क्रियापादः/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ क्रियापादः
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
द्वादशोद्यायः
श्रीभगवान्---

  • मूलबेरप्रमाणादिविधिः *

अथातत्संप्रवक्ष्यामि (1) मूलबेरसमुच्छ्रयम्।
गर्भविस्तारमानं वा द्वारदैर्घ्यमथापि वा।। 12.1 ।।
(1.ध्रुव.)
प्रासादपादमानं वा हस्तमानमथापि वा।
यजमानप्रमाणं वा स्तम्भमानमथापि वा।। 12.2 ।।
कुर्याद्धुवप्रतिकृतिं ग्रामादेरनुकूलिकाम्।

  • प्रतिमायाः मानं उत्तमादिभेदश्च*

प्रतिमागर्भविस्तार (2) तुल्या श्रेष्ठा चतुर्मुख।। 12.3 ।।
(2.साम्या.)
नवाभागै कहीना तु प्रतिमा मध्यमा भवेत्।।
पञ्चभागैकहीना तु जघन्या परिकीर्तता।। 12.4 ।।
सप्तदा गरर्भविस्तारं विभज्य द्वौ विवर्जयेत्।
शिष्टभाग समुच्छ्राया श्रोष्ठा स्यादथवाब्जज।। 12.5 ।।
मध्यमा पञ्चसूत्र्यंशैः त्रिभद्वाभ्या कनीयसी।
(3) द्वाराध्यार्धसमुच्छ्राया श्रोष्ठा पादाधिका पुनः।। 12.6 ।।
(3.यद्वाप्यर्ध)
मध्यमा द्वारमात्रा तु कनिष्ठा मध्यमा भवेत्।
द्वारं षोडशधा कृत्वा न्युनै कद्वित्रभिः क्रमात्।। 12.7 ।।
श्रेष्ठा मध्या कनिष्ठा स्यादित्थं पादादिषु क्रमात्।
उत्तमा पञ्चभिर्हस्तेः त्रिभिरेकेन चेतरे।। 12.8 ।।
स्थितस्य कौतुकस्याय मुच्छ्रसस्समुदीरितः।

  • आसीनमूर्तिमानम्*

गर्बगेहस्य विस्तारं त्रिधा भङ्त्क्वा (4) द्वयी भवत्।। 12.9 ।।
उत्तमा पञ्चधात्र्यंशैः मध्यमार्ध कनीयसी।
(4. बहिर्भशेत्)
आसीना चाथवा श्रेष्ठा गर्भविस्तार सम्मिता।। 12.10 ।।
नवभागैकहीना तु मध्यमा पञ्चधा कृते।
एकेना चरमा प्रोक्ता सप्तधा षड्भिरुत्तमा।। 12.11 ।।
सप्तथैव त्रिभिर्मध्या त्रिधा द्वाभ्यां कनीयसी।
द्वारादिषु स्थितस्यैव समासीनोन्नति क्रमात्।। 12.12 ।।
हस्तैस्सस्तभिरासीना श्रोष्ठा मध्या तु पञ्चभिः।

  • शयनमूर्तिमानम्*

त्रिभिर्जघन्या वक्ष्यामि शयनस्यापि चोन्नतिम्।। 12.13 ।।
आयामं गर्भगेहस्य भङ्त्क्वा षोडशधा पुनः।
अवशिष्टदशां शेन शयितस्योत्तमोन्नतिः।
आयाममष्टदा कृत्वा हित्वाद्वौ मून्ध्नपार्श्वतः।। 12.14 ।।
एकमंशं (5) चरणतश्शिष्टां शेनैव मध्यमा।
आयामं सप्तधा कृत्वा मूर्ध्न द्वावेकमङ्घ्रितः।। 12.15 ।।
(5.पंचमतः)
हित्वा कनिष्ठाशेषेण शयानस्याकृतिर्भवेत्।
विस्तारे वा चतुर्धा तु कृते तेष्वेकमुद्धरेत्।। 12.16 ।।
शिष्टेन (6) द्विगुणेन स्याच्छयनस्योत्तमोन्नतिः।
कृत्वैवं पञ्चभागेन स्याच्छयानस्य मध्यमा।। 12.17 ।।
(6.त्रिगुणेन.)
गर्भ विस्तारमानेन शयानस्याधमा भवेत्।
द्विगुणा द्वारमानेन शयानस्योत्तमोन्नतिः।। 12.18 ।।
अध्यर्धमानै र्मध्या स्यात्सपादा चरमा भवेत्।
उत्तमादिक्रमो यादृग्द्वारमाश्रित्य कीर्ततः।। 12.19 ।।
ध्रुवबेरस्य यादृक्स्यात् स्तम्भद्याश्रयणेऽपि च।
सप्तबिः पञ्चभिर्ह स्तैस्त्र्सिभिश्श्रेष्ठा यथाक्रमम्।। 12.20 ।।
यानेऽप्यासनवन्मानं विश्वरूपं स्थितां यथा।
गर्भगेहं त्रिधा कृत्वा द्विभागं चोत्तमं भवेत्।। 12.21 ।।
पञ्चदा तु कृते तस्मिन् त्रिभगो मध्यमो भवेत्।
गर्भार्धमधमं धाम्ना सर्वसाधारणे विधिः।। 12.22 ।।

