क्रियापादः/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ क्रियापादः
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
त्रयोदशोऽध्यायः
श्रीभगवान्----

  • शूलस्थापनविधिः*

अथातत्संप्रवक्ष्यामि शूलस्य स्थापनाविधिम्।

  • सजातीयविजातीय शूलाकारप्रमाणादिविधिः*

स्थिराणि चन्दनादीनि दारूणि घनवन्ति च।। 13.1 ।।
अधिवास्य यथापूर्वं गृयाह्णीद्देशिकोत्तमः।
(1) वृक्षजातीयया व्यक्त्या शूलं यद्येकया भवेत्।। 13.2 ।।
(1.वृक्षजातिर्यथा प्रोक्ता.)
उत्तमं तद्विजानीयात् (2) पर्वभिर्यदि मध्यमम्।
नानाजातीयया तच्छेदधमं कमलासन।। 13.3 ।।
(2.बह्वीभि)
शिल्पिभिस्तक्षयित्वा तु असारं व्यवनीय तु।
सारेण कारयेच्छूलं प्रामाणं तस्य कथ्य ते।। 13.4 ।।
अङ्गुलीनां चतुर्विंशच्छतं कौतुकमुन्न तम्।
द्व्यधिका षष्टिरायामो वंशदण्‍डस्य कथ्य ते।। 13.5 ।।
तस्य मूलाग्रमध्यानि विस्तीर्णानि यथाक्रमम्।
तस्यार्यङ्गुलमानानि सार्धानि त्रीणि तानि च।। 13.6 ।।
यवाष्षट्च तथा नाहष्षोदशाङ्गुलसमितः।
मूलस्य स्यात्तथा मध्ये नाहः पञ्चदशाङ्गुलः।। 13.7 ।।
चतुर्दशाङ्गुलो नहस्तदग्रे कमलासन।
वक्षोदण्डश्चतुस्त्रिंशदङ्गुलस्यत्समायतः।। 13.8 ।।
चतुरङ्गुलविस्तारष्षोदशाङ्गुलमानतः।
द्विशिखं त्रिशिखं वापि शिखा किंशुककुट्मलः।। 13.9 ।।
आयामो बाहुदण्डस्य पञ्चविंशाङ्गुलो भवेत्।
सार्धं त्यङ्गुलकं मूलं विस्तीर्णं तस्य मध्यमम्।। 13.10 ।।
द्व्यंगुलं त्र्यंगुलं सर्धमग्रं तस्य चतुर्मुख।
प्रकोष्ठमायतं विंशत्यंगुलं द्वियवाधिकम्।। 13.11 ।।
मूलमध्याग्रविस्तारः द्व्यंगुलस्त्र्यंगुलोऽपि वा।
सार्धस्तथांगुलानि स्युस्त्रीणि विद्याद्यथाक्रमम्।। 13.12 ।।
सुषिरं बाहुमूलं स्यादग्रं बाहुप्रकोष्ठयोः।
विथुनं कल्पनीयं स्यान्नी चबाहुरपीदृशः।। 13.13 ।।
आयामः कल्पदण्डस्य षोदशांगुलसम्मितः।
विस्तारस्तस्य मद्ये स्याच्चतुरंगुलसंमितः।। 13.14 ।।
षोडशांगुलनाहश्च तस्य मध्यः प्रकीर्तितः
आयामः पार्श्पदण्डस्य कार्यो द्वात्त्रिंशदंगुलः।। 13.15 ।।
पार्श्वदण्डपरीणाहश्चतुरङ्गुलसंमितः।
द्विशिखश्च कटीदण्डो वक्षोदण्‍डो नियोगतः।। 13.16 ।।
दण्डयोः पार्श्वयोस्सम्यगूर्ध्वदण्डस्य चायतिः।
(3)एकविंशांगुलो दण्डो जङ्घादण्डसमो भवेत्।। 13.17 ।।
 (3.सप्तविशांगुलासैन.)
मध्याग्रमूलविस्तारः क्रमेण परिपठ्यते।
त्र्यंगुलोऽर्धाधिकस्सार्धो द्व्यंगुलश्चतुरंगुलः।। 13.18 ।।
जङ्घायास्त्र्यंगुलं मूलं सार्धद्व्यंगुलमन्तरम्।
अर्धं च द्व्यगुलं तत्र त्रिगुणं सहनं मतम्।। 13.19 ।।
ऊरुमूलं च सुषिरं द्व्यंगुलं षड्यवाधिकम्।
ऊरुजङ्घाग्रयोरन्ते मिथुनं परिकल्पयेत्।। 13.20 ।।
वंशदण्डमुरः कट्याः मध्ये निम्ने निवेशयेत्।
शूलप्रमाणमुदितं शूलसङ्ख्याधुनोच्यते।। 13.21 ।।

