सामग्री पर जाएँ

क्रियापादः/अध्यायः २८

विकिस्रोतः तः
← अध्यायः २७ क्रियापादः
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्
अष्टाविंशोऽध्यायः

  • प्रतिष्ठाविधिः*

श्रीभगवान्---
ततः प्रभाते विमले दृष्टे च रविमण्ढले।
पुण्ये मुमूर्ते पुण्यर्क्षे पुण्यवारे तथा तिधौ ।। 28.1 ।।
कल्याणदर्शने रात्रावारभेताविचारयन्।
प्रतिष्ठां देव देवस्य दुस्स्वप्ने शान्तिमाचरेत् ।। 28.2 ।।
एक बेरे वास्तुहोमं कुर्याद्द्वारस्य दक्षिणे।
पार्श्वे च स्थण्डिलं कृत्वा प्रविशेद्गर्भमन्दिरम् ।। 28.3 ।।
तन्मध्ये चतुरश्रां वा वृत्तां (1) वा तच्छिलां क्षिपेत्।
हस्तमात्रायतां शुद्धां तावद्वस्तारसंयुताम् ।। 28.4 ।।
(1.वाथ शलां)
चतुरावरणां निम्नां गायत्र्या विष्णुपूर्वया।
तयैव वास्तुहोमाग्नौ चरुसर्पिस्समिच्छतैः ।। 28.5 ।।
जुहुयाद्रत्न विन्याससिध्यर्थं देशिकोत्तमः।
प्रधमावर्णे बीजनष्टौ गर्तेषु निक्षिपेत् ।। 28.6 ।।
यवाश्च व्रीहयश्चैव निष्पावाश्च प्रियङ्गवः।
तिलाश्च माषाश्च तथा नीवाराश्शालयत्तथा ।। 28.7 ।।
वज्रादीनि च रत्नानि द्वितीयवर्णे तथा।
वज्रं च मौक्तिकं चैव वैडूर्यं जलजं तथा ।। 28.8 ।।
स्फटिकं (2) पुष्यकं चैव चन्द्रकान्तं तथा परम्।
इन्द्रनीलं च पूर्वादि (3) ष्वाशासु विनिवेषयेत् ।। 28.9 ।।
(2.पुष्यरागं च) (3.दिक्ष्वष्टसु निवेशयेत्।)
धातून् तुतीयावणे तथैव विनिवेशयेत्।
मनश्शिलां हरीतालमञ्जनं तदनन्तरम् ।। 28.10 ।।
श्यामं च सीसकं चैव सौ राष्ट्रं रो चनं तथा।
गैरिकं चाष्टकं लोहान् चतुर्थावर्णे पुनः ।। 28.11 ।।
(4) गर्तेषु निक्षिपेत्स्वर्णं रूप्यं ताम्रं तथैव च।
अयश्च त्रपुकं चैव मूर्मं कनकनिर्मितं ।। 28.12 ।।
(4.निघ्नेषु)
शङ्खं चक्रं च सौवर्णं लोहन्यासोऽयमीरितः।
शालिभीजं पारदं च ब्रह्मरागं च काञ्चनम् ।। 28.13 ।।
मध्ये न्यस्ये द्गर्तभागे ततस्त्रिशिलया दृढम्।
श्रीसूकैन पिथातव्यं सुधया दार्ढ्यमाचरेत् ।। 28.14 ।।
पुण्याहं वाचयेत्पश्चाद्वैष्णवैर्मन्त्रवित्तमैः।
स्त्रीशिला पद्ममध्येतु प्रणवस्यसनं भवेत् ।। 28.15 ।।
कर्णिकायां स्वरन्न्यासं व्यंजनन्यसनं दले।
दलेषु शक्तयश्चाष्टौ नवमी कर्णिका (5) भुवि ।। 28.16 ।।
(5.मपि)

