क्रियापादः/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० क्रियापादः
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →
क्रियापादस्य अध्यायाः

 पाद्मसंहितायाम्.
एकविंशोऽध्यायः
श्रीभगवान्----

  • श्रीयादिदेवीमूर्तिमानम्*

अथ श्रियादि देवीनां (1) निर्माणविधिरुच्यते।
दशतालादिना येन तालमानेन (2) कल्प्यते।। 21.1 ।।
(1. निर्मणमधुनोच्यते.) (2. कल्पितः)
देवो देव्यश्श्रियाद्यास्तु कल्पनीया (3) श्चतुर्मुख।
तदनन्तरतालेन नाधिकेन समेन वा।। 21.2 ।।
(3. स्तथाब्जज.)
यावन्त्यो याश्च यन्माना श्श्रियादेश्शूलयष्टयः।
तन्मानास्ताश्च तावत्यः कथ्यन्ते संप्रति क्रमात्।। 21.3 ।।
पञ्चतालमितायामा वंशयष्टिश्चतुर्मुख।
विस्तारस्त्र्यङ्गुलो मूले (4) सह षड्भिर्यवैरपि।। 21.4 ।।
(4. सद्विषड्भि.)
मध्यतस्त्र्यंगुल (5) स्सार्धस्त्र्यङ्गुलः पुनरग्रतः।
चतुर्दशांगुलो मध्ये मूले पञ्चदशांगुलः।। 21.5 ।।
(5. स्साष्ट.)
नाहोग्रे वंशयष्टेस्स्यात्सार्धं सत्रिदशांगुलम्।
चतुरश्रस्सुवृत्तो वा दण्डः कल्प्यश्च शिल्पिभिः।। 21.6 ।।
अङ्गुलैस्सप्तविंशत्या वक्षोदण्डस्समायतः।
विस्तारो मध्यमस्तस्य त्र्यङ्गुलष्षड्यवाधिकः।। 21.7 ।।
अंगुलैर्दशभिर्नाह (6) स्सह पञ्चभिरंगुलैः।
किंशुकस्येव मुकुलं तस्याग्रे द्वे प्रकल्पयेत्।। 21.8 ।।
(6.सप्तपंचभि)
बाहुमूलं चतुर्विंशत्यंगुलायाममिष्यते।
(7) त्र्यंगुलार्धादिको मूलविस्तारस्तस्य कल्प्यते।। 21.9 ।।
(7.अङ्गुलोऽर्धा)
(8) त्र्यंगुलो मध्यविस्तारस्तस्याग्रं द्व्यगुलं भवेत्।
अष्टादशांगुलायामः प्रकोष्ठस्तस्य मूलतः।। 21.10 ।।
(8.अङ्गुलो,)
विस्तारस्त्र्यंगुलो मध्ये द्व्यंगुलस्सचतुर्यवः।
(9) द्व्यंगुलोग्रे तयोर्मूलशूलयोस्सुषिरं भवेत्।। 21.11 ।।
(9.द्व्यङ्गुलं प्रोत.)
आयामः कटिदण्‍डस्य भवेत्पञ्चदशांगुलः।
विस्तारो मध्यमस्तस्य त्र्यंगुलस्सहषड्यवः।। 21.12 ।।
नहनं मध्यतस्तस्य (10) भवेत्पञ्चदशांगुलम्।
षडंगुलः पार्श्वयष्टेः परिणाहः प्रकीर्तितः।। 21.13 ।।
(10. भवेत्तद्वाद.)
पार्श्वदण्डौ कटिवक्षश्शू लयोर्विनियोजयेत्।
षड्विंशत्यंगुलायाममुरश्शूलमुदाहृतम्।। 21.14 ।।
त्र्यंगुलो मूलविस्तारस्तस्याग्रं द्व्यंगुलं भवेत्।
विस्तीर्णं द्व्यंगुलं (11) मध्यं शूलस्य च चतुर्यवम्।। 21.15 ।।
(11. मध्यशूलस्य.)
