्चैकापि भवेत्।। 23.39 ।।
बलिपात्रं चतुस्त्रालं हेमादि द्रव्यनिर्मितम्।
वृत्तं वा चतुरश्रं वा बह्वश्रं वा यथारुचि।। 23.40 ।।
मध्यतोऽष्टदळांभोजमथवा षोडशच्छदम्।
द्वादशच्छदसं युक्तमपि वा परिकल्पयेत्।। 23.41 ।।
मुक्तातपत्रं धवलं शशिभिम्बसम प्रभम्।
सितातपत्राणि तथा (18) बर्हिपत्र मयानि च।। 23.42 ।।
(18.बलिपात्र.)
आतपत्राण्यनेकानि हैमदण्डानि पद्मज।
व्यजनानि च भूयांसि कल्याणानि महान्ति च।। 23.43 ।।
चामराणि च शुभ्राणि रत्नाकल्पमयानि च।
चतुष्ट (19) मेकदंभानि पूजाङ्गानि यथायथम्।। 23.44 ।।
(19.मेघडं)
कल्पयेन्नाग लतिका दलपात्रं च रै मयम्।
अरत्निमानविस्तीर्णं तन्मानोत्सेधदण्डकम्।। 23.45 ।।
सपर्याविष्टरं ब्रह्मन् हस्तमानोन्नतं शुभम्।
तद्वा न्यूनसमुत्सेधं यद्वा वित्तानुसारतः।। 23.46 ।।
अरत्निमात्र विस्तारं तन्मानायामकल्पनम्।
संह्मपादयुतं यद्वा हस्तिपाद चतुष्टयम्।। 23.47 ।।
शार्दुलपादमथवा हेमरत्न परिष्कृतम्।
चतुरश्रं मध्यक्लृप्त सरसीरुहचित्रितम्।। 23.48 ।।
सचक्रं पीठसहितं मार्गयुक्तं सगात्रकम्।
यद्वा चक्रविनिर्मुक्तैं मार्गे (20) हस्तैः परिष्कृतम्।। 23.49 ।।
(20.हंसैः)
तपनीय्यमयं यद्वा रजतादिविर्मितम्।।
दारुजं वा मणिच्छन्नं स्वर्ण (21) पट्टैर्विराजितम्।। 23.50 ।।
(21.पट्टपरिष्कृतम्.)
स्नानासनं च पूर्वोक्तविस्तारोत्सेधसंमितं।
(22) द्विगुणं चायतं क्लप्तं मकरास्याम्बुनालकम्।। 23.51 ।।
(22.द्विगुणास्यं कगमय)
चतुरङ्गुलपर्यन्तं तालोत्सेधविराजितम्।
(23) कुर्याच्चपूर्व वत्तस्य दर्शनीयमनुत्तमम्।। 23.52 ।।
(23.चरणं)
अलङ्गारासनंचापि पूर्वो क्तचरणै र्युतम्।
द्विगुणायामविस्तारं हेमरत्न विभूषितम्।। 23.53 ।।
पादहीनं चतुस्ताल विस्तारं द्विगुणायतम्।
घनं च द्व्यंगुलं तस्य भोजनासनमीरितम्।। 23.54 ।।
यात्रासनं च विस्तीर्णं द्विहस्तं ह्रस्वपादकम्।
द्विगुणं चायतं तस्य सालं तालोन्नतं भवेत्।। 23.55 ।।
यानविष्टरसालस्य मध्ये द्वारं प्रकल्पयेत्।
अवतारकथोपेतं हेमरत्नपरिष्कृतम्।। 23.56 ।।
आसनानि यथोक्तानि लोहजानि चतुर्मुख।
दारुजानि यथालाभं कल्पयेच्छिल्पवित्तमः।। 23.57 ।।
यद्वा सनानामायामो विस्तारश्चोन्नतिस्तथा।
अर्चाप्रमाणानुगुणं कल्पयेदिति निर्णयः।। 23.58 ।।
यत्रासनं रथं वापि कुर्याद्वित्तानुसारतः।
सितासितारुणामिश्रतुकुलपरिकल्पितान्।। 23.59 ।।
ध्वजान् कार्तस्वरमयै र्दंडै (24) श्चापि विराजितान्।
वाहनानि च देवानां दण्डाग्रे परिकल्पयेत्।। 23.60 ।।
(24.श्चपरिकल्पितान्)
(25) प्लाक्षान्वा वैणवान् दण्डान् केवलान्परिकल्पयेत्।
जलद्रोणीं कटाहं च हेमादि द्रव्यनिर्मितम्।। 23.61 ।।
(25.लाक्षा.)
अगाधमभिषेकार्थं देवस्य परिकल्पयेत्।
नानाविधानि वाद्यानि वीणादीनि च कल्पयेत्।। 23.62 ।।
अर्घ्यपाद्यादि पात्राणां पात्रमानानुसारतः।
चरणानि सुवर्णादि द्रव्यक्लप्तानि (26) कारयेत्।। 23.63 ।।
(26. कल्पयेत्.)
इति श्रिपाञ्चरात्रे महोपनिषदि
क्रियापादे पूजोपकरण (27) लक्षणं नाम
त्रयोविंशोऽध्यायः
(27.विधानं.)


*********--------------