  • विमलादि शक्तयः*

विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः।
प्रह्वी सत्या तथेशानाऽनुग्रहा नवमीस्मृता ।। 28.17 ।।

  • पिंडिकापूजनम्*

पिण्डिकां (6) पूजयेत्पश्छाद्गन्धपुष्पादिभिः क्रमात्।
अहतैश्चैव वासोभिर्लक्ष्मीरूपां च पिण्डिकाम्।। 28.18 ।।
(6.पूरयेत्)
प्रच्छाद्य द्वारि चास्त्रस्य न्यासं कृत्वा बहिर्गुरुः।
निर्गत्यशय्या (7) वेद्यर्थं पूजयेद्रत्नवारिणा।। 28.19 ।।
(7.वेदिस्थं पूजयेद्यत्नवान् हरिम्।। द्वारर्ष)
(8) ध्वजतोरणकुम्भस्था देवता विसृजेत्ततः।
आरोप्य चाग्निं हृदये महाकुम्भं समुद्धरेत्।। 28.20 ।।
(8.द्वारतोरण)
मूर्तिकुम्भांस्तथा चाष्टौ मङ्गलान्यस्त्रकर्करीम्।
गृहीत्वा मूर्तिपास्सर्वे गच्छेयुर्मन्दिरं प्रति।। 28.21 ।।
गनन्तीनिर्गल द्वारि धारया संततोत्थया।
अग्रतस्सेचयेन्मार्गं ब्राह्मणानामनुज्ञया।। 28.22 ।।
देवमुत्थाप्य (9) हस्त्यादौ प्रादक्षिण्येन मन्दिरम्।
(10) आचार्यप्रमुखास्सर्वे विशेयुर्मूर्तिपा स्तथा।। 28.23 ।।
(9.हस्तादौ) (10.आचार्यः प्राङ्मुखाः)
छत्रध्वजपता काद्यैर्मङ्गलै (11) रखिलैस्सह।
तूर्यवादित्रनिर्घोषैर्ब्रह्मघोषैश्चच घोषितैः।। 28.24 ।।
(11. र्विविथैस्सह)
ब्राह्मणैश्चाप्यनूचानैरधीयानैश्च मूर्तपैः।
सार्धं गुरुस्स्पृशन्यासं (12) प्रविशेन्मूलमन्द्रिरम्।। 28.25 ।।
(12.प्रविशेद्गर्भ मंदिरम्)
अर्घ्यपाद्यादिभिर्देवमर्च येद्द्वारि देशिकः।
अन्तः प्रवेशयेद्देवं (13) पीठिकां च प्रदक्षिणम्।। 28.26 ।।
(13.पिण्‍डिकां)
गत्वा मूहुर्ते संप्राप्ते स्थापये (14) द्विष्णु मव्ययम्।
(15) प्रतिष्ठासीति वैसाम्ना देशिको ब्रह्मण्तेस्सह।। 28.27 ।।
(14.द्देवमव्ययम्) (15.प्रतिष्ठितोऽसीति)
आत्वाहार्षमिष्येतत्तूक्तं च सहमूर्तिपाः।
ध्रुवा द्यौरिति मन्त्रेण पठेयुर्गुर्वनुज्ञया।। 28.28 ।।
आचार्यः पुरतः स्थित्वा सर्वेण स्थापयेद्धरिम्।
पीठमध्यगते गर्ते बिम्बशङ्गुं निवेशयते।। 28.29 ।।
ऊर्ध्वलम्बितसूत्रेण पश्वेच्च समतां स्थितेः।
(16) पीठिका नालरन्द्रं च अष्टबन्देन पूरयेत्।। 28.30 ।।
(16. पिण्टिका.)

