क्रियापादः/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ क्रियापादः
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
अष्टादशोऽध्यायः।

  • श्री कृष्णमूर्तिः*

श्रीभगवान्-----
यादवस्याथ कृष्णस्य निर्माणमधुनोच्यते।
कल्याणलक्षणयुतं त्रिभङ्गं सिंहविष्टरे।। 18.1 ।।
तिष्ठन्तं रुक्मिणीतस्यभामाभ्यां सहितं प्रभुम्।
ईषत्कुञ्चितवामाङ्घ्रिं सुस्थितेतरमद्भुतम्।। 18.2 ।।
मेघश्यामं विशालाक्षं पीतवस्त्रं चतुर्भुजम्।
(1) देवीसव्यभुजन्यस्तवामहस्तसरोरुहम्।। 18.3 ।।
(1.देवीभ्यां द्विभुजन्यस्त.)
अधोमुखं तु हस्ताग्रं नाभिसूत्रसमन्वितम्।
वामेतरकरस्पृष्टक्रीडायष्टिमनोहरम्।। 18.4 ।।
तत्करं कटिसूत्रान्त (2) मुदस्ते तु करद्वयम्।
शङ्खचक्रधरं कुर्याद्द्विभुजं वा यथोदितम्।। 18.5 ।।
(2. मुद्धृते च करद्वये.)
श्रीवत्साङ्कं प्रसन्नाभं वरेण्यं मुकुटोज्वलम्।
बद्धालकभरं वापि भागे दिव्ये प्रकल्पयेत्।। 18.6 ।।
रुक्मिणीं दक्षिणे पार्श्वे सत्यभामामथोत्तरे।
विनतानन्दनं वापि सत्यास्थाने प्रकल्पयेत्।। 18.7 ।।
आसीनं वा सुखं सार्धं देवीभ्यां सह विष्टरे।
वाहस्तेन वरदं दक्षिणेनाभयप्रदम्।। 18.8 ।।
यद्वा शयीत नृपवत्पर्यङ्के शोभिते भृशम्।
भोगीन्द्रशयने वापि महापर्यङ्कमण्डिते।। 18.9 ।।
पृष्ठतो मौलिपार्श्व तु रुक्मिणीं कारयेत्सुधीः।
सत्यभामा भवेत्पादसंवाहनसमुद्यता।। 18.10 ।।
संवहयंत्यौ वा देव्यौ हस्ताभ्यां पादपङ्कजम्।
तार्क्ष्यारूढं चतुर्बाहुं बिभ्राणं शरकार्मुकम्।। 18.11 ।।
मुख्याभ्यामपराभ्यां च शङ्खं चक्रं चतुर्मुख।
आरोप्य सत्यभामां वा वामोत्सङ्गे चतुर्भुजम्।। 18.12 ।।
आरुह्य यान्तं पक्षीन्द्रं द्विभुजं वा यथारुचि।
यद्वाऽर्जुनस्य सारथ्यं कुर्वाणं परिकल्पयेत्।। 18.13 ।।
रथस्थितं चतुर्बाहुं प्रतोदप्रग्रहौ दधत्।
वामहस्तेन मुख्येन दक्षिणेन करेण तु।। 18.14 ।।
कपिध्वजाय प्रह्वाय परविद्यामुदीरयन्।
अपराभ्यां च हस्ताभ्यां शङ्खचक्रधरं प्रभुम्।। 18.15 ।।
किरीटिनं विशालाक्षं श्रीवत्साङ्कितवक्षनम्।
द्विभुजं बद्धकेशं वा कुर्यात्कमलसम्भव।। 18.16 ।।
पार्थं च प्रांजलिं प्रह्वं सेषुं सेषुधिकार्मुकम्।
किरीटिनं श्यामवर्णं कल्पयेत्स्यन्धनस्थितम्।। 18.17 ।।
विश्वरूपं तु वा कुर्यात्केशवं केशिसूदनम्।
बृन्दावनगतं कृष्णं गवामनुचरं प्रभुम्।। 18.18 ।।
