क्रियापादः/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ क्रियापादः
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
षोडशोऽध्यायः।

  • यानारूढमूर्तिलक्षणम् तत्र उत्तमम्*

श्रीभगवान्----
यानारूडस्य भोदोऽयं अधुना संप्रदर्श्यते।
वैन तेयं सुवर्णाभं पक्षमण्डलमण्डितम्।। 16.1 ।।
(1) नीलाग्रनासासंयुक्तं नागेन्द्राभरणै र्युतम्।
स्कन्धे (2) चारुह्या चरणं वाममाकुञ्च्य दक्षिणम्।। 16.2 ।।
(1. नीलनासाग्र.) (2. चारोप्य.)
प्रसार्य चरणं देवो भुजाष्टकसमन्वितः।
चक्रपद्मासिविशिखान् धारयन् दणिणैः (3) करैः।। 16.3 ।।
(3. भुजैः)
शङ्खं कौमोदकीं चर्म चापमन्यैः करैर्दधत्।
पृष्ठतो भित्तिपार्श्वे तु आतपत्रं सुरद्रुमम्।। 16.4 ।।
सवन्दसनकौ भित्तौ पार्श्वयोश्चन्द्रभास्करौ।
यथा (4) स्वावाहने देवस्समारुह्य स्थिता यदि।। 16.5 ।।
(4. नृवाहने.)
अर्चनापीठिकापार्श्वे श्रीमह्यौ तु कृतांजली।
सुरासुरमुनीन् नागान् सिद्धविद्याधरां स्तथा।। 16.6 ।।
गन्दर्वाप्सरसो मेघान् कारयोद्भित्तिभूमिषु।
सर्वे चित्रेण संयुक्ता यानारोहणमुत्तमम्।। 16.7 ।।

  • मध्यमामूर्तिः*

देवं चतुर्भुजं कृत्वा शङ्खचक्रगदाधरम्।
वामोत्सङ्गे समारोप्य रतिं दाडिमसन्निभाम्।। 16.8 ।।
पाशाङ्गुशधरां देवीं कामविह्वललोचनाम्।
अर्चनापीठिकापार्श्वे श्रियं भूमिं च कारयेत्।। 16.9 ।।
नारदश्च भृगुश्चैव कृड्ये चामरधारिणौ।
प्रीतं सरस्वतीं शान्तिं कल्पयेत् (5) याम्यभूमिषु।। 16.10 ।।
(5. द्यस्य.)
पुष्ठिं तुष्टिं च कीर्तं च कुड्ये वामे च कारयेत्।
पुष्पमञ्जरिहस्ताशअच सितचामरवीजनाः।। 16.11 ।।
अर्धचित्रेण वा सर्वे आभासेनैव वा विधिः।
(6) मध्यमो वाहनारोहश्शृणुनीचं चतुर्मुख।। 16.12 ।।
(6. मध्यमं यानमारोहं.)

  • जघन्यामूर्तिः*

चतुर्भुजं विशालाक्षं भिन्नाञ्जनचयप्रभम्।
मुख्याभ्यां चैव हस्ताभ्यां शार्ङ्खपञ्चशरानपि।। 16.13 ।।
ऊर्ध्वाभ्यामितराभ्यां च शङ्गं चक्रं च धारयन्।
(7) निष्टप्तकनकप्रख्यां वामोत्सङ्गसमर्पिताम्।। 16.14 ।।
(7. निष्टप्तकाञ्चन.)
लावण्यामृततोयेन सिञ्चन्तीमिव सर्वतः।
दक्षिणं पुष्पहस्तं वा वामहस्तं वसुप्रदम्।। 16.15 ।।
अर्चनापीठिकापार्श्वे रतिं शान्तिं च कारयेत्।
चित्राभासेन कुड्यस्थाः नीचं यानाधिरोहणम्।। 16.16 ।।

