क्रियापादः/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ क्रियापादः
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
विंशोऽध्यायः
श्रीभगवान्---

  • प्रतिमामानविधिः*

अतः परं प्रवक्ष्यामि प्रतिमामानमुत्तमम्।
मानं प्रमाणमुन्मानं (1) इति मानं त्रिधा भावेत्।। 20.1 ।।
(1. परिमाणोप मानकम्। लंबामानं षडेतानि मानानि कथयाम्यहम्। इति केषुचित्कोशेषु पाठोदृश्यते.)
मानमुत्सेधमानं स्यादुन्मानं नहनं मतम्।
मानं च तिर्यगूर्ध्वं यत्तत्प्रमाणमिहोच्यते।। 20.2 ।।
(2) तत्र प्रतिकृतेस्तावत्तदङ्गानां कथ्यते।
उत्सेधमानं मूर्धादि पादान्तमनुपूर्वशः।। 20.3 ।।
(2. तस्याः)
(3) लद्धानां देहतस्तावदङ्गुलीनां शतेन तु।
(4) चतुर्विंशतिमानेन प्रतिमां परिकल्पयेत्।। 20.4 ।।
(3.लब्धोनदेहीनां तावत्। लब्धानां देहिनाम्.) (4. चतुर्वंशेन.)
उष्णीषमङ्गुलमितं केशान्तं त्र्यङ्गुलं मतम्।
(5) दृक्सूत्रान्तं तदारभ्यषट्त्रिंशद्यवसम्मितम्।। 20.5 ।।
(5. उत्सूत्रान्तम्.)
तद्वन्नासापुटान्तं स्यात्तद्वच्च चिबुकावधि।
तेन केशान्तमारभ्य मुखमानं चतुर्मुख।। 20.6 ।।
अष्टोत्तरं यवशतं चिबुकावयवावधि।
गलमर्धाङ्गुलं सार्धं त्र्यंगुलं (6) कण्ठमिष्यते।। 20.7 ।।
(6.कर्ण.)
हिक्कासूत्रं समारभ्य हृदयान्तं (7) मुखे स्थितम्।
ततः प्रभृति नाभ्यन्तं सार्धं सत्रिदशाङ्गुलम्।। 20.8 ।।
(7.मुखोन्नतं)
ततः प्रभृति मेढ्रान्तं तद्वदुत्सेधमिष्यते।
तन्मूलाज्जानुपर्यन्तं त्रिन्यूनं त्रिदशांगुलम्।। 20.9 ।।
चतुरङ्गुलमुत्सेधं जानुमण्डलमिष्यते।
अक्षान्तं जानुनोऽधन्तादूरुतुल्यमितीरितम्।। 20.10 ।।
ततस्तालान्तमुत्सेधं चतुरंगुलसंमितम्।
देहाङ्गुलानि यावन्ति दश तालेऽभिपूजिते।। 20.11 ।।
विभज्य तावन्त्युक्तानि मध्यमे श्रूयतां क्रमः।
त्रयोदशांगुलं वक्त्रं त्रिस्थानं च तदंगुलम्।। 20.12 ।।
षड्विंशत्यंगुलोत्सेधमुरुमानमुदाहृतम्।
तद्वज्जङ्घासमुत्सेधं उत्तरेणेतरत्समम्।। 20.13 ।।
अधमे दशताले तु मुखं शतयवं मतम्।
त्रिस्थानं (8) तावदेवस्यादूरुर्यवशतद्वयम्।। 20.14 ।।
(8.त्रिस्थानस्य तदेव स्यात्.)