  • अष्टबंधन द्रव्याणि *

(17) लाक्षा सज्जरसं चैव गुग्गुलं च गुळं तथा।
सर्वेषामर्धतस्तैलं पाचयेन्मृदुवह्निना।। 28.31 ।।
(17.श्लक्ष्णपाषाण चूर्णं च कुरुविन्दं च माक्षिकम्। तैलेन पाचितम् इत्यादि
लाक्षासज्जरसं सिक्थिं कुरुविन्दं च गुग्गुलुम्।
गैरिकं गुडतैलं च अष्टबंधन मिष्यते।। इति च पाठः।.)
घनचूर्णं मधूच्छिष्टं कुरुविन्दं च गैरिकम्।
एकैकं च समां शेन ग्रह्यं सज्जरसं तथा।। 28.32 ।।
तैलेन पाचितं सार्धमष्टबन्धन मिष्यते।
(18) स्थापयित्वादृढं तेन पुण्याहमपि वाचयेत्।। 28.33 ।।
(18.पाचयित्वापृथक्.)

  • अवाहनम्*

आवहयेत्ततो देवं तमसः परमव्ययम्।
आनन्दं सर्वगं नित्यं व्योमातीतं परात्परम्।। 28.34 ।।
परीचि चक्रमध्यस्थं वासु देवमजं विभुम्।
मूलमन्द्रेण विश्वेशमावाह्य गुरुरात्मवान्।। 28.35 ।।
ब्रह्मरन्द्धेण बिम्बान्तः प्रविष्टं परिचिन्तयेत्।
कुम्भस्थं परमात्मानं प्रतिमायां निवेशयेत्।। 28.36 ।।
मन्त्रन्न्यासं ततः कुर्यान्मूलमन्त्रेण देशिकः।
या चेत देवं सान्निध्यं परिवारान् प्रकल्पयेत्।। 28.37 ।।
समाराध्य ततो देवं पायसान्नं निवेदयेत्।

  • त्र्यहं कवाटबन्धन कारमम्.*

प्रच्छाद्य नूतनैर्वस्त्रैः प्रतिमां कम्बळेन वा।। 28.38 ।।
त्रियहं बन्धयेद्द्वारं कवाटेन सुसंवृतम्।
देवर्षिपितरस्सिद्धा (19) स्तधान्ये देवयोनयः।। 28.39 ।।
(19.स्तुवाना)
अर्चन्ति देवं त्रियहं त्रिरात्रान्ते तु मानवाः।
ब्राह्मणां स्तोयेद्वित्तैर्भोजनैश्च गवादिभिः।। 28.40 ।।
चतुर्थेऽहनि संप्राप्ते स्नपनं प्रातरिष्यते।
तद्दिने ध्वजमुत्थाप्य प्ररभेत महोत्सवम्।। 28.41 ।।
एकबेरे विधिरियं कथितः कमालसन।

  • बहुबेरविधिः*

बहुबेरविधानं चेत्कर्माद्यर्चां समुद्धरेत्।। 28.42 ।।
महाकुम्भं च तत्ताले मङ्गलान्यष्ट देशिकः।
ऋत्विग्भिस्सह विद्वद्भिर्भक्तैर्भागवतैरपि।। 28.43 ।।
उद्धृत्य चास्त्रकरकमग्रे गच्छेद्गुरुस्स्वयम्।
अनुधारापदेनैव देवागारं प्रवेशयेत्।। 28.44 ।।
प्रतिमाऽचार्ययोः कश्चिन्नगच्छेदन्तरा पथि।
द्वारदेशे तु संप्रापै दद्यात्पाद्यं च (20) कौतुके।। 28.45 ।।
(20.पादुके।। कर्मार्चनादिपीठेषु)

