क्रियापादः/अध्यायः १४
← अध्यायः १३ | क्रियापादः अध्यायः १४ [[लेखकः :|]] |
अध्यायः १५ → |
पाद्मसंहितायाम्.
चतुर्दशोध्यायः
श्रीभगवान्---
- बिंबनिर्माणविधिः*
बिम्बनिर्माणमधुना वक्ष्यामि कमलासन।
लोहपट्टेन शूलानां सन्धिं बध्वा दृढं यथा।। 14.1 ।।
अष्टबन्धेन शूलानि लिम्पेत्सर्वाणि सर्वतः।
रज्जुभिर्वेष्टयेत्तानि दृढानि च्छिद्रवर्जितम्।। 14.2 ।।
यथासिराभिर्बहुभिश्शरीरं बध्यते तथा।
- शूलरज्वादीनां अस्थिसिराप्रकृतिता*
शूलान्यस्थीनि मृन्मांसं सिराः पाशास्त्वचः पटाः।। 14.3 ।।
- आ पक्वमृदालेफनेशुभफलम्.*
मृद्भिरालेपनं कुर्यादपक्वाभिश्च तुर्मुख।
पक्वाभिर्वर्जयेद्बिम्बं गृहे देवालयेऽपि वा।। 14.4 ।।
अपक्वास्सर्वफलदाः पक्वास्तु बदोषदाः।
- केवलमृदाबिंबनिर्माणम्*
मृदा केवलया बिम्बं कुर्याद्वद्वा त्रिवस्तुभिः।। 14.5 ।।
मृण्मये कौतुके पुर्णे साङ्गोपाङ्गं यथाविधि।
त्रिवस्तुके मृदालिप्ते (1) कङ्कशर्करया तथा।। 14.6 ।।
(1.कटशर्करया)
पटेनाच्छाद्य (2) सर्वाङ्गं वर्णलेपं समाचरेत्।
- प्रशस्तमृत्ति कास्थानानि.*
पुण्यक्षेत्रे नदीतीरे कान्तारे पर्वतेऽपि वा।। 14.7 ।।
(2.तदनु)
मृदं समग्रां गृह्णीयात्सर्वदोषविवर्जिताम्।
नीचै रध्यासितां चैत्यश्मशानादि विवर्जिताम्।। 14.8 ।।
- कल्कोपयोगिव्यस्त्वचः*
खदिरौदुम्बराश्वत्थ न्यग्रोधार्जुन भूरुहाम्।
समुद्धृत्य त्वचस्सर्वा मासं वारिषु निक्षिपेत्।। 14.9 ।।
तो यैर्मासोषितैर्मृत्स्नां मिश्रयेत्पीडयेच्च ताम्।
तां नूतनैषु भाण्डेषु निक्षिप्याच्छाद्य यत्नतः।। 14.10 ।।
छायायां निक्षिपेद्भाण्डान्यथा वातादि न स्पृशेत्।
- कल्कप्रतिवापद्रव्यविधिः*
धातुकीयास्त्रयोभागाष्षड्गुणा च हरीतकी।। 14.11 ।।
धात्री च द्वादशविधा भागांस्तानेकविंशतीः।
- अधिवासकालमानम्*
अधिवास्यैकमासं तु भाण्डेषु कमलासन।
त्रिफलेन पुनर्वारा तां मृदं मिश्रयेत्सुधिः।। 14.12 ।।
छायायां नातिशुष्कां तां विंशत्येकोनया मृदम्।
मिश्रयेद्वक्ष्यमाणानां पुण्यक्षेत्रादि जन्मनाम्।। 14.13 ।।
- एकोनविंशतिमृदः*
पुण्यक्षेत्रे नदीतीरे पर्वते पुलिने हृदे।
निर्झरेसङ्गमे (3) गोष्ठे देविककोर्वरयोस्तथा।। 14.14 ।।
(13. शोषवेदिगोपुरयोः---शोष्यवेदिकोर्वरयोः शोचे देविकोर्वरयोः)
शालिक्षेत्रे देवखा ते शृङ्गे (4) च वृष हस्तिनोः।
वराहकृष्टे वल्मीके कुलीरवसतौ तथा।। 14.15 ।।
(4. वृषभ)
नलिन्यां दीर्घिकायां च मृत्स्नामेकोनविंशतिम्।
- मृदः प्रमाणम् चुर्णविभागश्च*
मृत्स्नाभिर्मुष्टिमात्राभिः पुर्वोक्तां मिश्रयेन्मृदम्।। 14.16 ।।
पूर्वोक्तमानैस्त्रिफला चूर्णैस्तां मिश्रयेत्पुवः।
तत्त्रिभागैकभागैश्च कटशर्करचूर्णितैः।। 14.17 ।।
नादेयैश्लक्ष्णपाषाणैः मृत्तुर्यां शैश्च चुर्णितैः।
- योजनीयसुरभिद्रव्याणि*
चन्दनं (5) कुङ्कुमं कोष्ठं श्रीवेष्टं हरिचन्दनम्।। 14.18 ।।
(5.कुनुमं कुष्ठं.)