ईषत्कुञ्चितवामाङ्घ्रिमितरेण ऋजु स्थितम्।
गच्छन्तमपि गायन्तं वंशेन परमाद्भुतम्।। 18.19 ।।
ईक्षमाणं मनाक्सव्ये पार्श्वे पुष्पावतंसितम्।
विचित्रपुष्पग्रथितवनमालाविभूषितम्।। 18.20 ।।
बर्हिबर्हैश्च रुचिरैर्वत्सदामविभूषणैः।
भूषितं देवगन्धर्वसिद्धचारणसेवितम्।। 18.21 ।।
कदम्बमूले वा मध्यंदिने कृत्वा प्रतिष्ठितम्।
व्यत्यासेन स्थितं पद्भ्यां वामेन ऋजुना स्थितम्।। 18.22 ।।
दक्षिणप्रपदे (3) नान्यपृष्ठभागस्पृशा स्थितम्।
गोभिस्सवत्सैर्हरिणैः पक्षिभिश्च समावृतम्।। 18.23 ।।
(3.नाङ्घ्रि.)
ऋषिभिर्देवगन्धर्वैः किन्नराद्यैश्च सेवितम्।
फणीन्द्रं कालियं यद्वा फणापञ्चकसंयुतम्।। 18.24 ।।
पुरतः परुषाकारं नागाकारं च पृष्ठतः।
कृताञ्जलिं दुराधर्षमाक्रम्य शिरसि स्थितम्।। 18.25 ।।
वामपादेन गृह्णन्तं पुच्छं वामेन पाणिना।
(4) दक्षिणाभयदं हस्तं नृत्यन्तं कारयेद्बुधः।। 18.26 ।।
(4. दक्षिणेनाप्यभयदम्.)
(5) अथवा कृतताटंकं कुर्वाणं नाट्यमद्भुतम्।
महिषीतं नागराजस्य (6) भिक्षमाणां स्वकं पतिम्।। 18.27 ।।
(5.अथवेत्यर्धं बहुषु न दृश्यते.) (6. वीक्षमाणाम्.)
कृताञ्जलिपुटां देवीं तत्पार्श्वे वेपितां स्थिताम्।
रासमण्डलमध्यस्थं यद्वाकुर्याज्जगद्गुरुम्।। 18.28 ।।
(7) देव्योर्गृहीत्वा हस्ताभ्यां कराग्रं मध्यतः स्थितम्।
नृत्यन्तं बहुसाहप्रगोपकन्याभिरावृतम्।। 18.29 ।।
(7. देव्यौ गृहीत्वा.)
नवनीताय नृत्यन्तं सर्वेन ऋजुना स्थितम्।
उद्धृत्य दक्षिणं पादं विपरीतमथापि वा।। 18.30 ।।
(8) कारयेद्वामहस्तं तु चुबुकान्तसमुच्छ्रयम्।
अभीतिदं दक्षिणेन वरदं वा यथारुचि।। 18.31 ।।
(8.प्रसारयेद्वामहस्तं)
मध्यतः स्तननाभ्योश्छ वरदो हस्त इष्यते।
यादवेन्द्रेण कृष्णेन क्रिडया यद्यथाश्रितम्।। 18.32 ।।
कल्पयित्वा वपुन्तत्तदाराध्यां विभवार्थिभिः।
एकबेरविभानां चेत् स्थापयेद्ब्रह्मणः पदे।। 18.33 ।।
कर्मार्चादीनि बिम्बानि कल्पयेद्रघुवीरवत्।
रुक्मिणीस्यभामाभ्यां सह पीठे प्रकल्पयेत्।। 18.34 ।।
रुक्मिणी कनकप्रख्या (9) सत्याऽन्या श्यामला भवेत्।
करण्डिकामकुटिनी यद्वा धम्मिल्लधारिणी।। 18.35 ।।
(9.सत्याख्या)
सत्यभामा करे पद्मं धारयेद्दक्षिणे परम्।
ऊरौ विश्रामयेदन्यं धारयेदन्यथाऽथवा।। 18.36 ।।
यथोक्ततरविन्यासकल्पनं कमलासन।
बाल्येऽपि या या देवी स्यात्या सा कल्प्या यथाविधि।। 18.37 ।।