  • कर्मार्चादीनां स्थाननिर्देशः*

कर्मार्चामर्चनापीठे नृसूक्तेन निवेशयेत्।
(21) उत्सवाद्यर्थबिम्भानि पार्श्वयोर्विनिवेशयेत्।। 28.46 ।।
(21.उत्सवस्याङ्ग)
(22) कर्मार्चां स्थापयेद्ब्राह्मे वामे तु मुखकौतुकम्।
तीर्धं स्नपनबिम्बं वा उत्तरे स्थापयेद्गुरुः।। 28.47 ।।
(22."कर्मार्चां" इति श्लोकद्वयं केषु चिन्नदृश्यते)
शयनोत्थानबिम्बं च बलिबिम्बं च दक्षिणे।
लौहिकीं लोहजं बिम्बं स्थापयेदिष्टभुमिषु।। 28.48 ।।
धारावशिष्टं यत्तोयं (23) तच्छरावे विनिक्षिपेत्।
शलाकामात्रया चैव धारयाऽ(24) छ्छिद्रया पुनः।। 28.49 ।।
(23.तच्छरावेषु) (24.ऽच्छिन्नया)
परितः परिपेकं च विदध्यान्मूलविद्यया।
धान्यराशिषु कुम्भं श्च विन्यस्यावाहयेद्धरिम्।। 28.50 ।।
आवहनं मूलबेरात्कर्माद्यर्चासु कल्पयेत्।
मुहूर्ते शोभने प्रापै देशिकः कमलासन।। 29.51 ।।
(25. इदमर्थं क्वचिदस्ति)
पुरतो मूलभेरस्य बद्धपद्मासन (26) स्थितः।
प्राणानायम्य शुद्धात्मा ध्यायेद्ब्रह्म सनातनम्।। 29.52 ।।
(26. स्थिरः)

  • ध्यानप्रकारः*

वासुदेवमजं शान्तमुज्वलं सन्ततोदितम्।
अनादिमध्यनिधन मेकं चलं स्थिरम्।। 29.53 ।।
चिद्घनं परमानन्दं तमसः परमव्ययम्।
ज्ञानशक्तिबलैश्वर्य वीर्यतेजस्समन्वितम्।। 29.54 ।।
अपादपाणिमस्पृश्यम चक्षु श्श्रवणादिकम्।
नर्वत्र करवाक्पादं सर्वतोक्षिशिरोमुखम्।। 29.55 ।।
गतागतविनिर्मुक्तं रविकोटिसमप्रभम्।
चैतन्यं सर्वगं नित्यं (27) व्योमातीतं तदद्भुतम्।। 29.56 ।।
(27. व्योमातीं परात्परम्)
तत्सामान्यं जगत्यस्मिम्माल (28) मन्त्रात्मकं परम्।
एवं विधं सदाविष्णुमाह्लादं प्रणवात्मकम्।। 28.57 ।।
(28. मष्टाक्षरम्. मन्त्राक्षरम्)
तं नियुज्य (29) महाविष्णुं मतं विष्णौ निवेशयेत्।
विष्णुं च हृदये पद्मे समावाह्यार्चयेत्क्रमात्।। 28.58 ।।
(29. महाविष्णौ तं विष्णुम्----तद्विष्णौ विनियोजयेत् इति च पाठः)
समावाह्य (30) श्रिया पश्चान्मन्त्रेण पुरुषात्मना।
अञ्जलिस्थे ततः पीठे ध्यायेद्वाश्वात्मना गुरुः।। 28.59 ।।
(30. धिया)
तेजोनिदानमध्येयं नारायणमजं विभुम्।
निवृत्तमन्त्र मुच्छार्य प्रतिमायां निवेशयेत्।। 28.60 ।।
ब्रह्मरन्ध्रेण मार्गेण प्रविष्टं प्रतिमाकृतौ।
व्याप्य स्थातं स्म रेत्सर्वं मन्त्रेण कमलासन।। 28.61 ।।
 * कुंभगतशक्तीनां देवे योजनम्*
महाकुम्भगतां शक्ति देवेन सहयोजयेत्।
मूर्तिकुंभगतांश्चापि तथा बाले च कौतुके।। 28.62 ।।
या शक्तिस्तां च देवेन योजये (31)त्फ्रतिमात्मना।
ब्रह्मरन्ध्रं च ता रेण पिदध्या (32) त्फतिमात्मनः।। 28.63 ।।
(31.त्परमात्मनाः) (32.त्परमात्मनः)
आत्मनोऽभिमुखं कुर्यात्पुण्डरी काक्षविद्यया।
प्रणम्य किञ्चिदुत्थाय दर्शयेत्स्वागतं गुरुः।। 28.64 ।।

