क्रियापादः/अध्यायः १०
← अध्यायः ९ | क्रियापादः अध्यायः १० [[लेखकः :|]] |
अध्यायः ११ → |
पाद्मसंहितायाम्.
दशमोऽध्यायः
- परिवारदेवतास्थानादिकल्पनम्.*
श्रीभगवान्----
परिवारनिवेशार्थं शोभार्थं मन्दिरस्य च।
रक्षणार्थं च परितः प्राकारं परिकल्पयेत्।। 10.1 ।।
- अन्तर्मंडलादिप्राकारनिरूपणम्*
अन्तर्मण्डलनामानं प्राकारं प्रथमं विदुः।।
अन्तर्हारं (1) ततो वप्रं मध्याहारमनन्तरम्।। 10.2 ।।
(1.मनो।)
अनन्तरं च मर्यादा (2) महती नाम पञ्चकम्।
पञ्चैते चतुरश्रास्सुस्समुपेतखलूरिकाः।। 10.3 ।।
(2. महामर्या च पञ्चमम्.)
पञ्चभेदाश्च तन्त्रेषु (3) चन्द्रिकाभूमिरन्तिमा
एकास्तम्भावली कल्प्या द्वयी वा कमलासन।। 10.4 ।।
(3.पञ्चकाभिरतन्द्रितः)
उपानदादिपञ्चौङ्ग मधिष्ठानं प्रकल्पयेत्।
दण्डस्तदर्धं पादोसं तस्योत्सेधस्समीरितः।। 10.5 ।।
अधिष्ठाने कृते तस्मिंस्तम्भमाला विधीयते।
अन्तरालं महीमाहुर्धा मान्तर्मण्डलाख्यया।। 10.6 ।।
पञ्चहस्तां चतुर्हस्तं द्विहस्तां वा यथेच्चया।
आन्तरावरणस्यास्य पञ्चप्रासादगुम्भितः?।। 10.7 ।।
- सालान्तरालोच्छ्रययोर्मानम्.*
(4) विच्छिन्ने चान्त रेषां तु सालानामन्तरालभूः।
एकद्वित्रिचतुर्हस्तैः क्रमशे वर्धितो भवेत्।। 10.8 ।।
(4.पञ्चकं वेतरेषांतु.)
मन्दिरस्य महानासासमस्सालसमुच्छ्रयः।
ग्रीवग्रतुलितो वा स्यात्प्रतिसम्मित एव वा।। 10.9 ।।
उपरीठसमायुक्तो सालोदण्डस्त्रिरुच्छ्रयः।
चतुः पञ्च(5) द्विदण्डो वा सालानामुच्छ्रयं विदुः।। 10.10 ।।
(5. त्रिदण्डो)
- सालोपरिगरुडादिविधानम्.*
उपरिष्टाच्च सालानां सिंहो गरुड एव वा।
कल्पनीयः प्रयत्नेन ध्वजयष्टिस्समन्ततः।। 10.11 ।।
- अर्धमण्डपविधिः *
प्रासादाग्रे प्रकर्तव्य (6) स्त दङ्ग श्चार्धमण्डपः।
चतुर्धा धामनि कृते पादो वार्धमथापि वा।। 10.12 ।।
(6. स्तदर्ध.)
त्रिपाद्वा धाम तुल्यं वा (7) अध्यर्धं वा यथारुचि।
द्विगुणं वा चतुर्व क्त्रयद्वा (8) हर्म्यप्रमाणतः।। 10.13 ।।
(7.संध्यर्द्धं) (8. हस्त.)
एकहस्तं द्विहस्तं वा त्रिहस्तं वा समायतम्।
चतुर्हस्तं पञ्चहस्तं कारयेनर्धमण्डपम्।। 10.14 ।।
अन्तरालं तयोः कार्यां तालं यद्वा (9) करायतम्।
दण्डमध्यर्धमथ वा द्विगुणं वा विनापि वा।। 10.15 ।।
(9. करालयम्.)