  • शूलानांशङ्या*

वंशदण्डः कटीदण्डो वक्षोदण्डस्तथैव च।
(4) बाहुदण्डाश्च चत्वारः प्रकोष्ठेन तथा विधः।। 13.22 ।।
(4.पार्श्व)
जङ्घादण्डश्च इत्येते शूलदण्डास्त्रयोदश।
श्लेषयेत्तद्यथायेगं सुषिरं नैवकारयेत्।। 13.23 ।।
न च कीलं विधतव्यं शिल्पिभिश्शूलकर्मणि।
वंशदण्डं किरीटान्तं मूर्धान्तं वा प्रचक्षते।। 13.24 ।।
पादान्तं वा यथास्थैर्यं तथा कुर्याद्विलक्षणः।
लोहपट्टेन सनीनां बन्धनं दृढमाचरेत्।। 13.25 ।।

  • शूलदण्डस्यलोहादिभेदः *

लोहजाश्शूलदल्‍डास्युरथवा विभवे सति।
वंशमूलं चतुष्कोणमष्टाश्रं मध्यमिष्यते।। 13.26 ।।
अग्रं मुवृत्तं शूलानि वृत्तान्यन्यानि वा व्यथा।
(5) वंशदण्‍डजमानस्य गनादर्वागृजुर्भवेत्।। 13.27 ।।
(5. वंशदण्डं दधासस्य, वंशदण्डं तथा नास्य)
उपरिष्टाद्यथायोगं किञ्चिद्भुग्नं चतुर्मुख।
प्रतिमानां यथाभागं वंशदण्डस्थितिर्भवेत्।। 13.28 ।।
वक्षोदण्डः कटीदण्डः किञ्चिद्भुग्नशिखो भवेत्।
भुजोरुदण्डयोर्मूलं निम्नं कृत्या यथा शिखम्।। 13.29 ।।
मुखं सार्थं किरीटस्य शूलद्विगुणमेव वा।।
(6) मौलिमूलस्य विस्तारस्त्र्यङ्गुलं वा यवत्रयम्।। 13.30 ।।
(6. शूलमूलस्यविस्तारस्त्र्यङ्गुलं च चतुर्यवम्। त्र्यंगुलं मध्य हाग्रं तु सार्थ.)
त्रियवं त्र्यंगुलं मध्यं सार्धत्र्यंगुलसम्मितम्।
बाह्वन्तमूलबेरस्य देवीनां शयने सति।। 13.31 ।।
शूलमन्यत्र यानादौ नासिकान्तमथापि वा।
चिबुकान्तं यथोच्च्रायं ब्रह्मणश्शयने सति।। 13.32 ।।
शूलं जान्वन्तमन्यत्र बहुसीमान्तमिष्यते।
भृग्वादिपरिवाराणां बाहुसीमान्तमुच्यते।। 13.33 ।।