  • न्यासविभेदः*

मन्त्रन्न्यासं ततः कुर्यान्मूलमन्त्रेण देशिकः
स्थतिन्यासः स्थितौ कार्य स्सृष्टिन्यासस्तथासने।। 28.65 ।।
शय्यायां संहृतिन्यासस्संहारशयनं यदि।
सृष्टिन्न्यासो भवेत्सृष्टिशयने कमलासन।। 28.66 ।।
भोगे योगे च शयने स्थितिन्यासः प्रशस्यते।
विश्वरूपे स्थितिन्यासः यानारूढे त्रयं भवेत्।। 28.67 ।।
स्थितिन्यासोऽधवा कार्यस्सर्वत्रैवासनादिषु।
श्रियादीनां च देवीनां ब्रह्मादीनां तथैव च।। 28.68 ।।
महाकुम्भजलेनैव (33) प्रोक्षयेत्स्वस्वविद्यया।
(34) सृष्टिश्च सर्गन्यसनं न्यासो रुद्रस्य संहृतिः।। 28.69 ।।
(33.प्रोक्षणम्) (34.विधेश्च)
श्रियादीनां तथा न्येषां षडङ्गन्यासमाच रेत्।
महाकुम्भं समुद्धृत्य देशिको मूर्तिपैस्सह।। 28.70 ।।
प्रोक्षणं तज्जलैः कुर्याच्चण्डादेरपि तत् क्षणे।
बलीठे क्षिपैत्तोयमवशिष्टं गुरुस्स्वयम्।। 28.71 ।।
महानसाग्निगुण्‍डे च (35) तथाधिश्रपणेषु च।
तथा च गार्जपत्याग्निं स्थापयेच्छास्त्रवर्त्मना।। 28.72 ।।
(35.तथाधिश्रयणेषु)

  • सान्निध्य प्रार्थना*

देवपार्श्वं समासाद्य दण्डवत्प्रणमेत् क्षितौ।
गाधायुदीरये देनां रचि ताञ्जलि संपुटः।। 28.73 ।।
यजमानेन सहितः प्रह्वस्तिष्ठन् गुरुस्स्वयम्।
भक्तवत्सल भक्तानामभिप्रेतार्थसाधक।। 28.74 ।।
प्रार्थये त्वामहं देव मदनुग्रह काम्यया।
सन्निधस्स्व चिरं स्थाने कल्पिते श्रद्धया मया।। 28.75 ।।
प्रसीद देव देवेश पूजामपि गृहाण मे।
ग्रामस्य राज्ञो राष्ट्रस्य प्रजानामिन्दिरा (36) वर।। 28.76 ।।
(36.वह)
देहि पुष्टिं च तुष्टिं च गतिं च परमां तथा।
इति निज्ञाप्य देवाय (37)देशिकस्तन्त्रपारगः।। 28.77 ।।
(37.वासु देवाय देशिकः)