गुल्गलुं च निशां शुष्कां हरितालं मनश्शिलाम्।
तमालपत्राण्येतानि चन्दनादीनि चूर्णयेत्।। 14.19 ।।
मृद्विंशत्येकभागै स्तैश्चूर्णैस्तत्तुल्यसैकतैः।
सूक्ष्मैश्च मिश्रयेन्मृत्स्नां कपित्थरसतुर्यकैः।। 14.20 ।।
चूर्णितैर्लोहरत्नैश्च मिश्रयित्वा तु मृत्तिकाम्।
- सम्मिश्रणीय स्ने हद्रवद्रव्याणि*
मधुतै लदधिक्षीर घृतैश्शुक्तिप्रमाणकैः।। 14.21 ।।
अतसीतैल (6) संमिश्रैः पुनस्संमिश्रयेन्मृदम्।
- संस्कृतमृदः अधिवासः*
इत्थं तु संस्कृतां मृत्स्नां निक्षिप्य नवभाजने।। 14.22 ।।
(6. सहितैः)
आच्छाद्य नववस्त्रेण भाण्डं धान्येषु निक्षिपेत्।
अर्चयेम्मालमन्त्रेण मृद्भाण्डान् देशिकोत्तमः।। 14.23 ।।
सर्पिषा जुहुयादग्नौ मूलोनाष्टोत्तरं शतम्।
चतुं पुरुषसू क्तेन प्रत्यृचं जुहुयाद्भुधः।। 14.24 ।।
संपाताज्येन सिंचेत्तां मृदं भाजनसंस्थिताम्।
- अधिवासवेला*
सद्यो वा निशि वा मृत्स्ना मधिवास्य यथाविधि।। 14.25 ।।
- लेपनक्रमः तद्विद्याच*
मुहूर्ते शोभने बिम्बे प्रलिम्पेन्मृत्तिकां गुरुः।
अमौलिकण्ठपर्यन्तमालिम्पेद्य्वोम विद्यया।। 14.26 ।।
आकण्ठनाभिपर्यस्तं विलिं पेद्वायुविध्यया।
आनाभिकटिपर्यन्तं लेपयेद्वह्निविद्यया।। 14.27 ।।
आकटेर्जानुपय न्तमालिं पेद्वारिविद्यया।
आजानुकटिपर्यन्तं प्रलिं पेद्भूमिविद्यया।। 14.28 ।।
आनाभिकण्ठमालिम्पेत्पुनश्श्वसनविद्यया।
नाभ्यादिगुह्यपर्यन्तमालिम्पेच्चिखिलिविद्यया।। 14.29 ।।
गुह्यादिजानुपर्यन्तमालिंपेद्वारिविद्यया।
जानुप्रभृतिपादान्तमालिम्पत्क्षितिविद्यया।। 14.30 ।।
- देव्यादीनां मृदालेपेविद्यानिर्देशः*
देवीनां च श्रियादीनां ब्रह्मादीनां तथैव च।
आलेवनं प्रकुर्वीत कालेऽस्मिन् भूतविद्यया।। 14.31 ।।
गुरवे दक्षिणा देया स यथातुष्टिमाप्नुयात्।
- रज्वादिवेष्टनम्*
बिम्भस्य नाहमानं यच्छूलमूनमपोह्य तत्।। 14.32 ।।
(7)अष्टधाकृत्य तेषु त्रिन् रज्वाचा वेष्टयेद्गुणान्।
मृद्भिरालेपयेत्य्रंशं द्यौवस्त्रकटशर्करैः।। 14.33 ।।
(7.अष्टधाकृतमेतेषु त्रिरज्वा.)