  • विश्वरूपमूर्तिः तत्र उत्तमा*

 विश्वरूपं प्रवक्ष्यामि शृणु पङ्कजसम्भव ।
द्विपादमेककण्ठं च चतुर्दिक्षु चतुर्मुखम्।। 16.17 ।।
वासुदेवमुखादूर्ध्वं सर्वदेवमुखानि तु।
सङ्कर्षणमुखादूर्ध्वं सर्वर्षीणां मुखानि च।। 16.18 ।।
प्रद्युम्नस्य मुखादूर्ध्वं दै त्यदानवरक्षसाम्।
अनिरुद्धमुखादूर्ध्वं नागगन्धर्वकिन्नराः।। 16.19 ।।
मुखान्येतानि चान्यानि (8) यथाविभवमादरात्।
कर्तव्यानि चतुर्वक्त्र (9) समर्थानि विचक्षणैः।। 16.20 ।।
(8.मुखान्येतानि चेन्द्रादि.) (9. समुस्थानि.)
उपरिष्टाच्च वक्त्राणां किरीटमतिशोभनम्।
कुर्याद्युगपदुद्भूतं सहस्रादित्यवर्चसम्।। 16.21 ।।
अनेकभुजसंयुक्तं अनेकायुधभूषितम्।
अर्चितं ब्रह्मरुद्राभ्यां भित्तिभूमिषु देवताः।। 16.22 ।।
चित्रेण सर्वे विहिताः विश्वरूपस्स उत्तमः।

  • मध्यमामूर्तिः*

सर्वे यथोक्ताः कुड्यस्थाः अर्धचित्रेण चेत्कृताः।। 16.23 ।।
सवन्दसनकौ कुर्यात्पूजापिठस्य पार्श्वयोः।
मध्यमा विश्वमूर्तस्स्यात्

  • जघन्या विश्वमूर्तः*

जघन्यामपिसंशृणु।। 16.24 ।।
आभासेनैव कुड्यस्थाः देव्यौ पूजासने स्थिते।
चतुर्भिर्बाहुभिर्युक्तः वासुदेवश्च शाश्वतः।। 16.25 ।।
मुख्याभ्यां धारयन् सर्वदक्षिणाभ्यां गदाम्बुजे।
ऊर्ध्वाभ्यामितराभ्यां तु शङ्खचक्रे यथारथम्।। 16.26 ।।
अथवा दक्षिणो हस्तः परदोऽभयदोपि वा।
गदां विना वामहस्तः कटिदेशावलम्बितः।। 16.27 ।।
द्विभुजो वा बहुभुजो युक्तो नेकै स्तथाननैः।
(10) एकेन वा सितो वर्णे वासुदेवस्सनातनः।। 16.28 ।।
(10. एकोन.)
एवं नारायणोऽ(11)नादिर्नीलनीरदसन्निभः।

  • चतुर्वंशतिमूर्तिलक्षणम्*

चतुर्विंशतिमूर्तीनां लक्षणं वक्ष्यतेऽधुना।। 16.29 ।।
(11. नामनीलजीमूत.)
केशवस्याम्बुजं शङ्खं चक्रं दण्डस्तथायुधम्।
प्रादक्षिण्येन बाहूनामन्येषामुच्यते क्रमात्।। 16.30 ।।
नारायणश्शङ्खपद्मगदाचक्रधरः स्मृतः।
मधवो गदया सार्धं चक्रशङ्खम्बुजायुधः।। 16.31 ।।
 गोविन्दश्चक्रदण्डाब्जशङ्खायुधधरो भवेत्।
विष्णुर्गदाब्जशङ्खारिधरस्स्यान्मधुसूदनः।। 16.32 ।।
चक्रशङ्खाब्जदण्डास्त्रधरः कार्यस्त्रिविक्रमः।
(12) पद्मदण्डारिशङ्खास्त्रो वामनश्शङ्खचक्रधृक्।। 16.33 ।।
(12. मद्मशङ्खापिदण्डास्त्रः)
गदाब्जपाणिश्चतथा श्रीधरो धृतवारिजः।
सार्धं चक्रगदाशङ्खैः हृषीकेशमतश्शृणु।। 16.34 ।।
गाचक्राब्जशङ्खास्त्रधरः पङ्कज (13) नाभकः।
(14) पद्मचक्राम्बुजगदाधरो दामोदरः स्मृतः।। 16.35 ।।
(13. नाभिधृक्.) (14.शङ्खचक्राब्जदण्डास्त्रधरो.)
अब्जशङ्खगदाचक्रधरो द्वादशमूर्तयः।
एताः कौमोदकीशङ्खचक्राम्भोजधराः स्मृताः।। 16.36 ।।
वासुदेवो जगद्वोनिस्सङ्कर्षणमतश्शृणु।
गदाशङ्खाब्जचक्राणि धारयन्तं चतुर्भुजम्।। 16.37 ।।
प्रद्युम्नश्चक्रशङ्खाभ्यां सह दण्डसरोजवान्।
अनिरुद्धो।़रिदण्डाब्ज (15) पद्मपाणिश्चतुर्भुजः।। 16.38 ।।
(15. अनिरुद्धोऽरिदण्डास्त्रशङ्ख.)
(16) चक्रमद्माम्बुजैस्सार्धं गदावान् पुरुषोत्तमः।
अधोक्षजः पद्मदण्डशङ्खचक्रधरः स्मृतः।। 16.39 ।।
(16. चक्रपद्मधरश्शङ्ख.)
नृसिंहश्चक्रजलजगदशङ्खधरः स्मृतः।
अच्युतो दण्डपद्मारिशंखहस्तश्चतुर्भुजः।। 16.40 ।।
जनार्दनः पद्मचक्रशंखदण्डश्चतुर्भुजः।
उपेन्द्र (17) श्शङ्खदण्डारिपद्मायुधविभूषितः।। 16.41 ।।
(17. पद्मदण्डादिशङ्खायुध।)
शंखचक्राब्जदण्डास्त्रः हरिस्स्यत्कमलासन।
कृष्णश्शंखगदापद्मचक्रपाणिश्चतुर्भुजः।। 16.42 ।।
दक्षिणं हस्तमारभ्य पादक्षिण्येन कारयेत्।
मूर्तिचिह्नानि शंखादीन्यायुधानि विचक्षणः।। 16.43 ।।
वासुदेवः पद्मनाभः नारायणजनार्दनौ।
एतेषां वर्णभेतोऽस्ति न विशेषोस्ति चायुधैः।। 16.44 ।।
पीताम्बुरधरास्सर्वाश्चतुर्विंशतिमूर्तयः।
श्रीवत्सकौस्तुभाकल्पवनमालाविभूषिताः।। 16.45 ।।
भोगार्थिन श्चेद्भित्तिस्थान्(18) देवीभ्यां स्थापयेत्सह।
विना ताभ्यां मोक्षकामाः स्थापयेयुर्यथा (19) विधि।। 16.46 ।।
 (18.स्थं)(19. रुचि.)
आसनस्थानशयनयानादिषु यथाविधि।