जङ्घा च तत्समोत्सोधा मुख्येनान्यत्समं मतम्।
विंशद्यवशतं पादद्राघिमा कमलासन।। 20.15 ।।
(9) अङ्गुष्ठं वेदमात्रं स्यात्तदायामा च तर्जनी।
एकत्रिंशद्यवायामा मध्यमाङ्गुलिरिष्यते।। 20.16 ।।
(9. अंगुष्ठे त्र्यंगुलायामं)
त्रिंशद्यवाऽनामिकास्यात्कनिष्ठा त्र्यंगुलापि च।
यवैश्च पञ्चभिर्यक्ता पार्ष्णी च चतुरङ्गुला।। 20.17 ।।
(10) हिक्का तयोरधो बाहुरङ्गुली सप्तविंशतिः।
ततश्च मणिबन्धान्तं षड्विंशत्यंगुलायतम्।। 20.18 ।।
 (10.हिक्कान्तयेरधो.)
यवद्वयेन च युतं मणिबन्धात्तलं पुनः।
मध्यमांगुलमूलान्तं पञ्चाशद्यवसंमितम्।। 20.19 ।।
पञ्चांगुलमथांङ्गुष्ठं तर्जनी तद्वदायता।
षड्यवै श्चाधिकायामा मध्यमा तु ष़डंगुला।। 20.20 ।।
आयता षड्यवै श्चापि तत्समानामिका मता।
कनिष्ठाङ्गुष्ठतुलिता मांपलग्नवखावधि।। 20.21 ।।
एकाङ्गुला सखायामा (11) शिष्टा षड्यवसंमिता।
बाहुवच्चोपबाहुस्स्याच्चतुरङ्गुलमायतः।। 20.22 ।।
(11. शिखा.)
चतुर्यपं चोर्ध्व (12) कणं नालं चञ्चाङ्गुलायतम्।
लिङ्गं पञ्चाङ्गुलायामं मुष्कं तु चतुरङ्गुलम्।। 20.23 ।।
(12. कर्णम्.)
सार्धाष्टाङ्गुलिविस्तारं ललाटं तदनन्तरम्।
द्वादशांगुलविस्तारं बालचन्द्रसमा (13) कृति।। 20.24 ।।
(13.कुलम्.)
ततस्तु कर्णयोर्मध्यं सार्धं सत्रिदशांगुलम्।
दशांगुलमधस्तस्य विस्तारं चिबुकस्य तु।। 20.25 ।।
सपादं द्व्यंगुलं पूर्णं चापतुल्याकृतिर्भवेत्।
मूलमध्याग्रविस्तारः ग्रीवायाः क्रमशो भवेत्।। 20.26 ।।
(14) नवांगुलं तथैकोनं सार्धं सप्तांगुलि स्तथा।
(15) हिक्कान्ततो रथो बाहुमूलयोरन्तरं भवेत्।। 20.27 ।।
(14. नवाङ्गुलस्तथैकोनः साधन सस्ताङ्गुलिः) (15. हिक्कान्ततोरधो' इत्येव लेखनसरणिरस्तिक्वचित् क्वचित् हिक्कान्तयोरित्यस्ति.)
यवैश्चतुर्भिर्विस्तीर्णं सचत्वारिंशदंगुलम्।
कक्षयोर्मध्यविस्तारस्त्र्यंगुलस्सार्धविंशतिः।। 20.28 ।।
अष्टा(16) दशांगुलं मानं स्तनयोरपि चान्तरम्।
षोडशांगुविलस्तारं तुन्दमध्यमुदाहृतम्।। 20.29 ।।
(16. दशाङ्गुलमितम्.)
अष्टादशांगुला श्रोणी रधरोदर? मिष्यते।
कटिप्रदेशविस्तारस्त्र्याङ्गुलस्तार्धविंशतिः।। 20.30 ।।
ऊरुमूलस्य विस्तारस्सार्धं सत्रिदशाङ्गुलम्।
अग्रमेकांगुलं सार्धद्व्यंगुलं मध्यमिष्यते।। 20.31 ।।
द्व्यंगुलो मूलविस्तारो लिङ्गस्य समुदाहृतः।
विस्तीर्णं त्र्यंगुलं मूलं मध्यमर्थाधिकं पुनः।
विस्तीर्णमग्रमुष्कस्य द्वात्रिंशद्यवसंमितम्।। 20.32 ।।
विस्तीर्णमेकादशभिरंगुलै रूरुमध्यमम्।
अग्रं दशभि (17) रेतस्य विस्तीर्णं कमलासन।। 20.33 ।।
सवांगुलं जानुचक्रं पार्श्वमर्धेन्दुसन्निभम्।
(17. रेवस्यात्.)