नारिकेलत्वचा मृत्स्नां द्वितीयां मिश्रयेत्पुनः।
क्रमेणपरिमाणं च मुखबाहूरुवक्षसाम्।। 14.34 ।।
- नाडीकल्पनम्*
नाडीमिडां पिङ्गलां च सुषुम्नां तस्तुभिः कृताम्।
सितपीतारुणैस्ताभिर्वेष्टयेद्विष्णु विग्रहम्।। 14.35 ।।
(8) नालिकेरत्वचं सूक्ष्मं छित्वाच्छित्वा च मृत्तिकाम्।
तृतीयां मिश्रयेत्तां च लेपयेत्पूर्वशोषणे।। 14.36 ।।
(8.नालिकेरत्वचां सारम्.)
हस्तं च सांगुलोपेतं कृत्वालोहेन बन्धयेत्।
(9) कर्णावर्तं ततः कुत्वालोहेन परिविन्यसेत्।। 14.37 ।।
(9.गर्तावर्तम्.)
शरीर (10) पोषणं कुर्याद्भेदरन्ध्रविवर्जितम्।
(10.शरीरशोषणम्.)
- मृत्ति काकटशर्करयोर्लेपनेविधिः*
हस्तेन मृत्तिका दद्यात्कूर्चेन कटश र्कराम्।। 14.38 ।।
कटशर्करचूर्णानि त्रिफलाकृषिताम्बुना।
पिष्ट्वा पूपाकृतिं कृत्वाशोषयेदातपेन ताः।। 14.39 ।।
पुनस्सम्पेषयेत्पिण्डान् कपित्थरसवारिणा।
चतुस्त्रिः पञ्चकृत्वो वा कृत्वैवं पेषयेत्पुनः।। 14.40 ।।
कार्पासतूलमि लितान् कपित्थरसवारिणा।
तावत्सम्पेष येद्यावद्बाहुभ्यां बाहृमात्रकम्।। 14.41 ।।
- पिष्टकल्पनम्*
(11) प्रत्रिकायास्समुद्धारे पेषणी न पतेद्यपि।
कल्कं सुपिष्टं कूर्चेन शनै रेव परामृशेत्।। 14.42 ।।
(11.घटिकाया.)
ततः करण्डिकाग्रेण लिस्ताङ्गानि च लेपयेत्।
पूर्णेष्वङ्गेषु सर्वेषु पटेनाच्छादयेद्धृढम्।। 14.43 ।।
कार्पापजं दृढं चेलं लोमादिभिरदूषितम्।
ध्यान्यराशिषु संस्थाप्य वाचयित्वा शिषं पुनः।। 14.44 ।।
ध्यानेन शुद्धिं सम्पाद्य पुजयेद्वायुविद्यया।
मूलमन्त्रेण जुहुयत्समिदाज्येन वै शतम्।। 14.45 ।।
चरुं पुरुषसूक्तेन जुहुयात्षोडशाहुतीः।
मुहूर्तेशोभने प्राप्ते (12) पटेनाच्छाद्यलेपयेत्।। 14.46 ।।
(12.पटेशंलेप येत्पुनः)
(13) या शर्करा पटे तस्मिन् तयैवाकल्पयेत्ततः।
शुक्लमृत्तिकया लेपः कपित्थरसमिश्रया।। 14.47 ।।
(13.कटिशर्करां पटे.)
- वर्णलेपविधिः*
वर्णालेपं ततः कुर्याच्छिल्पिशास्त्रविचक्षणैः।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च।। 14.48 ।।
पंचवर्णं वृथिव्यादि वर्णानामधिदेवताः।
उत्तमा धातवः प्रोक्ताः मध्यमा वृक्षसम्भवाः।। 14.49 ।।
संयोगजास्स्युरधमास्त्रैविद्यमपरं शृणु।
वर्णं चाप्यनुवर्णं च संस्कारं च तथैवच।। 14.50 ।।
त्रिविधो वर्णसंयोगश्शास्त्रेषु समुदीरितः।
वर्ण इत्युच्यते शुद्धो (14) राजवत्तानि कारयेत्।। 14.51 ।।
(14.आवर्तादीनि तारयेत्.)