- हीनेऽर्धमण्ठपेनिर्गमस्थलनिर्देशः*
(10) हीनेऽर्धे मण्डपे धाम्नि पार्श्वाभ्यां निर्गमः स्मृतः।
अग्रतः पृष्ठतश्चापि भवेतां पार्श्ववर्त्मनी।। 10.16 ।।
(10.हीनेर्धमण्टपे धाम्नः)
- सोपपीठस्यधाम्नः गोपुरचतुष्टयम्.*
चत्वारि गोपुराणि स्युर्धाम चेत्सोपपीठकम्।
(11) अग्रे तु मण्डपस्यार्धे विपुले वृत्तमण्डपः।। 10.17 ।।
(11. अग्रं तु मंडलस्यार्ध।)
समुच्छृतं प्रतिसममधिकं वा यथेच्छया।
- नृत्तमण्डपार्ध मण्डपयेरायाममानम्*
एकद्वित्रिचतुः पञ्चहस्तौ वृत्तार्धमण्डपौ।। 10.18 ।।
सान्तरालं समुद्धिष्टं पार्श्वाभ्यं (12) निर्गमः स्मृतः!
(12. धामनिर्गमः)
सोपानपङ्त्कयः कार्याः पार्श्व योरुभयोरपि।। 10.19 ।।
देवालयेषु युग्मास्स्यु ष्षडङ्गुलसमुच्छ्रयाः।
तावद्विस्तारयुक्ताश्चं (13) द्व्यङ्गुल वोभयं भवेत्।। 10.20 ।।
(13. द्विगुणं वोभयंर्हस्तस्व हस्तास्स्युः)
- सोपानपर्श्व योर्हस्तिरथाङ्गादिन्यासः*
सोपानपर्श्वयो (14) र्हस्तिहस्तं कुर्यात् स्थवीयसः।
यद्वा रथाङ्गं विर्वीत द्विरतं पार्श्ववाहिकम्।। 10.21 ।।
(14.हस्ति हस्तं वाथ स्थवीयसः)
- द्वारवातायनयोर्भित्तिबन्धनिषेधः*
द्वारं वातायनं वापि भित्तिबन्धं न जूतु चित्।
कुलक्षये विनाशश्च व्याधर्वा भित्तबन्धने।। 10.22 ।।
- वातायनास्तरालतालबंधनाङ्गलादि निरूपणम्*
यद्वार्धमण्डपादर्धं त्रिपादं पादमेव वा।
तत्तुल्यं वान्तरां तु (15) अन्तरालान्तरं भवेत्।। 10.23 ।।
(15. अन्तरालायतं)
विस्तारो ह्रासयेत्तस्य अस्तरालस्य पार्श्वयोः।
हस्तं तालं तदर्धं वा ह्रासयेत्पार्श्वयोरपिः।। 10.24 ।।
युग्मस्तम्भ (16) समो पेतं तालबन्धमथापि वा।
लाङ्गलं वा प्रकुर्वीत उभयं वा विना भवेत्।। 10.25 ।।
(16. द्वयो.)
चतुरश्रायतं वा स्याच्चतुर्द्वारं चतुर्दशम्।
वातायनं वा युग्मेतु न कुर्याद्भित्तिबन्धनम्।। 10.26 ।।
अन्तरावरणस्यान्त र्बहिर्वोभयतोपि वा।
- मण्टपायामविस्तारौ*
आयामो मण्डपस्य स्यादयुग्मं तु प्रमाणतः।। 10.27 ।।
आषोडशान्तं युग्मे स्यादधायुग्मे त्रयोदश।
मण्डपायाममुद्दिष्टं (17) हस्तैः कमलसम्भव।। 10.28 ।।
(17. विस्तारे कमलासन.)