मूलं नवाष्टौ मध्यं स्याज्जङ्घाग्रं सार्धसप्तकम्।
(18) विस्तीर्णो नलकाभागः सार्धैश्च चतुरंगुलैः।। 20.34 ।।
(18.विस्तीर्णनवकाभोगः)
अङ्घ्रिमूलस्य विस्तारस्त्र्यंगुलस्सचतुर्यवः।
सार्धपञ्चांगुलं मध्यमग्रं सार्धषडंगुलम्।। 20.35 ।।
सार्धमष्टांगुलं मूलं बाहू सप्तांगुलौ पुनः।
मध्याग्रे तुल्यविस्तारे प्रकोष्ठावयवः पुनः।। 20.36 ।।
सार्धेन सप्तभिर्मूले विस्तीर्णं सार्धपञ्चभिः।
मध्ये चतुर्भिरग्रे स्यान्मणिबन्धस्य तूच्यते।। 20.37 ।।
पंचागुलार्धसहितः तद्वत्करतलं स्मृतम्।
अंगुष्ठे मूलविस्तारो द्व्यंगुलो मध्यमांगुलिः।। 20.38 ।।
(19) सषड्यवं तु मुष्ट्यग्रमंगुलेनैव संमितम्।।
तर्जन्यामूलविस्तारो नवभिस्पंमितो यवैः।। 20.39 ।।
(19. सष्डयवममुष्याग्रमङ्गनमन्वितम्.)
मध्य मेकांगुलं सप्तयवमग्रमुदाहृतम्।
मूलं दशयवं मध्मं मध्यमाया यवा नव।। 20.40 ।।
अग्रमेकांगुलं प्रोक्तमितरा तर्जनीसमा।
मूलमष्टौ कनिष्ठायाः (20) यवास्सप्तैकमध्यमा।। 20.41 ।।
(21) षड्यवांगुलमग्रेभ्यः पादोना सखविस्तृतिः।
(20. यवास्सप्तैन मध्यमम्.) (21. षड्यवान्वतमग्रं स्यात्.)
मध्ये करतले रेखा मध्यमामूलमुत्थिता।। 20.42 ।।
कनिष्ठामूलमारभ्य रेखा मध्यमगा भवेत्।
मध्यमांगुलितर्जन्योर्निर्मातव्या विचक्षणैः।। 20.43 ।।
अंगुष्ठमूलमारभ्य (22) तर्जन्यन्तश्च मध्यमा।
तयोश्च रेखयोर्मध्ये तर्जनीमूलगामिनी।। 20.44 ।।
(22. तर्जिन्याङ्गुष्ठमध्यगा.)
रेखा कल्प्या यथाशास्त्रं शास्त्राभिज्ञेन शिल्पिना।
ललाटस्य च विस्तारस्सपादद्व्यंगुलो भवेत्।। 20.45 ।।
तस्याधस्ताद्भ्रुवौ कल्प्यौ चत्वारिंशद्यवायतौ।
मध्ये यवेन विस्तीर्णे यूकाग्रे चापसन्निभे।। 20.46 ।।
तयोर्मध्यं नवयवं अष्टादशयवायतम्।
चक्षुः नीनिकायामो विस्तारश्च यनः स्मृतः।। 20.47 ।।
अंगुलं श्वेतबिम्बस्य विस्तारं कृष्टमण्डलम्।
यवोनमंगुलं ज्योतिस्तन्मध्ये यवसंमितम्।। 20.48 ।।
याकमाना तु तन्मध्ये दृष्टिः पक्ष्मावली पुनः।
ऊर्ध्वा समन्विता सार्धत्र्यंगुला दशभिर्यवैः।। 20.49 ।।
विस्तीर्णातु (23) यवायामा विस्तारस्तु तदर्धकः।
अशीतिः पक्ष्मरोमाणि वक्राग्राण्यसितानि च।। 20.50 ।।
(23. तदयामा.)