पूरुशूलसमायामं जङ्घा शूलं प्रकल्पयेत्।
सुषिरं च तयोर्मूलमग्रं मिथुनमेतयोः।। 21.16 ।।
अनुक्त परिणाहानां त्रिगुणं नहनं मतम्।
त्रयोदशविधं शूलं कृत्वा पूर्वोक्तमानकम्।। 21.17 ।।
जलाधिवासाद्यखिलं(12) कुर्यार्च्छ्रीस्थापने यथा।
स्वातन्य्रैच पारतन्य्रै रत्नन्यासफुरस्सरम्।। 21.18 ।।
(12.कुर्याच्छ्रद्धापरस्तथा)
शूलादिस्थापयेद्रज्जुवेष्टनादि यथापुरम्।
कुर्यादावर्णलेपान्तं मानाग्यथ निदर्श्यते।। 21.19 ।।
उत्सेधमंगुलशतं विंशमास्थाय कथ्यते।
उष्णीषमङ्गुलमितं त्र्यंगुलं च शिरोभवेत्।। 21.20 ।।
सार्धं त्रिभिर्यवैरक्षिसूत्रान्तं चतुरंगुलम्।
सङ्गमात्पुटसूत्रान्तं तद्वदम्भोरुहासन।। 21.21 ।।
चिबुकान्तं पुटादर्वाक्सपादचतुरंगुलम्।
चतुरङ्गुलमानास्याद्ग्रीवा हिक्का (13) गुणात्ततः।। 21.22 ।।
(13. गुणात्तथा.)
त्रयोदशांगुलमितं स्तनसूत्रान्तमीरितम्।
अतोनु नाभिसीमास्तं भवेत्पंचदशाङ्गुलम्।। 21.23 ।।
श्रोणी षडंगुलायामा योनिस्सार्धाङ्गुलित्रयम्।
कटिमानं भवेत्सार्धं त्र्यङ्गुलं (14) चोरुरायता।। 21.24 ।।
(14. चोरुमानकम्)
अङ्गुलैः पंचविंशत्या सार्धैर्जङ्घा च तत्समा।
(15) सार्धं च त्र्यङ्गुलं जानुस्तद्वदक्षतलावधि।। 21.25 ।।
(15. सार्धं सत्य्रङ्गुलम्.)
विस्तारोऽष्टाङ्गुलस्तस्य द्वादशांगुलमायतम्।
प्रदक्षिणावर्तयुतं ज्वालाग्रं शङ्खचक्रयोः।। 21.26 ।।
केशान्तेन समा यद्वा यद्वा सूत्रेण तत्समम्।
सार्धान्तरांशुना पूर्वा गुञ्जानि द्व्यङ्गुलान्तरे।। 21.27 ।।
जङ्घयोर्विंशतियवमन्तरालं प्रचक्षते।
अक्षयोस्त्र्यंगुलं मध्यं स्तनयोस्सप्तमांगुलम्।। 21.28 ।।
चरणांगुष्ठयोर्मध्यं नवांगुलमुदाहृतम्।
अक्षात्परतरं तालमंगुष्ठं त्रिभिरंगुलैः।। 21.29 ।।
अर्धेन (16) चायतं ध्वे च तर्जनी स्याद्यवाधिका।
यवोना मध्यमान्ये द्वे यवहीने यथाक्रमम्।। 21.30 ।।
(16. वायतं तद्वत्.)
पार्ष्णिपार्श्वपरिच्छोदो भवेच्च चतुरंगुलः।
गुल्फं तथापरिमितं तद्विंशत्यंगुलायतम्।। 21.31 ।।
(17) हिक्कां तयोरधो बाहुस्सहार्धैकोनविंशतिः।
अंगलानि प्रकोष्ठं स्यात्तदायामष्षडंगुलः।। 21.32 ।।
(17. हिक्कान्ततोरधो.)