  • शूलानांजलाधिवासादि*

जलाधिवासनं चैव स्थापनं मण्डपे तथा।
होमं कुम्भार्चनं द्वारपूजा ब्राह्मणतर्पणम्।। 13.34 ।।
शुद्धिश्च शोष णादीनि शूलानां बिम्बवत् स्मृतम्।
न दिवा पिण्डिकां रात्रौ अधिवास्य समाहितः।। 13.35 ।।
श्वोभूते वास्तुना होमं दद्याद्वास्तुबलिं तथा।

  • गर्भगेहशोधनम्*

शोधयेर्गर्भगेहं च मार्जनालेपनादिभिः।। 13.36 ।।
सूत्रं चन्दनतो योन सिक्तमास्फालयेत्क्रमात्।
सूत्राण्युदङ्गुखान्यस्टौ प्राङ्गुखानि तथैव च।। 13.37 ।।
कोष्ठान्येकोनपञ्चाशन्न्यूनाधिकविवर्जिताः।

  • बाह्मणादिसंज्ञकभगविधिः *

ब्राह्मणो मध्यमो भागः दैविकस्तु तदन्तरः।। 13.38 ।।
त्रतीये मानुषस्तुर्यः पै शाचो भाग इष्यते।
अर्चनापीठिका ब्राह्मे भागे धैवे स्थितिर्भवेत्।। 13.39 ।।
मानुषे परिवारास्स्युरायुधानि चतुर्थके।
किञ्चिन्मानुषमाश्रित्य दैवे स्यादासनं भवेत्।। 13.40 ।।
दिव्यमानुषयेश्शय्या पै शाचे यानमिष्यते।

&दैवे देव्यस्थ्सिता वास्त्युरासने तस्य पार्श्वतः।। 13.42 ।।
शयने ऽपि यथायोगं यानारूढेऽपि वै तथा।

  • सूत्राणामुङ्मुखता*

उदङ्मुखानि सूत्राणि दश तावन्निपातयेत्।। 13. 43 ।।
पाङ्मुखान्यपि कोष्ठानामेकाशीतिर्भवेत्ततः।।
मध्यमो ब्रह्मणो भागः दैवस्स्यात्तदनन्तरः।। 13.44 ।।
तृतीयः पैतृकस्तुर्यो मानुषः पञ्चमः पुनः।
पैशाच इति वा भागान् कल्पयेद्गर्भमन्दिरे।। 13.45 ।।

  • एकबेर बहुबरादीनां ब्राह्मादिभागभेदः*

एकबेरविधिर्ब्राह्मे बहुभेरं तु दैविके।
दैवे च मानुषे भागे द्वयोरासनमिष्यते।। 13.46 ।।
दैवमानुषपित्य्रेषु शयनं त्रिषु कारयेत्।
पैशाचे मानुषे चैव द्वयोर्यानं विधीयते।। 13.47 ।।

  • उक्तस्थानविपर्यासे अनिष्टफलं*

उक्तस्थानविपर्यासे राजा राष्ट्रं च नश्यति।
तस्माद्यथोक्तभेगे स्युस्थ्साप्या ऋद्धिमभीप्पुभिः।। 13.48 ।।

  • कामनानुगुणं स्थापनाभूमिः*

(7) चतस्रः स्थापनाभूमि कृत्वा (8) मध्ये पदे पुनः।
मुक्तिकामोऽर्चयेद्धेवं पदे तु तदनन्तरे।। 13.49 ।।
(7. चतस्रः इत्यादिश्ळोकद्वयं क्वचिन्नदृश्यते.)(8.धातुः)
दिव्ये भोगाभिलाषश्चेत्सन्नानार्धी तु मानुषे।
पश्वादिकामः पै शाचे पदेष्वेवं यथाक्रमम्।। 13.50 ।।

  • प्रासादद्वारविस्तारमानम्.*

प्रासादद्वारविस्तारं त्रिभागीकृत्य मध्यमम्।
भागं तु सप्तधा कृत्वा पञ्चभागांस्तु दक्षिणे।। 13.51 ।।
अपोह्यानन्तरे भागे ब्राह्मे सूत्रमुदाहृतम्।