द्व्यंगुलं चक्षुषोर्मध्यं मध्यं च श्रुत्यपाङ्गयोः।
चत्वारिंशद्यवं (24) कर्णविस्तारो द्व्यङ्गुलो भवेत्।। 20.51 ।।
(24. श्रोत्र.)
ऊर्ध्वं कर्णस्य चायामस्सहार्धचतुरंगुलः।
नालं पञ्चांगुलमितं विस्तारष्षड्यवः पुनः।। 20.52 ।।
पश्चाच्चतुर्यवा नाली नालतुल्यं चतुर्मुख।
श्रमणस्य (25) च पिप्पल्याः मध्यगर्तं चतुर्यवम्।। 20.53 ।।
(25. हि वैपुल्यं)
(26) त्रिवक्त्रकर्णपिप्पल्या गल्लपात्रमिव स्थितम्।
बन्दनं त्र्यंगुलं रन्ध्रं नेत्रसूत्र (27) समुन्नतम्।। 20.54 ।।
(26. श्री वत्सं कर्णपिप्पल्या भल्लपात्रमव गल्लपत्र.)
(27. समं मतम्.)
नासिकामूलमध्याग्रविस्तारः कथ्यते क्रमात्।
अंगुलं (28) चांगुलं सार्धद्व्यंगुलं सचतुर्यवम्।। 20.55 ।।
(28. द्व्यङ्गुलं यद्वा)
अंगुलेनोन्नतं मूलं तेन सार्धेन मध्यमम्।
द्वाभ्यां यवाभ्यां मूलेन द्व्यंगुलेनाग्रमुन्नतम्।। 20.56 ।।
षड्यवं सुषिरं तस्य पुटमध्यं चतुर्यवम्।
पुटपार्श्वस्य विस्तारो द्वियवः परिकीर्तितः।। 20.57 ।।
उत्सेधोऽर्धांगुलस्तस्य नासिका तिलपुष्पवत्।
उत्तरोष्ठायतं सार्धं चतुरंगुलमिष्यते।। 20.58 ।।
विस्तारोऽर्धांगुलस्तस्य परं सार्धांगुलायतम्।
विस्तीर्णमंगुलं तस्य पाली चैकयवा मता।। 20.59 ।।
(29) चिबुकोष्ठौ दशयवौ विस्तारायामसंमितौ।
(29.चिबुकोष्टादशयवौ.)
(30) गुल्फं पादाङ्गुलोत्सेधं दर्पणोदरसन्निभम्।। 20.60 ।।
(30.गण्डम्.)
विस्तीर्णावयवौ तुल्यौ राजदन्तौ चतुर्यवौ।
द्वात्त्रिंशद्दशनाः कल्प्याः यथाशास्त्रोक्तवर्त्मना।। 20.61 ।।
जिह्वा षडङ्गुलायामा विस्तीर्णा त्र्यङ्गुला भवेत्।
रेखात्रयाङ्किता (31) ग्रीवा हिक्का (32) सूत्रात् स्तनस्थिति।। 20.62 ।।
(31. लीढा) (32.सूत्रसमस्थितिः.)