  • कल्पिमूर्तिः*

निर्माणमधुना वक्ष्ये कल्कि विष्णोर्महात्मनः।
पिङ्गश्मश्रुं विवृत्ताक्षं रक्ताभं हयवहनम्।। 18.38 ।।
द्विभुजं चर्मवसनं खड्गखेटकधारिणम्।
जटामुकुटसंयुक्तं ब्रह्मलक्ष्म्या विराजितम्।। 18.39 ।।
पैशाचे यानकं कुर्याद्दिव्ये भागे स्थितिर्भवेत्।
यद्वा चतुर्भुजं कुर्यान्मुख्याभ्यां खड्गखेटकौ।। 18.40 ।।
अपराभ्यां शङ्खचक्रं हस्ताभ्यां दधतं हरिम्।
आसने खेटकं ख़ड्गं न कुर्वीत कदाचन।। 18.41 ।।
अभयं वरदं चैव करयुग्मं प्रकल्पयेत्।
शयनं नेष्यते तन्य कल्पिविष्णो र्महात्मनः।। 18.42 ।।
एकबेरविधानं चेत्कल्पयेद्ब्रह्मणः पदे।
आसीनां स्थानकं चैव भागे दिव्ये प्रकल्पयेत्।। 18.43 ।।
तस्य दक्षिणपार्श्वे तु याज्ञवल्क्यं पुरोहितम्।
नारदं दक्षिणे (10) पार्श्वे भित्तिभूमिषु देवताः।। 18.44 ।।
(10. भागे.)
कल्पयेज्जङ्गमान् बिम्बान् द्विजान्वा चतुर्भुजान्।
अभयं वरदं चैव द्वौ भूजौ परिकल्पयेत्।। 18.45 ।।
चतुर्भुजे शङ्खचक्रे द्वयोरपरयोर्भवेत्।

  • कर्मबिंबसामान्यलक्षणम्.*

श्रीवत्सेवाङ्कितोरस्कान् जटामुकुटसंयुतान्।। 18.46 ।।
किरीटिनो वा कुर्वीत कर्मबिम्बांश्च लोहजान्।
विष्णोरंशावताराणां कमान् (11) र्चाद्यास्तु कौतुकाः।। 18.47 ।।
(11.द्यर्थाश्च.)
कल्पनीयाश्चतुर्हस्ताः द्विभुजा वा यथारुचि।
दशतालेन मीयन्तेवराहाद्याश्चमूर्तयः।। 18.48 ।।
बाह्यांश्चाभ्यन्तरांश्चैव परिवारान् प्रकल्पयेत्।
आदिमूर्तेर्यथा तद्वत् न विशेषोस्तिकश्चन।। 18.49 ।।

  • लक्ष्मीनारायणमूर्तिः*

लक्ष्मीनारायणं कुर्याद्भुजाष्टकसमन्वितम्।
यद्वा चतुर्भुजं शङ्खचक्राद्यायुधभूषितम्।। 18.50 ।।
वामभागे तु हस्ताभ्यां वरदं पङ्कजं तु वा।
इतराभ्यां च हस्ताभ्यामभयं चक्रमेव वा।। 18.51 ।।

  • अभिन्नालक्ष्मिनारायणमूर्तिः*

वपुषो (12) दक्षिणे भागे विष्णुर्वामे सरोरुहा (13) ।
पीनस्तनतटो वामश्श्री वत्साङ्कस्तथेतरः।। 18.52 ।।
(12.दक्षिणो भागो विष्णोर्वामः) (13.सरोरुहा----लक्ष्मीः)
वामो हेमनिभश्श्यामो दक्षिणो भाग इष्यते।
आसीनं वा शयानं वा गरुडारूढमेव वा।। 18.53 ।।