आनुकारे च ये वर्णाः प्रायशश्शुद्धिवर्जिताः।
अनुवर्णा इमे प्रोक्तास्सङ्किर्णान् कथयामि ते।। 14.52 ।।
शूक्लो रक्तश्च पीतश्च कृष्णश्चैव चतुर्विधः।
सङ्करास्ते च चत्वारः प्रत्येकं द्विविधाः स्मृताः।। 14.53 ।।
शुक्लश्चैव वलर्क्षश्च श्वेतो द्विविध उच्यते।
शख्ङगोक्षीरकुन्दाभश्शुक्ल इत्यभि (15) संङ्ञितः।। 14.54 ।।
(15. धियते.)
मुक्तास्फटिक (16) चव्द्राभो वळर्क्ष इति संज्ञितः।
रक्तश्चाप्यरुणश्शोण इति भेदेन कथ्यते।। 14.55 ।।
(16.वज्राभो वर्णाभो.)
जपाशोणितसङ्का शो रक्तमर्णेऽरुणोमतः।
किंशुकाशोकसङ्का शश्शोण इत्यभिधीयते।। 14.56 ।।
हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत्।
मनश्शिलाहरीतालनिभो हरित उच्यते।। 14.57 ।।
हरिद्राकुङ्कुमाभस्तु पीत इत्यभि (17) संज्ञितः।
श्यामश्च कृष्ण (18) वर्णश्च कृष्णवर्णो द्विधा भवेत्।। 14.58 ।।
(17.धीयते.)(18.संज्ञश्च.)
दूर्वामरतकाभश्च श्याम इत्यभि (19) संजितः।
इस्द्रनीलनिभः कृष्णः कृष्णवर्णः प्रकीर्तितः।। 14.59 ।।
(19. वश्रुतः)
शुक्लेन मिश्रितो रक्तो बभ्रुरित्यभिदीयते।
शुक्लेन मिश्रितः काषो वर्णकः परिकीर्तितः।। 14.60 ।।
पीतेन मिश्रतः कृष्णः काळ इत्यर्भिधीयते।
पीतकृष्णयुतश्शुक्लः कर्बुरस्समुदाहृतः।। 14.61 ।।
एनं सङ्करजान्वर्णानुहापोहेन योजयेत्।
उक्तोयं वर्णसंक्षेपस्तैः कुर्या (20) च्चोदितैः क्रमात्।। 14.62 ।।
(20.भोधितैः)
- मूर्तिकल्पनपरिपाटी*
प्रथमो दारुसङ्घातो द्वितीयं रज्जुवेष्टनम्।
मृदालेपस्तृतियस्तु तुरियं नादिबन्दनम्।। 14.63 ।।
पञ्चमो रज्जुवेष्टस्स्यान्नालिकेरत्वचा पुनः।
मिश्रिता मुत्तिका षष्ठीसप्तमं रज्जुवेष्टनम्।। 14.64 ।।
अष्टमश्शर्करालेपो नवमं पटयोजनम्।
भूषणं दशमं प्रोक्तं एकदशमतः परम्।। 14.65 ।।
शूक्लालेपनमुद्दिष्टं द्वादशं वर्णयोजनम्।
द्वादशैते च निर्दिष्टाः प्रतिमाकरणेऽब्जज।। 14.66 ।।
- लेपशोषणावधिः*
कालेन (21) वर्षमात्रेण वस्तु शुष्यति नान्यथा।
- विध्यनुसारशुष्कमूर्तेरायः*
सहस्रं (22) वत्सरान् याति मासैर्द्वादशभिः कृतैः।। 14.67 ।।
(21. मासमात्रेण वस्तु शुध्यति.)(22. वत्सरं याति.)