  • यजमानेन भगवते सर्वस्य समर्पणम्*

मधुपर्कोपचारान्चे गुर्वनुज्ञापुरस्सरम्।
दद्याद्गोभूसुरर्णादि यथावित्तानु सारतः।। 28.78 ।।
देवस्य दक्षिणे हस्ते तो यपूर्वं यथाविधि।
भक्तिनम्रेण शिरसा पूजोपकरणानि च।। 28.79 ।।
आत्मानं पुत्रपौत्रादि दारान् हस्त्यादि वाहनम्।
दासीदासं च सर्वस्वं दद्याद्देवस्य पादयोः।। 28.80 ।।
(38) जीवाजीवधनैर्देवो दत्तैराराध्यते यथा।
यजमानेन सर्वस्वैर्बगवान् पुरुषोत्तमः।। 28.81 ।।
(38.जीवयन्दर्शर्य देवो।)
तथा भागवतं सर्वैर्धनैराराधयेत्सदा।
स्थापको देवदेवस्य यः पूर्वो देशिकोत्तमः।। 28.82 ।।
तेनैवाराधनं कार्यं तद्वंशैरपि निर्गुणैः।
पूजाप्रीतिकरी सैव देवस्य कमलासन।। 28.83 ।।
वित्तानुसारतो विद्यान्कल्पयोद्धाम संपदम्।
अथवा विभवेनैव यजमानः प्रकल्पयेत्।। 28.84 ।।
(39) आदौ विभूतिविस्तारो यादृशः परिक्लपितः।
सङ्कोचमन्तरेणैव कुर्यात्तादृशसम्पदम्।। 28.85 ।।
(39.य आदौभूति विस्तारः)
देव (40) भूत्यनुसा रेण रक्षेद्देवोपजीविनः।
न क्लेशयेद्भागवर्तान् तथैव परिचारकान्।। 28.86 ।।
(40.भूम्यनु)
प्रतिष्ठान्ते च देवस्य (41) तूर्यैर्नानाविधैरपि।
घोषयेत्सर्वतो दिक्षु ब्रह्मघोषैश्च घोषयेत्।। 28.87 ।।
(41.नानाविधरवैरपि)
नृत्तैर्गेयैश्च विविर्धैस्तौत्रैर्नानाविधैरपि।
तोषयेद्देव देवेशमुपचारैः वृथग्विधैः।। 28.88 ।।
चतुर्विधं (42) तथा वान्नं निवेद्य विधिपूर्वकम्।
(43) नित्याग्निं च प्रतिष्ठाप्य कुण्डे च चतुरश्रके।। 28.89 ।।
(42.निवेद्यान्नं) (43."नित्याग्नि" "भूतानां च यथाक्रमम्" इत्यन्तं बहुषुन)
हुत्याग्नौ समिधाज्यान्नैर्मूलेन प्रणवादिना।
पूर्णाहुतिं ततो हुत्वा तत्तदवरणेषु च।। 28.90 ।।
बलिपीठानि संस्कृत्य प्रतिष्ठाप्य यथाक्रमम्।
(44) तेषु नित्यं बलिं दद्याद्भूतानां च यथाक्रमम्।। 28.91 ।।
(44. हुत्वाचानैः)