  • यजमानानुगुण्येनमुर्तिमानम्*

यजमानाद्यनुगुणे विधिरद्याभिदीयते।
लब्धांशमङ्गुलीकुर्यात्प्रासादस्य चतुर्मुख।। 12.23 ।।

  • अङ्गुलिविधिः*

तत्राङ्गुलिविधिं वक्ष्ये यथातदवधारय।
पंचधाङ्गुलिराख्याता उच्यन्ते ता विधाः क्रमात्।। 12.24 ।।
मानं माना न्तरं मात्रा मुष्टिर्देह स्तथैव च।
वक्ष्यमाणक्रमेणैषां भेदानां लक्षणं शृणु।। 12.25 ।।
वातायनपथं प्राप्य ये यान्ति रविरश्मयः।
तेषु सूक्ष्मा विसर्पन्ति रेणवः परमाणवः।। 12.26 ।।
तेऽष्टौ केशाह्वय स्तेऽष्टौ लीक्षो यूकस्तदष्टकम्।
तदष्टकं यवा स्तेऽष्टौवङ्गु लिस्समुदाहृता।। 12.27 ।।
तदुत्तमाङ्गुलिस्सप्त यवा स्सैव तु मध्यमा।
यवाष्षडधमा प्रोक्ता मानाङ्गुलमिदं भवेत्।। 12.28 ।।
विन्यस्तैस्तिर्यगष्टाभिर्यवै र्मानान्तरागुलम्।
शालीभिर्वा ऋजुन्य स्तैस्त्रिभिर्माना न्तरं भवेत्।। 12.29 ।।
आचार्यदक्षिणकरे मध्यमाङ्गुलिमध्यमे।
पर्वणोरन्तरं दीर्घं मात्राङ्गुलमुदाहृतम्।। 12.30 ।।
चतुर्धा विभजेदेको भागो मुष्ट्यङ्गुलिः स्मृता।

  • कौतुकायाममानम्?

यत्किञ्चित्कौतुकायामं विभज्य दशधा पुनः।। 12.31 ।।
एकं द्वादशधा भागं कृत्वा तेष्वेकमङ्गुलम्।
उच्छ्रायः प्रतिमायास्स्या (7) न्महामानाङ्गुलाश्रयः।। 12.32 ।।
(7.देतद्देहांगुलं स्मृतम्.)

  • प्रासादवेदिकादीनामङ्गुलनिर्देशः *

प्रासादादींश्च तेनैव कुर्युन्मानान्तरेण वा।
वेदिका पीठशिबिका रथादीनां विधिः पुनः।। 12.33 ।।
मानान्तराङ्गुलेनै व भवेन्नन्येन केवचित्।
यागोपकरणानां च कुर्यान्मात्राङ्गुलेन च।। 12.34।।
होमाङ्गानि स्रुवादीनि कुणमुष्ट्यङ्गुलाश्रयः।

  • देहलब्धाङ्गुलेनप्रतिमाङ्गमानम्*

देहलब्धाङ्गुलेनैव प्रतिमाङ्गानि कल्पयेत्।। 12.35 ।।
(8) यैर्यावद्भिर्विभागां शैरर्च्यमानमुदाहृतम्।