  • ब्राह्मभागेभित्तिस्तं भादिनिषेदः *

न कुर्याद्ब्रह्मणस्सूत्रे भित्तस्तंभादिकं सुदीः।। 13.52 ।।
आज्ञानाद्यदि कुर्वीत प्रत्यवायो महान् भवेत्।
एकभेरं भवेत्तत्र ब्रह्मसूत्रे शिलामयम्।। 13.53 ।।
रत्नलोह शिलाकाष्ठमृद्भिस्तद्वा त्रिवस्तुभिः।
बहुबेरं भवेदर्दचित्रं साभासमिष्यते।। 13.54 ।।
स्थितासीनशयानानां द्रव्यैरत्नादिभिर्भवेत्।
निर्माणं सर्वमुर्तीनां ऋद्धिकृन्नैव दोषकृते।। 13.54 ।।

  • गर्भगेहेखातेगर्भन्यासविधिः *

गर्भगेहे ततो भागे यथोक्तधरणीं खनेत्।
हस्तमात्रेण तत्त्रेव नपुंसकशिलां क्षिपेत्।। 13.55 ।।
शिलायां तत्र रत्नानि लोहैर्भीजैश्च धातुभिः।
सह वा तैर्वना वापि निक्षिपेच्चोदितः क्रमात्।। 13.56 ।।
पिधाय योषिच्छिलया दृढं कुर्यात्सुधादिभिः।
मञ्जूषां लोहजां कृत्वा यद्वा रत्नानि निक्षिपेत्।। 13.57 ।।
रत्नन्यासस्थितस्सैषः पादमूले विधीयते।
अन्येषां पृष्ठतः कुर्याद्रत्नन्यासं विचक्षणः।। 13.58 ।।

  • पादपीठस्याकारभेदः*

वृत्तं वा चतुरश्रं वा पादपीठं तु तद्भवेत्।
प्रतिमायां शिलामय्यां शिलायां च स्थितिर्भवेत्।। 13.60 ।।
स्थाने पादशिलायां च शूलार्धं सुषिरद्वयम्।
इष्टकाभिस्तथा कुर्यात्पीठिकां च शिलोपरि।। 13.61 ।।
उत्सेधश्चापि चायामो भूमिभागप्रमाणतः।
द्वारष्टभागमथवा पादाष्टकमथापि वा।। 13.62 ।।
प्रतिमाष्टांशमथवा पादफीठप्रमाणकम्।
वृत्तं वा चतुरश्रं वा पादपीठं यथाभवेत्।। 13.63 ।।
वृतै च चतुरश्रे च पद्मं चोपरि कल्पयेत्।
स्थानकेषु विधिर्ह्येष आसीने द्विगुणं भवेत्।। 13.64 ।।
शयने तावदुत्सेधं प्रतिमायामसम्मितम्।
पद्मादिपीठमथवा देहलब्धाङ्गुलैः पुनः।। 13.65 ।।
कुर्याद्द्वादशभिः प्रांशुं विस्तीर्णं द्विगुणाङ्गुलैः।
पञ्चविंशद्दलयुतं यद्वा षोडश (9) भिर्युतम्।। 13.66 ।।
(9.बर्हकम्)
दलैर्द्वादशभिर्यद्वा युक्तमष्टभिरेव वा।
अङ्घ्रिमानवशेनैव दलानां द्राघिमा भवेत्।। 13.67 ।।
ऊर्ध्वच्छदमुयुक्तं(?) ततोऽल्पदलसंयुतम्।
मध्ये कर्णिकया युक्तं किञ्चित्फुल्लाम्बुबजाकुतिम्।। 13.68 ।।
दिव्ये भागेस्थितस्यैष (10) विष्टरस्समुदीरितः।