  • बहुबेर विधाने कवाटबंधन निषेधः*

बहुबेरविधाने तु कवाटं न (45) च बन्धयेत्।
(46) देवर्षिपितरस्सिद्धान्तुवाना देवयोनयः।। 28.92 ।।
(45.विमोचयेत्) (46."देवर्षि"-----इत्यादि "स्नपनं परिकल्पयेत्" इत्यन्तं अस्मिन्नेवाध्याये 39 कमपद्यानन्तरं निरूपितं दृश्यते अत्र पुनः निरूपितं एतच्चकेषु चिदेव दृश्यते)
अर्चन्ति देवं त्रियहं त्रिरात्रान्ते तु मानवाः।
ब्राह्माणां स्तोषयेद्वित्तैर्भोजनैश्च गवादिभिः।। 28.93 ।।
चतुर्थे दिवसे प्राप्ते स्नपनं परिकल्पयेत्।
उत्तमत्रितयेवापि मध्यमत्रितयेन वा।। 28.94 ।।
कलशैस्स्नापयेद्देवं (47) चतुस्थानार्चनं भवेत्।
उत्सवं कारयेदन्ते ध्वजारोहणपूर्वकम्।। 28.95 ।।
(47. चतुस्थ्सानगतं यजेत्)
(48) आचार्यं पूजयेत्तस्निन् प्रतिष्ठादिवसे प्रभुः।
सुवर्णकुसुमैर्वस्त्रेर्नूतनैरङ्गलीयकैः।। 28.96 ।।
(48. आचार्यः पूजयेत्तस्मिन् प्रतिष्ठादिवसे प्रभुम्।।)
केयूरहारवलयैरुपवीतो त्तरीयकैः।
(49) क्षेत्रारामगृहैर्वित्तैर्जीवाजीव धनैस्तथा।। 28.97 ।।
(49.क्षेत्रग्राम)
(50) दासीदासेन चतथा हस्त्यश्वशिभिकादिभिः।
(51) एवं प्रकारैरन्यैश्च तोषयेद्गुरुमात्मवान्।। 28.98 ।।
(50.दासीदासादिभिश्चैव) (51."आत्माना" इत्यादि पद्यद्वयं क्वचिन्न)
आत्मानं प्रत्र पौत्रांश्च देवे तद्वन्नि वेदयेत्।
मातृत्वेन पितृत्वेन बन्धुत्वेन गुरूत्तमम्।। 28.99 ।।
कखात्मत्वेन सम्भाव्य प्रणम्य च पुनः पुनः।
सहस्रं धेनवो देयाः दक्षिणा गुरुवे तदा।। 28.100 ।।
सहस्रनिष्कमथवा दक्षिणा चोत्तमोत्तमा।
तदर्धा मध्यमा ज्ञेया तदर्धा चाधमा मता।। 28.101 ।।
(52) अथवा दक्षिणा देया शतं हेम्नामनुत्तमम्।
(53) दशनिष्कमशक्तर्स्तु (54) तदर्धं पादमेव वा।। 28.102 ।।
(52."अथवा" इत्यार्धं क्वचिन्नस्ति) (53.शतनिष्क) (54.तदर्धं वार्धमेववा)
यथावित्तानुसारेण दक्षिणा परिकीर्तिता।
कर्मणां कर्षणादीना मङ्गत्वेन यदहृतम्।। 28.103 ।।
तदिष्टशिष्टं सकलं गुरो रेव धनं भवेत्।
ऋत्विजामपि सर्वेषां तथाम्नायेष्वधीतिनाम्।। 28.104 ।।
ब्राह्मणानां च विदुषां भक्तानां पुरुषोत्तमे।
तथैकायननिष्ठानां द्विषट्कनियतात्मनाम्।। 28.105 ।।
वासुदेवैकनिष्ठानां निषन्मार्गविदामपि।
यतीनां ब्रह्मचारीणां वनस्थाश्रमवासिनाम्।। 28.106 ।।
अन्येषां विष्णुभक्तानामस्मिन्नर्थेनुयायिनाम्।
विष्ण्वर्क्षनिरतानां च सदस्यानां च दक्षिणा।। 28.107 ।।
देया गोभूहिरण्यादि रूपा वित्तानुसारतः।
कालाज्ञानां तथा नृत्तगीतवाद्यादि कुर्वताम्।। 28.108 ।।
यथार्हं वित्तवासोभिः कुर्यात्तृत्पिं यथेप्सितम्।
(55)गुरुः पात्रं समानीय हेमादिद्रव्यनिर्मितम्।। 28.109 ।।
(55." गुरुः" इत्यादि " कृत्येन चेतसा" इत्यन्तं क्वचिन्न)
प्रक्षाळ्य विष्णुगायत्र्या धान्यराशौ स्वमन्त्रतः।
देवस्य पुरतः स्थाप्य पूरयेद्गन्धवारिणा।। 28.110 ।।
अष्ठाक्ष रेणाभिमन्त्र्य (56) षडर्णेन द्विरष्टकम्।
प़ञ्चोपनिषदैर्मन्त्रैरावाह्यात्मगतं विभुम्।। 28.111 ।।
(56.द्विषडर्णेन मन्त्रकम्)
प्रणवेन समभ्यर्च्य गन्धपुष्पाक्षतादिभिः।
ततः कर्तारमाहूय विशुद्धं देवसन्नि धौ।। 28.112 ।।
तं देवाभिमुखं स्थाप्य प्रणतं विनयान्वितम्।
साधितार्घ्यजलात्तस्मात्सार्घ्यतो यंप्रसूनकम्।। 28.113 ।।
तस्य हस्ते प्रपूर्याथ इमां गाधामूदीरयेत्।
त्वया विना न मेकिञ्चिन्मां विनातवकस्तथा।। 28.114 ।।
तस्मान्मा मात्मसात्कर्तुं प्रसीद परमेश्वर।
भूमौ स्खलितपादानां भूमि रेवावलम्बनम्।। 28.115 ।।
(57) त्वय्येव प्रतिपन्नानां त्वमेव शरणं विभो।
इति विज्ञाप्य देवेशमाचार्य स्स्वस्थमानसः।। 28.116 ।।
(57.त्वयिविप्रतिपन्नानां)
द्वादशाक्षरमुच्चार्य भगवत्पादपङ्कजे।
निवेद्य कर्तुरात्मानं सार्घ्य पुष्प पुरस्सरम्।। 28.117 ।।
त्रिकृत्वः प्रण मेद्देवं निवेद्यात्मानमव्यये।
स तेनानुगृहीतस्सन् संयायाद्गुरुणा बहिः।। 28.118 ।।