एकादशांगुलं वृत्तं द्व्यंगुलं स्तवमण्डलम्।
चतुर्यवं चूचुकं स्यात् स्तनमण्डलमध्यगम्।। 20.63 ।।
चतुर्यवं नाभिगर्तं दक्षिणावर्तमिष्यते।
अध्यर्धमंगुलं वृत्त मक्षमर्धांगुलोन्नतम्।। 20.64 ।।
उष्णीषात्पृष्ठकेशान्तमेकादिकदशांगुलम्।
उष्णीषात्पर्श्वकेशान्तं द्वादशांगुलमानकम्।। 20.65 ।।
कर्णयोरन्तरं विद्यात् सार्धं सत्रिदशाङ्गुलम्।
मुलमध्याग्रभागेषु पृष्ठग्रीवा यथाक्रमम्।। 20.66 ।।
विस्तीर्णा नवभिस्तार्धेनंगुलैर्नवभिस्तथा।
अष्टाभिश्च भवेत्तस्या अधस्तात्क कुदस्थितिः।। 20.67 ।।
आयामोत्सेधविस्तारैः ककुदं तच्चतुर्यवम्।
षट्त्रिंशदंगुलं बाह्वो र्मध्यं विस्तारपृष्ठतः।। 20.68 ।।
षड्विंशतिश्चांगुलानां कक्षयोरन्तरं भवेत्।
पृष्ठमध्यस्य विस्तरो ब्रह्मन् सप्तदशांगुलः।। 20.69 ।।
विस्तीर्णा पञ्चविंशत्या श्रोणी पार्श्वौ तथांगुलैः।
कटिप्रदेशविस्तारष्षड्विंशत्यंगुलो भवेत्।। 20.70 ।।
षट्त्रिंशदङ्गुलं मध्ये ककुदस्य कटेस्तथा।
(33) द्व्यंगुलोन्नतमेतस्य स्फिचौ तन्मध्यमंगुलम्।। 20.71 ।।
(33. द्व्यङ्गुलौ शतमेतस्य.)
(34) अङ्गुलं स्तनयोर्मूलं मध्यं सप्ताङ्गुलं भवेत्।
अग्रं त्र्यंगुलविस्तारमूर्वोर्मूलादिषु त्रिषु।। 20.72 ।।
(34. अष्टांगुलस्त.)
भवेत्क्रमेण विस्तारस्सार्धस्सत्रिदशांगुलः।
द्वादशांगुलयुक्तस्यात्तथैव द्वादशांगुलः।
जान्वष्टांगुलविस्तारं सार्धमष्टांगुलं भवेत्।। 20.73 ।।
जङ्घामध्यं सुविस्तीर्णं (35) नालिका चतुरंगुला।
चतुर्यवाधिका चैव गुल्फश्च चतुरङ्गुलः।। 20.74 ।।
(35.नलका.)
विस्तारमानं त्रिगुणं सर्वेषां नहनं मतम्।
अभितिदो वा वरदो मुख्यो वामेतरः करः।। 20.75 ।।
स्तनसूत्रसमं कार्यं अङ्गुलाग्रं करस्य तु।
तयोर्भवेदन्तरालं द्वादशाङ्गुलमब्जज।। 20.76 ।।
अंगुष्ठतर्जनीमध्ये सनालं कमलं भवेत्।
वरदे कमलाकारं लिखेत्करतलोदरे।। 20.77 ।।
अधोमुखे वामहस्ते मुख्ये कुर्याद्गदां शुभाम्।
चतुस्तालायतां मूले स्थूलामग्रे कृशामृजुम्।। 20.78 ।।
त्र्यंगुलं मूलनहनमग्रे सहनमंगुलम्।
द्व्यंगुलं सार्धमितरद्गदामध्यं चतुर्मुख।। 20.79 ।।
कटिप्रसव्यं करयोरन्तरं द्व्यङ्गुलं भवेत्।
कटिस्पृशं करं कुर्यात्प्र सव्यं गदया विना।। 20.80 ।।
उद्धरेद्बाहुसीमान्तमूर्ध्वहस्तौ धृतायुधौ।
बाहुप्रकोष्ठयोर्मध्यं मूलमष्टांगुलं भवेत्।। 20.81 ।।
मध्यं दशांगुलमितमग्रमानं मुखं स्मृतम्।
ऊर्ध्वे हस्तद्वयाङ्गुष्ठो सहानामिकया नतम्।। 20.82 ।।
तर्भनीमध्यमाभ्यां तु (36) धारयन्तं तथाम्बुजम्।
चक्रं सुदर्शनं वृत्तं द्वादशाङ्गुलमानकम्।। 20.83 ।।
(36. धारयोच्चक्रमंबुजम्.)