  • एकबेरादिभेदेन वेदि कामानम्*

एकबेरे तदायामं त्रिधा कृत्यैकभागिकाम्।। 13.69 ।।
(10.विस्तारः)
वेदिं कुर्याच्चतुर्था वा तुर्यां शेन प्रकल्पयेत्।
उत्सेधोऽयं स्नानवेदेर्वृत्ता वृत्तायता तुवा।। 13.70 ।।
चतुरशायता वापि ष़डशाष्टाश्रिकापि वा।
(11) उपानकटिसंयुक्ता कर्तव्या द्वादशांगुला।। 13.71 ।।
(11. उपनदादि.)
आयतं नालमेतस्य चतुर्भिरथवाङ्गुलैः।
विंशत्या चायतं तस्य मुखं मकरवक्त्रवत्।। 13.72 ।।
किञ्चिन्निम्नं य थातस्मान्नालं तिर्यगथोस्थितम्।
उपरिष्टाच्च तद्वेदेर्वलयं च तुरङ्गुलम्।। 13.73 ।।
उन्नतं कारयेत्तावद्विस्तारं कमलासन।
वेदिकानुगुणं यद्वा पद्ममेवाखिलं भवेत्।। 13.74 ।।

  • देवमुखादिभेदेन जलप्रणालीभेदः*

प्रत्यङ्मुखस्य देवस्य प्राङ्मुखस्य तथा भवेत्।
प्रणाल्युदङ्मुखा कार्यादक्षिणेदङ्मुखस्य तु।। 13.75 ।।
प्रणाली प्राङ्मखा कार्या नान्यत्र विधिरिष्यते।

  • दाराकुल्याविधिः*

धारारुल्या च कर्तव्या (12) यावच्छिद्रं(13) बहिस्थितम्।। 13.76 ।।
(12. उपानदादि.)(13. यद्वाश्वभ्रं)
हस्तिहस्तादिभिश्श्वभ्रे जलधारां निपातयेत्।
वृत्तं वा चतुरश्रं वा श्वभ्रं कुर्याच्छिलादिभिः।। 13.77 ।।
मनोहरमगाधं च बहि स्तद्धेवतालयात्।

  • आसीनमूर्तिविधिः*

आसीनस्याभिधास्यामि प्रमाणं सिंहविष्टरे।। 13.78 ।।
देहलब्धंगुलैष्षड्भिरुत्सेधं त्रिंशतापि च।
द्विगुणै रायतं तस्य सिंहैरष्टाभिरासनम्।। 13.79 ।।
ध्रियमाणं चतुर्भिर्वा तेषां वक्त्राणि संहिनत्।
शिष्टं वपुः पुरुषवच्चतुर्भर्बहुभिर्युतम्।। 13.80 ।।
बिभ्राणौ विष्टरं द्वाभ्यां द्वाभ्यांबध्वा जलं हृदि।
रत्नैः परिष्कृतं पीठं सिंहैर्वा केवलै र्युतम्।। 13.81 ।।
गजाङ्घ्रिभिर्वा तद्युक्तं कुर्यान्नैवान्यथा विधिः।