यद्वा मूलालयसममर्धमण्डपसंमितम्।
तदर्धं पादमेवाथ यद्वालयसमं भवेत्।। 10.29 ।।
अध्यर्धं द्विगुणं वाथ सपादं वालयस्य च।
मण्टपायाममुद्दिष्टं विस्तारे कमलासन।। 10.30 ।।
मूलालयसमं वापि तालहस्तं च वाधिकम्।
उपानाद्यङ्गसंयुक्तं सर्वालङ्कारसंयुतम्।। 10.31 ।।
नानानाटकसंयुक्त मन्त स्तम्भविवर्जितम्।
उत्सेधं मण्टपस्याहुरर्धमण्टपसंमितम्।। 10.32 ।।
अधिकं वा तदुत्सेधं मण्टपस्य चतुर्मुख।
यद्वा प्राग्याम्यसोपनं पाश्वे तन्निर्गमो भवेत्।। 10.34 ।।
कल्पयेच्छिल्पशास्त्रज्ञो भित्तयः कोणभूमिषु।
स्थलबन्धं तदूर्ध्वे तु लाङ्गलं वा प्रकल्पयेत्।। 10.35 ।।
- कोणेषु गरुडसिंहयोर्न्यासविकल्पः*
कोणेषु गरुडं कुर्यात्सिंहिं वा कमलासन।
सभां वा तत्प्रकुर्वीत यथा वित्तानुसारतः।। 10.36 ।।
- प्राकारस्य चतुर्दिक्षु गोपुर चतुष्टयबन्धविकल्पः*
प्राकारस्य चतुर्दिक्षु गोपुराणि प्रकल्पयेत्।
धामाग्रवृष्ठयोर्वा स्यादग्रे चैकं प्रकल्पयेत्।। 10.37 ।।
- द्वितलादिधामनिरूपणम्*
तलैर्द्वादशभिर्युक्तमुत्तमं द्वितलादिषु।
मूर्धेष्टकां स्तूपिकां च पूर्ववत्कल्पयेत्क्रमात्।। 10.38 ।।
दिङ्मूर्तयः पूर्ववत्स्युः पूर्ववद्गरुडादिकम्।
- मण्डपस्य उत्तमादि मानभेद भित्तिबन्दौ *
प्राकारेषु च सर्वेषु (18) मण्डपास्युस्समन्ततः।। 10.39 ।।
(18.मण्टपस्य)
(19) षड्विंशतिधनुर्मानं मण्डपं चोत्तमं विदुः।
अष्टादशधनुर्मानं मण्डपं पध्यमं विदुः।। 10.40 ।।
(19.द्वाविशंति)
अधमं द्वादशधनुमण्डपं संप्रचक्षते।
पूर्वोक्तहस्तसङ्ख्यं वा कुर्यादास्थानमण्डपम्।। 10.41 ।।
उत्तमं दशभिर्हस्तैर्मध्यमं चाष्टहस्तकं।
षड्ढस्तमधमं विध्यात् क्षुद्रं हस्तत्रयायतम्।। 10.42 ।।
दक्षीणोत्तरतः पृष्ठे भित्तिं तस्य प्रकल्पयेत्।
स्तम्भाष्टकयुतं तत्र सोपानं परिकल्पयेत्।।10.43 ।।
दीर्घशालामधः कुर्या द्यूपाच्छादनसंयुताम्।
मण्टपाः प्राङ्मुखास्सर्वे सर्वावरणसंस्थिताः।। 10.44 ।।
आस्थानमण्टपान्सर्वान् प्रकुर्यात्सर्वतो मुखान्।
प्रासादारंभवत्सर्वं भूमि संशोधनादिकम्।। 10.45 ।।
कृत्वा हस्तिनखं चैव मण्टपं चैव कल्पयेत्।
- मण्टपगर्भन्यासप्रकारः *
गर्भन्यासस्तु कोणे स्यादग्रेर्मण्टपकर्मणि।। 10.46 ।।
गोपुरेक्रियमाणे तु दक्षिणस्यां दिशिस्मृतः।
- द्वारस्यकवाटमुग्मादि विन्यासः *
कवाटयुग्मं संस्थाप्य द्वारे द्वारे दृढंयथा।। 10.47 ।।
लोहजं दारुजं वापि विचित्रं तुरगादिभिः।
(20) उत्तराङ्गं शिलादारु वा हरेच्छिल्पिस्सह।। 10.48 ।।
(20."उत्तराङ्गम्---स्योपरिनिक्षि पेत्" इत्यन्तं क्वचिन्न.)