अष्टांगुलमरक्षेत्रं द्व्यंगुला चक्रपिण्डिका।
तद्वत्स्यान्नेमिवलयं चतुर्ज्वालासमन्वितम्।। 20.84 ।।
(37) नाभापुभयतो ज्वाला त्रिशिखावर्तशोभिता।
अध्यर्धद्व्यङ्गुलोत्सेधा विस्तीर्णार्धादिकांगुला।। 20.85 ।।
(37. नासा ह्युभयते. तासामुभय नासामुखं यतो.)
अराणि यवतुल्यानि नेत्रतुल्यानि वा पुनः।
अष्टौ द्वादश वा षड्वा षड्ज्वालं शङ्खमिष्यते।। 20.86 ।।
विस्तारोऽष्टांगुलस्तस्य द्वादशांगुलमायतम्।
प्रदक्षिणावर्तयुतं ज्वालाग्रं शङ्खचक्रयोः।। 20.87 ।।
केशान्तेन समं यद्वा नेत्रसूत्रेण तत्सम्।
सार्धांगुलान्तरादूर्ध्वं जानुनी द्व्यंगुलान्तरे।। 20.88 ।।
जङ्घयोर्वंशतियवमन्तरालं प्रशस्यते।
अक्षयोस्त्र्यंगुलं (38) मध्यं तयोस्सप्तांगुलं भवेत्।। 20.89 ।।
(38.मध्ये स्तनयोस्सप्तचाङ्गुलम्.)
चरणांगुष्ठयोर्मध्यं नवांगुलमुदाहृतम्।
ऋजुस्थितस्य चरणं शय्यायां ऋजु दक्षिणम्।। 20.99 ।।
इतरत्कुंचितं सप्तविंशत्यंगुलमन्तरम्।
अंगुष्ठयोर्गुल्फमध्यं चतुरंगुल मिष्यते।। 20.91 ।।
जान्वन्तरालमुदितं सार्धं सत्रिदशांगुलम्।
सव्येतरकरं मौलेरग्रान्तं विनिवेशयेत्।। 20.92 ।।
प्रसारयेद्वामहस्तं आजानुकमलासन।
दक्षिणे कमलं वामे गदां हस्ते प्रकल्पयेत्।। 20.93 ।।
भिध्यते प्रतिमाभंगैस्त्रिभिरेतैश्चतुर्मुख।
अभङ्गसमभङ्गाभ्यामतिभङ्गेन चैव हि।
शिरोमध्ये नासिकाग्रे आस्यमध्ये गलस्य च।। 20.94 ।।
मध्ये च हृदये नाभौ मध्ये लिङ्गस्य (39) वामतः।
भागेषडङ्गुले चोरौ वामे मध्ये च गुल्फयोः।। 20.95 ।।
(39. मानतः)
लम्बयेत्सुत्रमाभङ्गं भिन्ना च प्रतिमा मता।
यथोक्त प्रतिमामाना (40) दूना वा त्रिभिरङ्गुलैः।। 20.96 ।।
(40. दूनैव.)
शिखामणिगतं सूत्रं वाम (41) पूरिगमध्यगम्।
वामे ललाटे मकरे वामे वामे च चक्षुषी।। 20.97 ।।
(41.पूरित.)
नाभौ मध्ये (42) नलकयोर्मध्ये च यदि लम्बयेत्।
समभङ्गविशिष्ठा सा न्यूनैषा चतुरङ्गुलैः।। 20.98 ।।
(42. नालगयोः)
मूर्ध्नि वामे ललाटे च वामनेत्रस्य मध्यगम्।
आस्यमध्ये तथा नाभौ दक्षिणे गुल्फमध्यगम्।। 20.99 ।।
सूत्रं प्रलम्बयेदेवं अतिभङ्गा तु सा मता।
न्यूना पञ्चाङ्गुलै रेषा प्रतिमा पूर्वमा नतः।। 20.100 ।।
(43) अतिभङ्गश्शयानायाः प्रशस्तोरामकृष्णयोः।
(43. अति भङ्गश्शयानस्य.)