  • भोगशय्याविधिः*

भोगशय्याशयानस्य वक्ष्यामि कमलासन।। 13.82 ।।
वृत्तायतं यथायोगं तथा त्रिर्मण्डलीकृतम्।
प्रादक्षिण्येन वलयैः पञ्चभिर्वाध सप्तभिः।। 13.83 ।।
देहाङ्गलैश्चतुस्तालमुत्सेधं भेगमण्डलम्।
मध्यतः पादतः प्रोक्तं मूर्धन्यधिकमंगुलैः।। 13.84 ।।
त्रिभिर्दिगुणितैर्यद्वा वलयास्ते यथोदिताः।
पश्चात्प्रभृति चैकैकं किञ्चित्किञ्चित्समुन्नतम्।। 13.85 ।।
फणैरयुग्मैर्नवभिस्सप्तभिर्वाथ पंचभिः।
उपेतमुत्तमं मध्यमधमं संप्रचक्षते।। 13.86 ।।
त्रितालमुन्नतं षड्भिरंगुलै र्मध्यमं फणम्।
अष्टांगुलं फणानां स्युरन्तरालं फणास्तु ते।। 13.87 ।।
निम्नाः क्रमेण कर्तव्याः न्यूनाः पञ्चचतुस्त्रीभिः।
अंगुलैः क्रमशस्तेषां वास्तारो मध्यमः फणाः।। 13.88 ।।
द्वात्रिंशदंगुला स्तस्य फणाः पार्श्वे चतुर्मुख।
विंशत्पं च चतुर्भिश्च विस्तीर्णं द्व्यंगुलैरपि।। 13.89 ।।
विंशत्यंगुलविस्तारौ शेषौ द्वौ फणिनः पणौ।
इतरेष्वपि सर्वेषु हानिरूह्या यथाक्रमम्।। 13.90 ।।
बिदालवक्त्रवद्वक्त्रं दंष्ट्रया परिशोभितम्।
मीर्ध्निन्यस्तमहारत्नं तीक्ष्णशृङ्गसमन्वितम्।। 13.91 ।।
शनैश्शनैरधो वक्तं यावन्मौल्यग्रमानकम्।
सर्पकण्ठात्फणोत्सेधं चतुस्तालं दशांगुलम्।। 13.92 ।।
अथवा शयनोत्सेधं दादुशं संप्रचक्षते।
कोतुकद्वारचरणसमुत्सेधे त्रिधा कृते।। 13.93 ।।
एकां शेन समुत्सेधं भोगमण्डलमिष्यते।
चतुर्थां शेन वा कुर्याध्भेगिनो भोगमण्डलम्।। 13.94 ।।
भोगपनसमुत्सेधो भोगशय्यावदिष्यते।
सुवृत्तं देवदेवस्य वृष्ठभेगे समुन्नतम्।। 13.95 ।।
फणानां मण्डलं यद्वच्छत्रं तद्वच्च शोभनम्।
देवस्य यौलेरुपरि विंशत्यंगुलमुन्नतम्।। 13.96 ।।
चतुरश्रायतं पीठमथवा शयनंभवेत्।।
प्रागुक्तैश्चरणै र्यक्तं उपधानादिसंमितम्।। 13.97 ।।
आसनं पद्ममात्रंतु विश्वमूर्तेर्विधीयते।

  • यानासनमूर्तनिरूपणम्*

याने गरुत्मतोऽधन्तात्पद्ममासनमिष्यते।
तस्मिन्विदध्यात्पक्षीन्द्रं देवयामार्धसंयुतम्।। 13.98 ।।
बृहद्भुजं गरुत्मन्तमारुह्य स्थितमच्युतं।
कुर्याद्देवं स्थितादीनामासनानि प्रकल्पयेत्।। 13.99 ।।

  • अधिवासितशूलस्थापनविधिः*

ततो मूहूर्ते संप्रापै शोभने देशिकोत्तमः।
अधिवासितशूलानि ह्युद्धृत्याध्यर्युभिस्सह।। 13.100 ।।
धम प्रदक्षीणीकृत्य तूर्यघोषमुदीर्य च।
शूलानि स्थापयेच्छ्वभ्रे रत्नन्यासे यथोदिते।। 13.101 ।।

  • प्रतिष्ठापञ्चकविधिः*

स्थानास्थापने चैव तथासंस्थापनाऽपि च।
प्रस्थापना प्रतिष्ठा च प्रतिष्ठा पंचकं स्मृतम्।। 13.102 ।।
या प्रतिष्ठा भवेत् स्थाने स्थापना सा प्रकीर्तता।
या प्रतिष्ठासने प्रोक्ता सा चास्थापनसंज्ञिता।। 13.103 ।।
शयने या प्रतिष्ठा च सा च संस्थापना मता।
याने च या प्रतिष्ठा सा नाम्ना प्रस्थापना भवेत्।। 13.104 ।।
प्रतिमा याऽर्चना पीठे कर्मार्चेति प्रकीर्तिता।
तस्यां या च क्रिया प्रोक्ता साप्रतिष्ठेति कीर्तिता।। 13.105 ।।