  • ग्रामादीनां मानाङ्गुलेनै वायविभागः*

मानाङ्गुलेन तन्मानमङ्गुलीकृत्य तत्पुवः।। 12.36 ।।
(8.शय्यावद्भिर्वमानां)
आयव्ययादौ संयोज्य ग्रामादेर्यच्छुभं भवेत्।।
तत्तथा वक्ष्यते ब्रह्मन् इदानीमवधार्यताम्।। 12.37 ।।
लल्धांशमङ्गुलीकृत्य तदङ्गुलमथाष्टभिः
वर्धयेद्ध्रासयेच्चैव पुनर्द्वादशसङ्ख्यया।। 12.38 ।।
आयं शिष्टाङ्गु लं ज्ञेयं व्ययैर्नवभिरेधयेत्।
दशभिः क्षपयेच्छिष्टमङ्गुलं व्ययसंज्ञितम्।। 12.39 ।।
आयस्समग्रशुभदो व्यसस्स्वल्पशुभावहाः।
प्रतिकूले विपर्यासे ग्रामादेः कमलासन।। 12.40 ।।
त्रिभर्वृद्धौ क्षयोऽष्टाभिश्शिष्टं योनिरुदाहृता।

  • ध्वजाद्यष्टौ आयाः *

ध्वजो धूमस्तथा संहश्श्वावृषो गर्दभः करी।। 12.41 ।।
काक इत्युच्यते योनि स्सा शुभा शुभलक्षणा।
ध्वजस्सिंहो गजोऽवड्वान् शुभयोनिश्शुभावहः।। 12.42 ।।
धूमध्वाङ्क्षखरश्वानः प्रतिकूला वियोनयः।

  • नक्षत्रादिकल्पनप्रकारः*

अष्टाभिर्वर्धते हानौ सप्तविंशतिसङ्ख्यया।। 12.43 ।।
शिष्टमृक्षमिति प्रोक्तं ग्रामादे स्तच्छुभं भवेत्।
नवभिर्वर्धते हानौ पस्तभिश्शिष्टमङ्गुलम्।। 12.44 ।।
वारास्ते शुभदास्सौम्याः क्रूरास्स्युर्भयदायिनः।
वृद्धौ चतुर्भिर्नवभिश्शिष्टं हानवथांशकम्।। 12.45 ।।
तस्करो भुक्तिशक्तिश्च धन्यो नरवतिः क्लिबः।
(9) सुनीतिः प्रींरायुष्मान् एतेंशास्समुदीरिताः।। 12.46 ।।
(9.निर्भीतिः)

  • तालधनुः क्रौशादिनिरूपणम्*

मानाङ्गुलै र्द्वादशभिः मानं तालाह्ययं मतम्।
(10) द्वौतालौ कथितो हस्तसै ह्यष्टौ धनुरुच्यते।। 12.47 ।।
(10.द्वेतालेकथिता हस्तास्तस्या.)
स एव दण्डस्सयुगः क्रोशस्तैः पंच भिश्शतैः।
क्रोशैश्चतुर्भिर्गौपानं योजनं तच्चतुर्गणम्।। 12.48 ।।
ग्रामस्य यजमानस्य राज्ञो जनपदस्य च।
आयादिरनुकूलश्चेत्प्रतिमास्सर्वसिद्धिदाः।। 12.49 ।।
आयादिरेष विज्ञेयो मूलबेरसमाश्रयः।
(11) न तदङ्गेषु बिम्बेषु लोहजेष्वितरेषु वा।। 12.50 ।।
(11.तदनङ्गेषु.)
श्रद्धाबिम्बेषु विज्ञेयस्तथा भवनकौतुके।

  • प्रस्थादिमानभेदाः*

प्रस्था (12) दीना तुं मर्यादा प्रसङ्गादुच्यतेऽ(13)धुना।। 12.51 ।।
(12.देरपि.)(13. मया)
चत्वारो व्रीयः कुञ्जास्तेऽष्टौ मञ्जिष्ठ उच्यते।
ते शतं षष्टिरधिकं निष्कं निष्काष्टकं फलम्।। 12.52 ।।
फलानि पञ्च कुडुभं प्रस्थं स्यात्तु चतुर्गणम्।
तच्चतुर्गुणकं विद्यादाढकं तद्वयं शिवम्।। 12.53 ।।
तद्द्वयं द्रोणमुदितं खारी तद्वितयं भवेत्।
तत्खारीत्रितयं भारं परिमाणमुदीरितम्।। 12.54 ।।
एतेन परिमाणेन परिच्छेद्यं घृतादिकम्।
इति श्रीपाञ्च रात्रे महोपनिषदि पाद्मसंहितायं क्रियापदे
ध्रुवबेरप्रमाणानुकूल्यनिर्णयो नाम
द्वादशोऽध्यायः


*************------------