तद्वच्च मध्यमा शिष्टा सार्धपंच दशांगुला।
दशांगुलं शिरोमानं विस्तारोऽष्टागुंलो भवेत्।। 21.33 ।।
ललाटस्य पुरोनु स्यादशीतियवसंमितम्।
अष्टाशीतियवं मानं तदनन्तरमिष्यते।। 21.34 ।।
आयामश्श्रवणस्य स्याद्द्वात्रिंशद्यवसंमितः।
नालायामस्त थाचोर्ध्वं पिप्पल्या द्वियवो मतः।। 21.35 ।।
नालस्य मूलविस्तारष्षड्यवैस्तुलितो भवेत्।
अग्रं चतुर्यावं ग्रीवा मूलं चैव ष़ंगुलम्।। 21.36 ।।
सार्धं पञ्चांगु (18) लार्धाग्रं स्कंधं च द्व्यंगुल भवेत्।
हिक्कान्तयोरधो बाह्वोर्मूलं द्वात्रिंशदंगुलम्।। 21.37 ।।
(18.लैरग्रं स्कन्धान्तं)
अष्टादशांगुलमुरस्तनयोरपि मण्डलम्।
अंगुलैः पञ्चदशभिः परिच्छिन्नं यथातथम्।। 21.38 ।।
नवांगुलं च विस्तार उत्सेधश्चापि तादृशः।
द्वादशांगुलविस्तारस्तनयोर्मध्यमिष्यते।। 21.39 ।।
कृष्णमण्‍डलविस्तारो द्व्यंगुलं चतुरानन।
नाहस्तु कुक्षिमध्यस्य स्यात्त्रयस्त्रिंशदंगुलः।। 21.40 ।।
श्रोणीमध्यपरीणाह (19) स्सप्तपंचदशांगुलः।
कटिमध्यपरीणाहो विंशत्या (20) सैकयांगुलैः।। 21.41 ।।
(19.सप्तसप्त.) (20. सहितोऽङ्गुलैः)
षट्त्रिंशदंगुलो नाहस्तथा स्यादूरुमूलयोः।
त्रिंशदंगुलनाहस्तु भवेदूर्वोस्तु मध्यमः।। 21.42 ।।
चतुर्भिस्सह विंशत्या जानुनाहस्तथांगुलैः।
सहनं जङ्घयोरेकविंशत्यंगुलमिष्यते।। 21.43 ।।
द्वाविंशत्यंगुलस्सार्धो नाहमध्ये च जङ्घयोः।
सहनं जङ्घयोरग्रं भवेदेकादशांगुलम्।। 21.44 ।।
एकादशांगुलं चाक्षवृत्त (21) मण्डलनाहनम्।
(22) एकांगुलं चाक्षवृत्तं मध्यमं नहनं मतम्।। 21.45 ।।
(22. एकाङ्गुलं इत्यर्ध्यं क्वचिदेव कोशेऽस्ति.)
ष़डंगुलं तलाग्रं स्यादुत्सेधश्चतुरंगुलः।
द्व्यंगुलोऽङ्गुष्ठविस्तारस्तर्ज (23) न्येकांगुला भवेत्।। 21.46 ।।
(23. न्येकादशांगुला.)
मध्यमादितरांगुल्यो यवहीनाः क्रमात्पूनः।
अंगुष्ठनखविस्तारस्त्र्यंगुलः परिकीर्ततः।। 21.47 ।।
तर्जनी पादहीना न्यात्क्रमादन्या (24) यवोन्नताः।
अष्टादशाङ्गुलं मध्यं मूलां बाह्वोस्त्रयाधिकं।। 21.48 ।।
(24. यवोनिताः)
प्रकोष्ठमूलनहनं भवेत्पंचदशांगुलम्।
द्वादशांगुलमध्यान्तं मणिबन्धो नवांगुलः।। 21.49 ।।
विस्तीर्णं (25) तालमध्यर्धं चतुरंगुलमिष्यते।
अंगुष्ठमूल (26) मध्यर्धमंगुलं नखमङ्गुलम्।। 21.50 ।।
(25. तलमध्य।) (26. मध्यर्धं त्य्रङ्गुलम्.)