  • किरीटादीनांमानम्.*

(44) सहजानां भूषणादिकिरीटानां चतुर्मुख।। 20.101 ।।
(44. भङ्गानां तु किरीटादिभूषणां तथैव च।)
वक्ष्यामि मानमधुना यथातथमनुक्रमात्।
चतुर्विंशाङ्गुलायामं (45) यद्वा पञ्चदशाङ्गुलम्।। 20.102 ।।
(45. करिटमथवा भवेत् अष्टा दशाङ्गुलायामं यद्वा पंचदशाङ्गुलम्)
मूलमध्याग्रनहनं किरीटस्य यथाक्रमम्।
त्रिंशता सप्तभिर्द्वाभ्यां एकेनापि तथाङ्गुलैः।। 20.103 ।।
तस्य मध्ये चतुर्दिक्षु पूरितानि तथाङ्गुलैः।
तस्य मध्ये चतुर्धिक्षु पूरितानि प्रकल्पयेत्।
शोभयेच्च महारत्नै (46) रग्रे चैकशिखा मणिं।। 20.104 ।।
(46. रग्रेर्धेश्च महामणिः)
चतुर्दशाङ्गुलोत्सेधं कल्पयेत्केशबन्धनम्।
मूलपट्टं किरीटस्य विस्तीर्णं द्व्यंगुलं भवेत्।
एकांगुलममूष्याग्रं त्र्यंगुलं च शिखामणिः।। 20.105 ।।
पद्ममष्टदलं कुर्यादधस्ताच्च शिखामणेः।
द्विगोलकायतं चित्रैरन्यैरपिच शोभयेत्।। 20.106 ।।
शिरसः पृष्ठभागे स्याच्छिरश्चक्रं तु चक्रवत्।
विनाकृतं तु ज्वालाभिः पद्मं यद्वा यथारुचि।। 20.107 ।।
प्रकल्प्यं मध्यतो दाम (47) चक्रे गोलकमायतम्।
नहसं (48) द्व्यंगुलं तस्य नालं स्याद्गोलकायतम्।। 20.108 ।।
(47. चक्रगोलक.)(48. त्र्यंगुलं)
मकरं गोलकोत्सेधं कुर्या दष्ठाङ्गुलायतम्।
तद्वक्त्रात्सुमनोदाम निस्सृतं बालचन्द्रवत्।। 20.109 ।।
द्व्यङ्गुलं कर्णसुमनः कर्णदाम च लम्बयेत्।
हारं त्र्यंगुलविस्तारमग्रयोर्नेत्रबन्धनम्।। 20.110 ।।
मूक्ताविभूषितं मध्ये (49) महारत्नपरिष्कृतम्।
(49. हारन्त्र परिष्कृतम्.)
कुर्याच्च दक्षिणे वक्षस्थसले श्रीवत्समङ्गुलम्।। 20.111 ।।
अर्धाधिकं त्रिकोणं च तन्मध्ये कमलालयाम्।
द्विहस्तामुद्यदम्भेजधारिणीं श्रियमद्भुताम्।। 20.112 ।।
अपराभ्यां च हस्ताभ्यां वराभयसमन्विताम्।
किरीटहारकेयुरसर्वाभरणभूषिताम्।। 20.113 ।।
कुर्याद्गोलकविस्तारं मुखे पञ्चाङ्गुलायतम्।।
त्रिगुणं ब्रह्मसूत्रं स्यान्नाभेश्चापि प्रदक्षिणम्।। 20.114 ।।
एकांगुलं चोत्तरीयं नेत्रबन्धेन बन्धयेत्।
विस्तीर्णं द्व्यङ्गुलं मध्ये त्वग्रमेकाङ्गुलं भवेत्।। 20.115 ।।
मुक्तादामपरिष्कारं सर्वाभरणभूषितम्।
कुक्षिबन्धनमाश्चर्यं नेत्रबन्धेन योजयेत्।। 20.116 ।।
(50) मुक्तादाम च केयूरं कुर्यात्पूरितसन्निभम्।
सप्ताङ्गुलैश्च विस्तीर्णं नानारत्नपरिष्कृतम्।। 20.117 ।।
(50. मूखायामं च केयूरं कुर्यात्तत्र पृथादरम्.)
