क्रियापादः/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ क्रियापादः
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
एकोनविंशोऽध्यायः

  • कर्माध्यर्चामूर्तिमानविधिः *

तत्रबहुबेरमानम्.
श्रीभगवान्----
कर्मार्चादिप्रकृतिप्रकारः कथ्यतेऽधुना।
कर्मार्चा चोत्सवार्चा च बल्यर्चा च तथैव च।। 19.1 ।।
स्नानतीर्थोभयार्चा च स्वापोत्थानार्चया सह।
प्रतिमाष्षड्विधातव्याः पूजायामुत्तमा भवेत्।। 19.2 ।।
तिसृभिर्मध्यमा ज्ञेया (1) आद्या या चरमा भवेत्।
बहुबेरे विधिरयं कथितः कमलसन।। 19.3 ।।

  • एकबरमानम्*

एकबेरे तु कर्मार्चास्नपनार्चा च नेष्यते।
ध्रुवबेरसमुच्छ्राये विभक्ते दशदा सति।। 19.4 ।।
एकां शेन प्रतिकृतेः कर्मार्चायास्समुच्छ्रयः।
द्वादशां शेन यद्वा स्यात् षोडशां शेन वा भवेत्।। 19.5 ।।
यद्वाऽष्टादशभागेन चतुर्विंशांशमेव वा।
महाबेराङ्गुलापेक्ष्या यद्वा तस्यास्समुन्नतिः।। 19.6 ।।
चतुर्विंशाङ्गुला यद्वा भवेदष्टादशाङ्गुला।
षोडशाङ्गुलमाना वा यद्वा स्याद्द्वादशाङ्गुला।। 19.7 ।।
अष्टाङ्गुलाऽथवा यद्वा षडंगुलसमुच्छ्रया।
चतुरङ्गुलमाना वा यद्वामानांगुलेन तु।। 19.8 ।।
पूर्वोक्तांगुलमानानि कर्तव्यानि यथारुचि।

  • बल्यादि मूर्तिमानम्*

बलितीर्थप्रतिकृतिश्शयनोत्थानकौतुकम्।। 19.9 ।।
कर्मार्चासंमितोत्सेधः कथितः कमलासन।
कर्मबिम्बसमुत्सेधस्त्रिगुणः परिशिष्टयोः।। 19.10 ।।
स्नपनोत्सवकार्यार्थं बिम्बयोरुभयोरपि।
भङ्क्त्वा तिधा चतुर्धा वा ध्रुवबेरसमुच्छ्रयम्।। 10.11 ।।
एकभागे नलोत्सेधं कुर्यादुत्सवकौतुके।
उत्सवार्चातृतीयांशं तुर्यांशं वाम्बुजासन।। 10.12 ।।
कर्मकौतुकमानं स्याद्बह्वर्चा (1) देरयं क्रमः।
एकबेरे तदर्धा तु तत्तु (2) र्यांशकमेव वा।। 10.13 ।।
(1. चेदयम्.) (2. तत्तुर्योनांशिकापि वा. तत्तुरीयांशिकापिवा.)
उत्सवार्चातृतीर्यांशसमुत्सेधौऽथवा भवेत्।

  • स्थानयानासनबिंबवदेवकर्मार्चा*

स्थानयानासनविधौ ध्रुवबिम्बं यथाकृतम्।। 19.14 ।।
कर्मार्चादीनि तद्वत्स्यात् ध्रुवे तु शयिते पुनः।
तिष्ठेद्वासीत वा कामं कर्माद्यर्चा चतुर्मुख।। 19.15 ।।