निस्सृतं त्रियवं प्रोक्तं पर्वद्वयसमन्वितम्।
तर्जन्यंगुलविस्तारस्सहाष्ठांशांगुलो भवेत्।। 21.51 ।।
सपादाङ्गुलविस्तारा मध्यमाङ्गुलिरिष्यते।
अष्टसप्तयवैश्शिष्टेस्त्रिपर्वा च चतुष्टयी।। 21.52 ।।
पार्श्वे केशान्तमुष्णिषादारभ्य स्याद्दशांगुलम्।
आरभ्य पार्श्व केशांतात्स पाद द्व्यङ्गुले भ्रुवौ।। 21.53 ।।
ष़डंगुला यथा भ्रूस्स्याद्यवमध्याग्र (26) यूकका।
अन्तरालं नवयवं भ्रुवो (27) स्त्र्यंगुलमीक्षणम्।। 21.54 ।।
(26.यूषिका.) (27. र्द्व्य)
अंगुलायामविस्तारा वेदितव्या कनीनिका।
यवोनमंगुलं कृष्णज्योतिर्यूक प्रमाणकम्।। 21.55 ।।
परितः कृष्णबिम्बस्य अंगुलं श्वेतमण्डलम्।
मध्यतोंगुलविस्तारं नयनं शूर्पमीनवत्।। 21.56 ।।
ऊर्ध्वपक्ष्मायतासार्धत्र्यंगुलापादविस्तरा।
त्र्यंगुलायाममितरद्विस्तारो यवसंमितः।। 21.57 ।।
अशीतः पक्ष्मरोमाणि शतानि कुटिलानि च।
द्व्यंगुलं चक्षुषोर्मध्यं नासिकामूलमंगुलम्।। 21.58 ।।
विस्तीर्णमुन्नतं वापि मध्यमध्यर्धमंगुलम्।
(28) अग्रं द्व्यङ्गुलमध्यर्धं षड्यवं शुषिरं भवेत्।।
आपाङ्गात्कर्णमूलान्तं चत्वारिंशद्यवं मतम्।। 21.59 ।।
(28. अग्रं द्वयां गुलं मध्यम्.)
द्व्यङ्गुलः कर्णविस्तारो विवरं च चतुर्यवम्।
चतुरङ्गुलमद्धर्धमोष्ठमुत्तरमायतम्।। 21.60 ।।
यवविस्तारमधरमेकांगुलसमायतम्।
द्व्यङ्गुलं चैव विस्तारं चिबुकं द्व्यंगुलायतम्।। 21.61 ।।
(29) आपीडा नासिकायुक्ता करण्डमुकुटान्विता।
कर्णिका (30) मणिकेयूर कटकत्रयहारिणी।। 21.62 ।।
(29. मुकानासिकया.) (30. कर्ण.)
रत्नकूर्पासरशना पुष्पाम्बरपरिष्कृताः।
स्तनबन्धतुलाकोटी सर्वाभरणभूषिता।। 21.63 ।।
लज्जाभङ्गेन देवस्य पार्श्वे वामेतरे स्थिता।
हस्तेव वाहिजं पुल्लं वामेन किल बिभ्रती।। 21.64 ।।
ऊरुप्रदेशविश्रान्तसव्येतरकराम्बुजा।
यद्वा स्यथाहस्तयोस्यान्निष्टप्तकनकप्रभा।। 21.65 ।।
(31) आसनेऽभयदो हस्तो दक्षिणो वरदोऽपरः।
दक्षिणे पद्ममथवा सव्यः कटकमुद्रितः।। 21.66 ।।
(31.असीना.)