गुलिकांगुलविस्तीर्णा आयताद्व्यंगुलेन च।
गुलिकानां त्रयं कुर्यान्नेत्रबन्धेन बन्धयेत्।। 20.118 ।।
सर्वरत्नपरिष्कारान् वलयां स्त्रीन् प्रकल्पयेत्।
एकाङ्गुलपरीणाहान् कटकैश्चोपशोभितान्।। 20.119 ।।
सौवर्णान्यंगुलीयानि बन्धानेकमणीनि च।
परिणाहो भवेतैषां द्वियवस्त्रियवो पि वा।। 20.120 ।।
(51) मध्यमामङ्गुलिं नैव मण्डयेदङ्गुलीयकैः।
त्र्यंगुलः कटिसूत्रस्य विस्तारो रत्नशोभितः।। 20.121 ।।
(51. मध्यमङ्गुलिकम्)
तन्मध्ये (52) मकरी चैव पञ्चांगुलसमायता।
(52.त्रिवली.)
चुतुरंगुलविस्तारा दंष्ट्राकुटिलमाननम्।। 20.122 ।।
वृत्ताक्षं भ्रुकुटीयुक्तमास्यनिस्सृतमौक्तिकम्।
कुर्यान्मौक्तिकदामानि त्रीण्यागुल्फं प्रकल्पयेत्।। 20.123 ।।
पादाकल्पं त्रिकटकं द्व्यंगुलं परिणाहतः।
नूपुरं च तथा कुर्यात्किङ्किणीजालमण्डितम्।। 20.124 ।।
वस्त्रं च पीतपूर्वं तदागुल्फं पार्श्वलम्बितम्।
कल्पयेद्वनमालां तु नानापुष्पसमुज्ज्वलाम्।। 20.125 ।।
नानारत्नमयीं वापि यद्वा केवलपङ्कजाम्।
कर्णतश्चरणं यावल्लम्बयेदद्भुताकृतिम्।। 20.126 ।।
अथवा (53) वल्लिकाकारां नाहतश्चतुरङ्गुलाम्।
प्रद्योतनसहस्राभं द्योतमानं च कौस्तुभम्।। 20.127 ।।
(53. वल्कलाकाराम्.)
(54) लम्बयेदुरसि स्वच्छमिन्दिरासोदरं मणिम्।
रूपस्या (55) भरणानां च नियमस्संप्रदर्शितः।। 20.128 ।।
(54. कल्फयेदुरसि.) (55. भरणादीनाम्.)
(56) न ह्यशेषेण रूपं मे प्रतिकर्माणि वा पुनः।
निर्मातुं भवता शक्यं किमुतान्यैः कुशिल्पिभिः।। 20.129 ।।
(56. तेनेहशेष रूपं मे.)
तथापि शास्त्राण्यालोच्य तत् ज्ञैश्शास्त्रं विमृश्यच।
न्यूनातिरेकरहितं बिम्बं कुर्याद्यथातथम्।। 20.130 ।।
न्यूनातिरेके वा दोषो (57) महान् वक्तुं न शक्यते।
इति श्रीपाञ्चारात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रतिमामान (58) विधिर्वाम
विंशोऽध्यायः
(57. मयावेत्तुम्.) (58.प्रतिमालक्षण भुषण लक्षणं नाम.)


*****************------------