  • परिमोष्ट्व्यादिभेद्रेन आनीनादिशूलस्थापनम्*

आचार्यस्थ्सापयेच्छूलं स्थानकं परमेष्ठिनः।
असीनंस्थापयेत्पुंसा विश्वेन शयितं तथा।। 13.106 ।।
सर्वेण विश्वरूपं तु निवृत्या यानकं भवेत्।
देवीशूलं तथा स्थाप्य रत्नन्यासोपरि क्रमात्।। 13.107 ।।
ब्रह्मादि देवतानां तु शूलान्यात्मीयविद्यया।

  • भित्तिशूलस्थानम्*

एवं संस्थाप्य शूलानि भित्तिशूलं विनिक्षिपेत्।। 13.108 ।।
ककुदे वृष्ठपार्श्वे तु स्थानकस्य समाचरेत्।
आसीनस्य तथा कृत्वा शयावस्योच्यतेऽधुना।। 13.109 ।।
शयानाधारशूले वै कुर्याधूर्ध्वमुखे स्थिते।
दिव्यमानुषयोर्मध्ये वंशदण्डं निधापयेत्।। 13.110 ।।
वृष्ठपार्श्वे तु ककुदे शयनाधारशूलकम्।
शयनाधार शूलेद्वे कुर्यादूर्ध्व मुखेस्थिते।। 13.111 ।।
दिव्यमानुषयोर्मध्ये शयिताधारशूलकम्।
आधारशूलं शयने स्थले कुर्याद्विचक्षणः।। 13.112 ।।
आधारशूलमन्येषां भित्तिसंस्थं च कारयेत्।

  • आधारशूलरहितेदेवस्यसान्निध्यातिशयः*

आधारशूलरहिते सर्वत्र स्थापने कृते।। 13.113 ।।
वरप्रधानं सान्निध्यमधिकं भवति ध्रुवम्।

  • महाकुम्भादिप्रोक्षणं*

महाकुम्भादि कुम्भानां वारिभिर्मूलविद्यया।। 13.114 ।।
प्रोक्षयेद्दर्भकूर्येन शूलानि स्थापितान्यथ।

  • गुरुदक्षिणा*

दक्षिणां गुरवेदद्याद्यथा तुष्टिर्भवेद्गुरोः।। 13.115 ।।
दश निष्कं सुवर्णं तु तस्यार्धं वा प्रदापयेत्।
ऋत्विजामपि सर्वेषां दशनिष्कं प्रदापयेत्।। 13.116 ।।
काले तस्मिन् समाहूय रथकारं द्विजोत्तमः।
प्रेषयोत्तोषयेच्चापि यजमानो धनैर्भृ शम्।। 13.117 ।।

  • कुलालनियोगः*

कुलालं कुशलं शान्तं व्याधिहीनमदूषितम्।
रथकारो नियुञ्जित शास्त्रोक्ते सर्वकर्मणि।। 13.118 ।।
तदभावे पारशवं यावन्नयनमोक्षणम्।
रथकारो क्तविधिना कुशलस्सर्वमाचरेत्।। 13.119 ।।

  • स्थापितशूलेद्धारेदोषः *

स्थापितं नोर्धरेच्छूलं समुद्धारे महद्भयम्।
कर्तुः कारयितुश्चापि भवत्येव स संशयः।। 13.120 ।।
अङ्गभेदेऽङ्गहानिस्स्याद्यजमानस्य निश्चितम्।

  • शूलस्थापनेशुभफलम्*

शूलस्थापनमात्रेण यजमानो महत्फलम्।। 13.121 ।।
अश्रुते मानुषान् दैवनथवा न समापितम्।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां।
क्रियापादे शूलस्थापनविधिर्नाम
त्रियोदशोऽध्यायः


**************--------------