  • गुरुपूजा*

नमस्कृत्वा गुरुं देवं कृतकृत्येन चेतसा।
तं गुरुं यानमारोप्य तुर्य घोषपुरस्सरम्।। 28.119 ।।
नीत्वा प्रदक्षिणं ग्रमं स्वगृहे सन्निवेशयेत्।

  • देवप्रतिष्ठायाः फलम्*

य इत्थं स्थापनं कुर्याद्धेव देवस्य शार्ङ्गिणः।। 29.120 ।।
स याति (58) परमं स्थानमक्षयं कमलासन।
पुनाति वंशजांश्चैव पुरुषानेकविंशतिम्।। 29.121 ।।
(58.ब्रह्मणः)
निष्कामा ये तु सदने पुरुषाः पुरुषोत्तमम्।
स्थापयन्नि फलं तेषामपुनर्भ वलक्षणम्।। 29.122 ।।
सकामानां तु मर्त्यानां (59) पुनरावृत्तिलक्षणम्।
स्वर्गादि तत्तद्भोक्तव्यमारम्भे (60) तत्तदिष्यते।। 29.123 ।।
(59.फलमावृत्तिलक्षणम्) (60.यद्यदि)
ब्रह्महत्यादि पापानामन्येषां निष्कृतिर्मता।
उपकुर्वन्ति ये मर्त्याः वाङ्मनः कायकर्मभिः।। 28.124 ।।
आवृत्तिलक्षणं तेषां फलं स्वर्गादिरिष्यते।
(61) श्रियादीनां च देवीनां देवेन सह कल्पने।। 28.125 ।।
(61.श्रियादिषु च देवीषु देवी च परिकल्प्यते। उद्वाहकर्म शास्त्रोक्तं कुर्यादंकुरपूर्वकम्।। भक्ति.)
नोद्वाहकर्म कर्तव्यं पृथक् चेत् स्थापनं तयोः।
उद्वाहकर्म शास्त्रोक्तं कुर्यादङ्गुरपूर्वकम्।। 28.126 ।।
भक्तिशक्तिवशाद्देवं यथावित्तानुसारतः।
यथा च स्थापना भक्तैस्सास्मृता नुग्रहा इति।। 28.127 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रतिष्ठाविधिर्नाम अष्टाविंशोऽध्यायः।


*****************---------------