पारतन्त्ये विधिरयं स्वातन्त्यैतूच्यते यथा।
(32) चतुर्भुजां जघन्याभ्यां हस्ताभ्यामज्जधारिणीं।। 21.67 ।।
(32.इतः वसुन्धराविशेणानि सर्वाणिद्वितीयाद्तानि कोशान्तरेदृश्यनै तदा अन्वयोमृग्यः)
शङ्खचक्रधरां (33) वापि मुख्याभ्यां वरदायिनीम्।
अभीतिदां च कोटीरधारिणीं भयवर्जिताम्।। 21.68 ।।
(33.पाणिमुख्याभ्याम्.)
वसुन्धराह्वयां देवीं द्विहस्तां कनकप्रभाम्।
दक्षिणाभयदामन्यहस्तेन वसुदायिनीम्।।
गुहीतदाडिमफलां यद्वा वामकरेण वा।। 21.69 ।।
चिन्तारत्नं धारयन्तीं हेमसिंहासने स्थिताम्।
वामपादेन संस्पृष्टनिधिकुम्भामलंकृताम्।। 21.70 ।।
कल्पकानोकहच्छायां समाश्रित्य स्थितां तथा।
वामे पार्श्वे महीं देवीं द्विहस्तां श्यामलंप्रभाम्।। 21.71 ।।
स्तनबन्ध (34) विहीनां वा कुण्डलापीडवर्जिताम्।
सुस्थितां सव्यपादेन चान्येन प्तोककुञ्चिताम्।। 21.72 ।।
(34.विहीनैषा.)
पुष्पं दक्षिणहस्तेव धारयन्तीं शुचिस्मिताम्।
ऊरुप्रदेशविश्रान्तवामहस्ता मलंकृताम्।। 21.73 ।।
सोत्तरीयां यथायोगं स्वातन्त्र्ये श्रीरुदाहृता।
(35) योगलक्ष्मीस्तु श्रीवत्सं भोगलक्ष्मी र्द्विपार्श्वयो।।
वीरलक्ष्मीस्तु वै शेषं पृथग्भवनकल्पनम्।। 21.74 ।।
(35.सोत्तरीया यथायोगं स्वातंत्र्ये श्रीसमा मता इत्यन्यदप्यर्दं क्वचिदधिकमस्ति.)
रतिस्सरस्वती तुष्टिर्देव्यो देवस्य दक्षिणे।
(36) रतिस्सिस्धूर सज्काशा स्फटिकाभा सरस्वती।। 21.75 ।।
 (36. तरिर्विडूर)
हरितालनिभा (37) तुष्टिश्श्रीवदभरणादयः।
पारतन्य्रे विधिरयं स्वातंत्र्ये तूच्यते विधिः।। 21.76 ।।
(37. तुष्टिः प्राग्वदा)
रत्यादयश्च तुर्हस्ता मुख्यौ स्यातां रतेः करौ।
वरदाभयदावन्यौ पाशाङ्गुशधरौ पुनः।। 21.77 ।।
मुख्यौ हस्तौ सरस्वत्या दक्षिणो ज्ञानमुद्रितः।
विज्ञानपुस्तकं वामे जघन्ये दक्षिणेकरे।। 21.78 ।।
अक्षसूत्र (38) धरं वामे सर्वे वज्रादयः स्थिताः।
तुष्टेश्च पूर्ववन्मुख्यौ जघन्यौ शङ्खमम्बुजम्।। 21.79 ।।
(38.धरोवामे सर्वे वस्त्रादयः)
कीर्तः प्रीतिश्च शान्तिश्च वामे देवस्य संस्थिताः।
वामाङ्घ्रयस्सुस्थितास्स्यरीषदन्येन कुञ्चिताः।। 21.80 ।।
ऊरुप्रदेशविश्रान्ता वामाः पुष्पधराः परे।
कीर्तस्स्फटिकवर्णाभा नीलाभा प्रीतिरिष्यते।। 21.81 ।।
शान्तिश्श्यामनिभा चैव सर्वालङ्कार शोभिता।
पारतन्त्र्ये विधिरयं स्वातन्त्र्