  • ब्रह्मादिमूर्त्यष्टकम्*

अष्टौ वक्ष्ये परा यूर्तीस्तानु ब्राह्मी प्रशस्यते।। 16.47 ।।
प्राजापत्या द्वितीया तु तृतीया वैष्णवी मता।
दैवी चतुर्थी तदनु मूर्तरार्षीचतुर्मुख।। 16.48 ।।
षष्ठी तु मानुषी ज्ञेया सप्तमी मूर्तरासुरी।
पै शाची मूर्तरन्या स्यात्तासां लक्षणमुच्यते।। 16.49 ।।

  • ब्राह्मी*

प्रथमाष्टभुजा तप्ततपनीयसमद्युतिः।
भुजेषु मुख्यो वरदो दक्षिणेष्वितरेत्रयः।। 16.50 ।।
चक्रासिभाणैस्संयुक्तो वामे हस्तचतुष्टये।
शङ्खं गदां तथा चर्म शार्ङ्गं कुर्याच्चतुर्मुख।। 16.51 ।।
पीताम्बरधरो देवः वनमालाविभूषितः।
मरीचिना च भृगुणा पूजितश्च महर्षिणा।। 16.52 ।।

  • प्राजापत्या*

शंखकुन्देन्दुवर्णाभः पीतवासाश्चतुर्भुजः।
शंखचक्रगदापाणिरभयेन विराजितः।। 16.53 ।।
वनमालाधरस्सौम्यस्सनकेन (20) सुपूजितः।
सनत्कुमारेण तथा मूर्तिरेषा प्रजापतेः।। 16.54 ।।
(20. समन्वितः)

  • वैष्णवी?*

भिन्नाञ्जनचयस्सौम्यश्शंखचक्रगदाधरः।
पीताम्बरधरो देवो वनमालाविभूषितः।। 16.55 ।।
वरदो दक्षिणो हस्तस्स्वागता (21) भयतोऽपि वा।
वामेन स्पृष्टकटाभूश्श्रीभूमिभ्यां सह स्थितः।। 116.56 ।।
(21. स्वागतोऽभय)
नारदेनापि भृगुणा वैष्णवी मूर्तिरर्चिता।

  • दैवी*

शंखचक्रगदापद्मं धारयन्तं चतुर्भुजम्।। 16.57 ।।
श्यामलं पीतवसनं वनमालाविभूषितम्।
अर्चितं ब्रह्मरुद्राभ्यां दैवी मूर्तरसौ भवेत्।। 16.58 ।।

  • आर्षी*

शुद्धस्फटिकसङ्काशा पीतवस्त्रा चतुर्भुजा।
दक्षिणे ज्ञानमुद्रा च शंखचक्रगदाधरा।। 15.59 ।।
श्रीवत्साङ्का प्रसन्नस्या वनमालाविभूषिता।
सनन्दसनकाभ्यां च पूजिता मूर्तिराऋषी।। 15.60 ।।