द्वाभ्यामयुतमायुत्स्यात्त्रिभिर्लक्षं प्रतिष्ठितम्।
हेम्नैव पोषणं सर्वं वर्णानां दीप्तिकारकम्।। 14.68 ।।
आलेख्ये (23) च पटे भित्तौ लिखिते फलकेपि च।
वर्ण योगस्समुद्दिष्टो द्रव्योत्पत्तिस्तथेव च।। 14.67 ।।
- युगभेदेनर्ती नांवर्णभेदः*
मूर्तीनां युगभेदेन वर्णभेदो विधीयते।
कृते वळर्क्षस्रैतायामरुणो द्वापरे पुनः।। 14.68 ।।
पीतः कलौ घनश्यामः वासुदेवः वरः पुमान्।
रक्तस्सङ्कर्षणो देवः प्रद्युम्नः कनकप्रभः।। 14.69 ।।
श्यामो निरुद्धः कथितः कृतादिषु चतुर्ष्वपि।
- द्वादशमूर्तिवर्णाः*
केशवः कनकप्रख्यस्स्या दर्जुनसमाकृतिः।। 14.70 ।।
नारायणश्श्यामवर्णो माधवस्स्फटिकप्रभः।
गोविन्दः पद्मकिंजल्कनिभो विष्णुरुदाहृतः।। 14.71 ।।
अरुणाम्बुजसङ्काशो मधुसूदन उच्यते।
त्रिवक्रमश्शिखिनिभो वामनो भालसूर्यवत्।। 14.72 ।।
श्रीधर (24) स्सितपद्माभो हृषीकेशस्तटित्प्रभः।
पद्मनाभश्श्यामवर्णो बन्धूककुसुमच्छविः।। 14.73 ।।
(24.पीतपद्माभः)
दामोदरो द्वादशै ते कथिताः केशवादयः।
- चतुर्विंशतिमूर्तिवर्णाः*
वासुदेवादिमूर्तीनां यो वर्णः पूर्वमीरितः।। 14.74 ।।
स एव वासुदेवादिचतुर्णां तद्भुवाम पि।
शुद्धस्पटिकसङ्काशो विज्ञेयः पुरुषोत्तमः।। 14.75 ।।
अधोक्षजश्श्यामवर्णो नृसिंहो हेमसन्निभः।
पीतवर्णोऽच्युतोतीव रक्तवर्णोजनार्दनः।। 14.76 ।।
उपेन्द्रश्श्यामलः प्रोक्तो हरिः पीतनिभः स्मृतः।
कृष्णः कृष्णाम्बुदप्रख्यश्चतुर्विंशतिमूर्तियः।। 14.77 ।।
- श्रियादिदेवीनां वर्णाः*
सुवर्ण (25) निकषाभा श्रीश्श्यामा भूरर्जुनच्छविः।
सरस्वती तिता रक्ता प्रितिश्श्यमनिभा (26) कृतिः।। 14.78 ।।
(25.निभशोभा) (26. रतिः)
कीर्ती रक्ता भवेच्छान्तिस्स्फटिकाभा समीरिता।
तुष्टिः पीता भवेत्पुष्टिश्श्यामा (27) देव्यस्म्सृता स्तुता।। 14.79 ।।
(27.देवस्य सम्मता.)