  • नित्योत्सवप्रतिकृतिस्सर्वत्रैव स्थिता भवेत्*

अर्चायामं त्रिधा कृत्वा (3) पद्मेमेकेन कल्पयेत्।। 19.16 ।।
(3. विस्तारतुलितायति.)
उपानहादिपञ्चाङ्गयुक्तं वृत्तं सुखावहम्।
चतुरश्रं मनोहारि विस्तारतुलितायति।। 19.17 ।।
तृतीयभागविहितप्रभशङ्कुद्वयाङ्कितम्।
पीठोत्सेधं तिधा कृत्वा पद्ममे केन कल्पयेत्।। 19.18 ।।
तलैर्द्वादशभिर्युक्तमष्टाभिवान् यथारुचि।
तावदूर्ध्वदलोपेतं मध्ये विपुलकर्णिकम्।। 19.19 ।।
उपच्छदसमायुक्तिमीषत्फाम्भुजाकृति।
पादमानं दलायामं केवलं वा सरोरुहम्।। 19.20 ।।
पीठं वा (4) केवलं वापि सुषिरं नैवकारयेत्।
स्थितस्य कौतुकस्येदं पीठनिर्माणमीरितम्।। 19.21 ।।
(4. पि यथाकामं)

  • आसीनपीठिमानम्.*

आसीनस्यायतं वृत्तं चतुरश्रं यदायतम्।
प्रतिमार्धसमुत्सेधं तत्त्रतीयांशमेव वा।। 19.22 ।।
(5) पद्मं बहुदलोपेतं मध्ये विपुलकर्णिकम्।
सकुञ्चितप्रसव्याङ्घ्रिरधस्ताल्लम्बितेतरः।। 19.23 ।।
(5. पद्ममष्टदलोपेतं)
अध्यासीतासनं देवो यथोक्तं कमलासन।
लम्बमानपदाधारं कमलं परिकल्पयेत्।। 19.24 ।।

  • श्रीभूम्योस्सन्निवेशः*

श्रीर्दक्षिणे धरा वामे देव्यौ देवस्य कल्पयेत्।
कर्मादिभिम्बषट्कं स्याच्छ्रीभूमिसहितं सदा।। 19.25 ।।

  • श्रीदरादेव्योरासनस्थितिविकल्पः*

एकस्मिन्विष्टरे स्यातां वृथग्वा वल्लभे उभे।
वामं सञ्क्षिप्य चरणमितरं लम्बयेदधः।। 19.26 ।।
श्रीर्धरा त्वव्यथा (6) सीना स्थिते देवे तथा स्थिता।

  • प्रभायाः मानादि*

वृत्तां वृत्तायतां वापि प्रभां बिम्बानुसारतः।। 19.27 ।।
(6. सीनेस्थितेदेवेतथास्थिते.)
कृर्यान्मनोहरां यस्मात्तेजोराशिः प्रभा मता।
द्व्यङ्गुलं काण्डमानं स्यात्पुष्पक्षेत्रं तदर्धकम्।। 19.28 ।।
अर्धाङ्गुलं भवेत्क्षेत्रं काण्डं तदनुपूर्ववत्
वेत्रं तदनु भूयोऽपि ज्वालामालोपरिस्थिता।। 19.29 ।।
अर्धाङ्गुलान्तरालास्स्युर्ह्वालाः पञ्चशिखास्तथा।
त्रिशिखा वा यथायोगं दक्षिणावर्तशोभिताः।। 19.30 ।।

  • प्रभायांमीनादिमूर्तिकल्पनम्*

युग्मा वा स्युरयुग्मा वा काण्डे काण्डे प्रकल्पयेत्।
दशावतारमूर्तीर्वा मीनाद्याः केशवादिकाः।। 19.31 ।।
प्रभायाः पार्श्वयोः पृष्ठे शङ्कुनालं प्रकल्पयेत्।

  • तोरणप्रभा*

बिम्बे यानाधिरूढे कर्तव्या तोरणप्रभा।। 19.32 ।।
अन्तर्बहिश्च दाड्यार्थमायसं तु निवेशयेत्।