  • यज्ञमूर्तिः*

स्थितं वा कल्पयेद्धेवं यज्ञमूर्तिमतश्शृणु।
(14) तिशीर्षं च त्रिपादं च चतुश्शृङ्गं चतुर्मुख।। 18.54 ।।
(14. द्विशीर्षंचतिपादं च चतुरङ्गम्.)
सप्तहस्तं जपा (15) तुल्यं वनमालाविभूषितम्।
अभीतिदो मुख्यहस्तो दक्षिणोऽन्यो वरप्रदः।। 18.55 ।।
(15. साम्यम्.)
पञ्चौतरकराश्च स्रुक्स्रुवाद्यायुधभूषिताः।

  • एकद्वित्य्रादिमूर्तिभेदः*

एकमूर्तिर्वासुद्वे लक्ष्मीना?रायणः परः।। 18.56 ।।
तौ द्विमूर्तिस्त्रिमूर्तिस्तु सत्यश्चाच्युतपूरुषौ।
चतुर्मुर्तिर्वासुदेवो भवेत्सङ्कर्षण स्तथा।। 18.57 ।।
प्रद्युम्नश्चानिरुद्धश्च पञ्चमूर्तिमतश्शृणु।
सत्याच्युतौ तथानन्तः वासुदेवश्च पूरुषः।। 18.58 ।।
षण्मूर्तिरन्नाधिपतिश्शक्तीशः कालनेमिजित्।
त्रैलोक्यमोहनो यज्ञवराहा श्चेति पंचमः।। 18.59 ।।
शङ्खोदरो नृसिंहश्च सप्तमूर्तिरथोच्यते।
चतस्रो वासुदेवादि मूर्तयः पूर्वमीरिताः।। 18.60 ।।
पूषादयस्तथा तिस्रस्सप्तमूर्तिरुदाहृता।
हयग्रीवो मुकुन्दश्च बभ्रुश्चैव वृषाकपिः।। 18.61 ।।
शौरिश्च (16) दाशार्हश्चैव वैकुण्ठः पुरुषस्तथा।
अष्टमूर्तिरिति प्रोक्तोनवमूर्तरथौच्यते।। 18.62 ।।
(16.दाळहश्चैव.)
चतस्रः कथिताः पूर्वं वासुदेवादय स्तथा।
नारायणो हयग्रीवो विष्णुर्वृहरिसूकरौ।। 18.63 ।।
ष़डन्नेशादयः प्रोक्ताः वासुदेवादिमूर्तयः।
चतस्रो दशमूर्तिस्स्यादादिमूर्तिरिमा दशः।। 18.64 ।।
स्यादेकादशमूर्तिस्स्यात्प्रोक्ता द्वादशमूर्तयः।
चतस्रो विंशतिश्चैव मूर्तयः पूर्वमीनिताः।। 18.65 ।।

  • पञ्चमूर्तिप्रतिष्ठाविधिः*

पंचमूर्ति (17) (******?) समुदीर्यते।
स्थापयेद्वासुदेवाभ्यां मूर्तिं गर्भं गृहे सुधीः।। 18.66 ।।
(17. प्रतिष्ठाया.)
दिव्ये भागेथवा ब्राह्मे बहिः प्राग्दिशि पूरुषम्।
सत्यमूर्तिं दक्षिणस्यां प्रतीच्यामच्युतं यथा।। 18.67 ।।
अनन्ताख्यमुतीचीने चलां वा यतिवाऽचलाम्।
धाम्नेऽन्तर्वासुदेवस्स्याच्चतुर्मूर्तिषु पूर्ववत्।। 18.68 ।।
सङ्कर्षणं दक्षिणस्यां बहिर्दिशि निवेशयेत्।
प्रद्युम्नं च प्रतीचीने कौबेर्यामनिरुद्धकम्।। 18.69 ।।
यां यां दिशमधिष्ठाय स्थिताः पूर्वो क्तमूर्तयः।
तत्तद्दिगाभिमुख्येन कल्पयेत्कमलासन।। 18.70 ।।
द्वारं वातायनं वापि कुर्याद्भित्तिंन (18) कल्पयेत्।
शङ्खचक्रगदायुक्ता मुख्यैरभयदा करैः।। 18.71 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादो मूर्तिबेद कथनं नाम
अष्टादशोऽध्यायः


******************--------------