- मत्स्यादिमूर्तीनांवर्णाः*
मत्स्यस्स्फटिकसङ्काशः कूर्मः काञ्चनसन्निभः।
वराहश्शामलनिभो वलर्क्षकृतिरेव वा।। 14.80 ।।
नृसिंहश्चन्द्रवर्णाभः प्रह्लादः काञ्चनप्रभः।
वावनश्श्या मलनिभः कालवर्णो महाबलिः।। 14.81 ।।
जामदग्न्यस्सुवर्णाभः राघवश्श्यामलाकृतिः।
भरतश्श्यामलो वर्णो लक्ष्मणः कनकप्रभः।। 14.82 ।।
शत्रुघ्नो रक्तवर्णाभस्सीता हेमनिभाकृतिः।
माण्डवीरक्तवर्णाभ ऊर्मीला श्यामलप्रभाः।। 14.83 ।।
श्रुतकीर्तिस्सिताङ्गी च हनूमान् कनकप्रभः।
अङ्गदो रक्तवर्णाभस्सुग्रीवो हेमपिह्गलः।। 14.84 ।।
गुहश्च निलवर्णाभः कालवर्णो विभीषणः।
नीलो नीलनिभः प्रोक्तो जाम्भवन् कनकप्रभः।। 14.85 ।।
बलः क्षीरनिभश्चैवरक्तवर्णा च रेवती।
मेघश्यामो भवेत्कृष्टो रुक्मिणी कनकप्रभाः।। 14.86 ।।
सत्यभामा भवेत् श्यामा कल्की रक्तनिभः स्मृतः।
- अनंतगरुडादीनांवर्णाः*
अनन्तः क्षीरसङ्कशः यद्वा हेमसमाकृतिः।। 14.87 ।।
गरुडः कनकप्रख्यो ब्रह्मा कनकसन्निभः।
विष्णु श्श्यामनिभः प्रोक्तः रुद्रश्शोणितसन्निभः।। 14.88 ।।
हयग्रीवो वलर्क्षस्स्यात्सेनानी श्श्यामलाकृतिः।
रक्तवर्णो भवेच्चण्डः प्रचण्डश्श्वेत (28) सन्निभः।। 14.89 ।।
(28.वर्णकः)
जयः पीतस्ततश्श्यामो विजयः पद्मसन्निभः।
पद्मी गदाधारो हेमः कृष्मः खड्गधरो भवेत्।। 14.90 ।।
शार्ङ्गधारी हेमनिभश्श्वतो वज्रधरो (29) मतः।
श्यामो मुसलधारी स्यात्पाशधृक्कनकप्रभः।। 14.91 ।।
(29.भवेत्.)
कृष्णोऽङ्कुशधरो धाता रक्तपीतवपुर्धरः।
विधाता धवलो भद्रस्सुभद्रो ह्यारुणच्छवि।। 14.92 ।।
कृतान्तश्श्यामलो रक्तस्सुरविध्यंसनः स्मृतः।
कुभेराक्षो भवेत्पीतः कुभेरो रक्त (30) देहभृत्।। 14.93 ।।
(30.वर्णभृत्.)
दुर्जयः कृष्णवर्णाभः (31) प्रभवश्श्वेतसन्निभः।
स्याद्विश्वभाननो रक्तः पुष्करश्श्वेतदेहभृत्।। 14.94 ।।
(31. प्रबलः)
सम्भवश्श्यामलः प्रोक्तः प्रभवो रक्तसन्निभः।
सुशोभनो भवेत् श्यामस्सुभद्र(32) श्श्याम वर्णभक्।। 14.95 ।।
(32. श्वेतवर्णं)
कुमुदश्श्वेतवर्णाभः कुमुदाक्षोग्निसन्निभः।
पुण्डरीकस्तितः प्रोक्तः वामनश्श्यामलाकृतिः।। 14.96 ।।
रक्तो भवेत् शङ्कुकर्णस्सर्वनेत्रोऽसितप्रभः।
सुमुखश्श्यामलः प्रोक्तः रक्ताभस्सुप्रतिष्ठितः।। 14.97 ।।
रक्तस्सूर्यस्सितश्चन्द्रो भोमो रक्तस्सितो बुधः।
बृहस्पतिस्सुवर्णा भश्शुक्रश्शुक्लश्शनैश्चरः।। 14.98 ।।
कृष्णस्ताम्रस्तथा राहुः केतुः कुष्ण उदाहृतः।
कामो रक्तस्सितो हस्तिवक्त्रो रक्तष्षडाननः।। 14.99 ।।
दुर्गा श्यमा सुवर्णाभः धनदः क्षेत्रपालकः।
नीलो ब्राह्मी सुवर्णाभा रक्ता माहेश्वरी भवेत्।। 14.100 ।।
कौमारी रक्त (33) वर्णाभा वैष्णवी श्यामलप्रभा।
वाराही श्यामवर्णभा (34) इन्द्राणी श्यामला कृतिः।। 14.101 ।।
(33. वर्णास्यात्.) (34.मानोन्द्रि.)