  • बिंबप्रभासनानिलोहजान्येव.*

बिम्बं प्रभामासनं वा लोहजं पलिकल्पयेत्।। 19.33 ।।

  • लोहमूर्ति निर्माणक्रमः*

द्वावयित्वा मधूच्छिष्टं प्रतिमां तेन कल्पयेत्।
धान्याराशिं विनिक्षिप्य तदूर्ध्वे तिलतण्डुलम्।। 19.34 ।।
चक्राब्जं तु लिखेत्तस्मिन्प्रागग्रान्निक्षिपेत्कुशान्।
वस्त्रं च नूतलनं तस्मिन्विस्तीर्य प्रतिमां क्षिपेत्।। 19.35 ।।
प्राचीनशिरसं पश्चाज्जुहुयादनले गुरुः।
पुष्पैस्समिद्भिर्लाजैश्च सर्पिषाष्टोत्तरं शतं।। 19.36 ।।
जुहुयान्मूलमन्त्रेण नृसूक्तेन चरुं पुनः।
हुत्वैवं विधिनाचार्यस्स्रग्वी कनकभूषणः।। 19.37 ।।
संपाताज्येन संसिच्येत्प्रतिमां तत्वपद्धतिम्।
ध्यायेत्तत्र शुभे लग्ने पूजयेन्मूलविद्यया।। 19.38 ।।
यजमानो गुरुं पूह्य बहुभिस्तोषयोद्धनैः।
ब्राह्मणान् विदुषो वित्तैर्बहुभिः परितोषयेत्।। 19.39 ।।
स्थिपतिः प्रतिमां कुर्याद्रथकाराभ्यनुज्ञया।
मानोन्मानप्रमाणैस्तां प्रतिमां कारयेच्छुभाम्।। 19.40 ।।
मृदा लेपं ततः कुर्याच्छिल्पशास्त्रानुसारतः।

  • लोहविकल्पः*

सुवर्णं रजतं ताम्रं विशुद्धं लोहमुत्तमम्।। 19.41 ।।
आधय धान्य (7) राश्यां तु पूर्ववन्न्यासकल्पनम्।
पूर्ववच्चैव जुहुयादाचार्याश्चोदितक्रमात्।। 19.42 ।।
(7. राश्यादौ.)
द्रावयित्वा ततश्शुद्धं लोहं न्यायसमार्जितम्।
स्थपतिः प्रतिमां तेन कुर्याच्छास्त्रोक्तवर्त्मना।। 19.43 ।।
लोहजां प्रतिमां चैवं कल्पयेत्परमात्मनः।
स याति परमं स्थानं पुनरावृत्तिवर्जितम्।। 19.44 ।।

  • प्रतिमायाहस्तादि वैकल्येशान्ति*

प्रतिमाहस्तपादादिवैकल्ये शान्तिमाचरेत्।
आचार्यो दनहूमाद्यैस्ततश्शान्तिर्भविष्यति।। 19.45 ।।
समादध्यादवयवान् विकलान् स्थपतिः पुनः।

  • चित्रार्ध चित्र चित्राभासादि निरूपणम्*

चित्रं चाप्यर्धचित्रं च चित्राभासमिति त्रिधा।। 19.46 ।।
कौतुकं तत्र दृश्यन्ते यस्मिन्नवयवास्स्फुटम्।
सर्वे समन्ताच्चित्रं तु तद्विज्ञेयं चतुर्मुख।। 19.47 ।।
हस्ताद्यवयवा यस्मिन्पुरोभागे समीक्षितुम्।
शक्यं नापरभागे तु तदर्धं चित्रमिष्यते।। 19.48 ।।
रूपिता प्रतिमा या तु वर्णैरेव सितादिभिः।
कुड्यादौ चित्रमाभासं तत्कौतुकमुदाहृतम्।। 19.49 ।।
चित्रमुत्कृष्टमित्युक्त मर्धं मध्यममुच्यते।
आभासमधमं विद्धि मन्दिरे वाथ वेश्मनि।। 19.50 ।।
स्थापयेद्ध्रुवभिम्भार्थं पूर्वालाभे यथोत्तरम्।