  • मानुषीमूर्तिः*

मानुषी मूर्तिरधुना (22) कथ्य ते कमलासन।
चतुरश्रायते धाम्नि दिव्ये भागे भुजद्वयम्।। 15.61 ।।
(22. वक्ष्यते.)
शंखचक्रधरं सौम्यं स्थापयेन्मुकुटोज्वलम्।
देवस्य दक्षिणे पार्श्वे श्रियं देवीं प्रकल्पयेत्।। 15.62 ।।
तस्या दक्षिण (23) तो भागे बलभद्रं तु कारयेत्।
दक्षिणे बलभद्रस्य प्रद्युम्नमपि कारयेत्।। 16.63 ।।
(23. दिग्भागे.)
देवस्य वामपार्श्वे तु अनिरुद्धं प्रकल्पयेत्।
तस्य पार्श्वे तु वामे तु साम्भं कुर्याच्चतुर्मुख।। 16.64 ।।
ब्रह्माणं दक्षिणे कुड्ये सर्वे तु विनतात्मजम्।
स्थानके स्थानकाः प्रोक्ता आसीनेऽपि तथा भवेत्।। 16.65 ।।
चतुर्भुजा तु कर्मार्चा द्विभुजा वापि सा भवेत्।
(24) उत्सर्वार्चा प्रतिकृतिस्सर्वाचैव चतुर्भुजा।। 16.66 ।।
 (24.उत्सवार्था.)
(25) मानुष्यं वासुदेवस्य प्रोक्तं सज्क्षेपतो विधिः।

  • आसुरी*

आसुरी मूर्तिरसिता एकवक्त्रा चतुर्भुजा।। 16.67 ।।
(25. मानुष्यो वासुदेवस्य प्रोक्तः मानस्य वासुदेवस्य इति च क्वचित्.)
दंष्ट्राकरालवदना भ्रुकुटी कुटिलेक्षणा।
मुख्ये करद्वये भाणं धनुरुध्येऽरिशंखकम्।। 16.68 ।।
शार्ङ्गहस्तं ललाटान्त (26) मुद्धरेद्भाणहस्तकम्।
नाभ्यन्तं कटिसूत्रान्तं भङ्गत्रयसमन्वितम्।। 16.69 ।।
(26. न्तं दक्षिणं भाण भाणषस्तकम्. दक्षिणं वासु.)

  • पैशाची*

पैशाचीमूर्तिराद्या तु खड्गकौमोदकी (27) तथा।
वरदाभयदं मुख्यं कालवर्णं करद्वयम्।। 16.70 ।।
(27. धरा.)
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्।
अष्टौ च मूर्तयस्सर्वास्सर्वाभरणभूषिताः।। 16.71 ।।
श्रीवस्सकौस्तभोरस्काः वनमाला विभूषिताः।

  • आसां प्रतिष्ठायाः फलम्*

(28) स्थापिता ब्रह्मणोमूर्तिः ब्रह्मभूयाय कल्पते।। 16.72 ।।
(28. स्थापयित्वा ब्रह्ममूर्तिम्.)
प्राजापत्य प्रतिष्ठायां प्रजाभिर्वर्धते भृशम्।
अन्ते प्रजापतिपदं लभते नात्र संशयः।। 16.73 ।।
स्थापिता वैष्यवीमूर्तिरचिरान्मोक्षदा भवेत्।
दैवी देवत्वफलदा सर्वकामसमृद्धिदा।। 16.74 ।।
आर्षी मूर्तर्महर्षित्व प्राप्तये भवति ध्रुवम्।
शापानुग्रहसामर्ध्यमपि तस्य भविष्यति।। 16.75 ।।
मानुषी मूर्तिरचुराद्यशसे महते भवेत्।
त्रैलोक्यैश्वर्यसम्पच्च सर्वकालं भविष्यति।। 16.76 ।।
 आसुरीं मूर्तिमाराध्य रक्षसां दितिजन्मनाम्।
भूतादीनां च सर्वेषां आधिपत्यं समश्नुते।। 16.77 ।।
पैशाचमूर्तयजने पिशाचासुरराक्षसाः।
वश्या भवन्ति सर्वे च सर्वकामसमृद्धिदाः।। 16.78 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायाम्
क्रियापादे (29) यानारूढ विश्वरूपादिलक्षणं नाम
षोदशोऽध्यायः
(29. चतुर्विंशाष्ट मूर्तिलक्षणं नाम. चतुर्विंशतिमूर्तिलक्षणं नाम.)


*******************-----------