चामुण्डा रक्तवर्णाभा वीरभद्रो ऽरुणद्युतिः।
ज्येष्ठा नीला भवेदिन्द्रश्श्यामोऽग्निररुण (35) प्रभः।। 14.102 ।।
(35.स्स्मृतः )
यमः कालो धनिरृतिर्नीलस्श्यामः प्रचेतनः।
वायुर्धूम्रस्सीत (36) श्चेन्दुः रक्तो रुद्र उदाहृतः।। 14.103 ।।
(36.कृतिः)
पुरुषश्श्यामलो हेमद्युतिस्स्यादच्युतस्स्मृतः।
- वसूणांवर्णासङ्ग्रहः*
सितो रक्तस्तथा पीतश्श्यामो (37) रक्तस्सितप्रभः।। 14.104 ।।
(37. रक्तासित)
बभ्रुः पीतो धरादीनां वसूनां वर्णसङ्ग्रहः।
- पितॄणांवर्णसङ्ग्रहः*
रक्तश्श्येतः (38) प्रभा पीतश्श्यामश्श्येतो रुणप्रभः।। 14.105 ।।
(38.श्वेतप्रभापि ता श्यामश्श्वेतो रुणद्युतिः)
बभ्रुः पितॄणां वर्र्णोऽयं क्रमेण समुदाहृतः।
- मरुतांवर्णसंग्रहः*
धूम्रो रक्तस्तधा पीतश्श्यामश्श्वेतोऽ(39) रुणोऽसितः।। 14.106 ।।
(39.सितोऽरुणः)
वर्णोऽयं मरुतामुक्तस्सप्तानामानुपूर्वशः।
- ऋशीणांवर्णसंग्रहः*
कनकश्श्यामलः पीतः कृष्णो चरक्तस्सितोऽसितः।। 14.107 ।।
वर्णः क्रमेण सप्तानामृषीणां समुदाहृतः।
रक्तः पीतस्सितश्श्यामो रक्तपितस्सि (40) ता सितः।। 14.108 ।।
(40.तद्युतिः)
विश्वादिपरिवाराणां वर्णानुक्रमणं कृतम्।
- अप्सरसांवर्णसङ्ग्रहः*
श्वेताभा कनकाभा च श्यामा च कनकप्रभा।। 14.109 ।।
रक्ता कृष्णा च पीता च रूपमप्सरसां (41) मतम्।
- आदित्यासंवर्णाः*
रक्तः पीतोऽरुणश्श्यामश्श्वेतो बभ्रुश्च कर्बुरः।। 14.110 ।।
(41. सामिदम्.)
(42) वर्णतो हरितश्श्वेत (43) शोणः कुन्दनिभस्तथा।
आदित्यानामयं वर्णो द्वादसानां क्रमात् स्मृतः।। 14.111 ।।
(42.वर्णको) (43.श्श्वेतः)
- रुद्राणांवर्णाः *
शोणश्च हरितो नील श्वेतश्श्यामलदीधितिः।
पीतः कालस्तता बभ्रुः (44) वर्णकः पाटलोऽसितः।। 14.112 ।।
(44.शबला पाटलासिताः)
एकदशानां रुद्राणां वर्णोऽयं (45) समुदीरितः।
- अश्विनोर्वर्ण*
अश्विनौ चारुणौ पीतौ मार्कण्डेयस्तथा भवेत्।। 14.113 ।।
(45. समुदाहृतः.)
- नारदभृग्वादीनांवर्णाः*
नारदस्स्फटिकः पीतो भृगुर्दक्षस्तथासितः।
रक्तो मनुस्सनन्दश्च श्यामलः कनकस्तथा।। 14.114 ।।
(46) पीतस्सवत्कुमारश्च रक्तो हाहा च पीतलः।
हूहूरक्तस्तथा श्यामः मुम्भरुः किन्नरश्शुकः।। 14.115 ।।
(46.सितस्सनत्कुनुर.)
रक्तः किंपुरुषश्श्यामश्चित्रसेन स्तथा भवेत्।
पीतो विश्वावसुः प्रोक्तो मधुश्च (47) मधुवर्णकः।। 14.116 ।।
(47.सितवर्णकः)
कैटभश्श्यमलः प्रोक्तो वर्णोनुक्तोऽवगम्यताम्।
इति श्रि पाञ्चरात्रे महपनिषदि पाद्मसंहितायां
क्रियपदे देवतारर्णविधिर्नाम
चतुर्दशोऽध्यायः
************---------------