  • प्रतिमानां तालादिमानम्*

अतः परं प्रवक्ष्यामि प्रतिमामानलक्षणम्।। 19.51 ।।
ए कादिदशपर्यन्तं सङ्ख्ययोपेयुषां भिदाम।
तालानामुत्तमादीनां रूपाविष्कृतिपूर्वकम्।। 19.52 ।।
यत्किञ्चित्प्रतिमामानं विभज्य दशदा पुनः।
एकं द्वादशदा भङ्त्क्र तत्रैकांशोऽङ्गुलः स्मृतः।। 19.53 ।।
अङ्गुलं चाष्टधा कुत्वा तत्रैकांशो यवः स्मृतः।
तेनै वाङ्गुलमानेन अङ्गप्रत्यङ्गकल्पना।। 19.54 ।।
द्वादशाङ्गुलकं मानं तालाख्यमिह कथ्यते।
द्वादशाङ्गुलकस्तालो मुख्यश्चेति प्रतीर्तितः।। 19.55 ।।
द्व्यङ्गुलं गोलकं ज्ञेयं कलेति व्यपदिश्यते।
एकाङ्गुलं भवेन्मात्रा भागो मात्राचतुष्टयम्।। 19.56 ।।
उत्तमाधममध्यानि तालानि कमलासन।
एकादिदशपर्यन्तं सङ्ख्यया च्छेदयन्ति च ।। 19.57 ।।
 मीयते दशतालेन वासुदेवस्सनातनः।
सवार्धतालौ ब्रह्मेशौ नवतालेन देवताः।। 19.58 ।।
अष्टार्धतालौ द्वारस्थाः कुमुदादिगणास्तथा।
आष्टतालांश्च मनुजान् पिशाचादींश्च सप्तकान्।। 19.59 ।।
षट्तालान् कुब्जकान् विद्धि पंचतालांस्तु वामनान्।
चतुस्तालानि भूतानि तितालाः किन्नरास्तथा।। 19.60 ।।
मत्स्या द्वितालका ज्ञेयास्तालेनै केन पन्नगाः।
दशतालं चतुर्विंशदङ्गुलीनां शतं भवेत्।। 19.61 ।।
उत्तमं मध्यमं विंशत्कनिष्ठं षोडश स्मृतम्।
नवतालं तु तच्छ्रेष्ठं यच्छतं द्वादशाधिकम्।। 19.62 ।।
अष्टाधिकं शतं मध्यं कनीयश्चतुरुत्तमम्।
अष्टतालां शतं श्रेष्ठं मध्यमं षण्णवत्यपि।। 19.63 ।।
(8) चतुर्थहीनमधममष्टतालं प्रकीर्तितम्।
उत्तमादिक्रमोऽन्येषु सप्ततालादिषूह्यते।। 19.64 ।।
(8. तच्चतुर्हिन.)
चतुश्चतुर्विहीनां चेत्क्रमादङ्गुलिभिर्भवेत्।
पूर्वं पूर्वं यथोक्तं तत्त्रैविध्यमवगम्यताम्।। 19.65 ।।
(9) त्रयोदशार्धाङ्गुलिकं दशतालोत्तमे मुखम्।
अर्धेनाङ्गुलिना पीनं मध्यमं संप्रचक्षते।। 19.66 ।।
(9. तियार्धाङ्गुलिकं नाम.)
अर्धेनाङ्गुलिना हीनमेकैकमितरेष्वपि।
ध्रुवायामुत्तमं तालमर्चायां मध्यमं भवेत्।। 19.67 ।।
अधमं परिवाराणां सर्वेषां कमलासन।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे लोहजप्रतिमा निर्याण तालविभागो नाम
एकोनविंशोऽध्यायः


***************-------------