रथकृत्तक्षयित्वा तु सर्वेण क्षालयेद्द्रुतः।
पुण्याहं वाचयित्वाथ मुहोर्ते शोभने गुरुः।। 10.49 ।।
रथकृच्छिल्पिभिस्सार्थं द्वारस्योपरि निक्षिपेत्।
शाखाचतुष्कं कुर्वीत तथै वशिलयापि वा।। 10.50 ।।
शाखाकवाटौ प्रक्षाल्य पञ्चोपनिषदा जलैः।
नववस्त्रेण संवेष्ट्य धान्यराशिषु निक्षिपेत्।। 10.51 ।।
महाकुम्भार्चनं कुर्यात्पूर्ववच्छास्त्रचोदितम्।
कृत्वा प्रभाते विमले मुहोर्ते शोभने गुरुः।। 10.52 ।।
खाते लोहादि विन्यस्य (21) कारयेच्छिल्पिना सह।
पुण्याहं वाचयित्वा च प़ञ्चगव्यैर्विलेपयेत्।। 10.53 ।।
(21.स्थापयेत्.)
महाकुम्भजलै (22) र्देवान् न्यसेत्कूर्चेन तत् क्षणात्।
- कवाटोपरिकल्पनीयदेवताः*
अधश्शान्तिं दक्षिणतो वाग्देवीमुपरि श्रियम्।। 10.54 ।।
(22. देहान्.)
रतिमुत्तरतश्शास्वेवं चतसृषु क्रमात्।
कवाटे दक्षिणे स्थाप्यो विश्वधृग्भूतनायकः।। 10.55 ।।
कवाटे चोत्तरे स्थाप्यो विश्ववक्त्रः प्रातापवान्।
अवतारांश्च तत्र स्थान् प्रोक्षयेत्स्वस्य विद्यया।। 10.56 ।।
देवशास्त्रपुराणानि वेत्रेषु निवसन्तिच।
नाराचेषु त्रयस्त्रिंशद्देवाः कीलेषु चर्क्षयः।। 10.57 ।।
कवाटपट्टिकायां च भूतनाथः प्रतिष्ठितः।
कवाटनन्दपट्टे स्याते संस्थाप्यो विश्व (23) भावनः।। 10.58 ।।
(23.नायकः)
एवं कुम्भजले ध्यात्वा विन्यसेत्सर्वदेवताः।
आचार्यदक्षिणां दद्यात् निष्कसङ्ख्या तु पूर्ववत्।। 10.59 ।।
- कवाटस्य सौवर्णताविदिकल्पः *
सौवर्णो राजतस्ताम्रः कवाटो दारुजस्मृतः।
पूर्वः पूर्वः फलाय स्यात् भूयसे कल्पते नृणाम्।। 10.60 ।।
कवाटं दारजं स्वर्णैः रञ्जयन्पूह्यते सुरैः।
- स्तंभपोतिकादिविधानम्*
स्तम्भान् पादशिलास्वेव रत्नन्यासादि पूर्ववत्।। 10.61 ।।
न स्थाप्या ब्रह्मणस्थ्साने तेषामुपरि पोतिकाः।
कल्प्यास्ता (24) स्सूत्तरारोपो? वाजनादिसमन्विता।। 10.62 ।।
(24. स्सूत्रकारोपो.)
तुलामारोपयेत्पश्चात् बन्धयेच्चेष्टकादिभिः।
(25) तलबन्धं ततः कुर्यात् ब्रह्मन् वित्तानुसारतः।। 10.63 ।।
(25. स्थलबन्धमधः)
यूपच्छादवकं वापि कुर्याच्छास्त्रासुसारतः।
- दिग्भेदेनचण्डादिद्वारपालनिरूपणम्*
चण्डप्रचण्टौ कर्तव्यौ द्वारे गर्भगृहस्यतु।। 10.64 ।।
दक्षिणोत्तरपार्श्वस्थौ मुनिवेषौ सहस्त्रियौ।
दंष्ट्राकरालवदनौ भीमौ वा दण्ड धारिणौ।। 10.65 ।।
कान्तावियुक्तौ विकटौ करण्डि (26) मकुटोज्वलौ।
(26. मकुटान्वितौ.)
अर्धमण्टपकद्वारे शङ्खचक्रोत्तमाङ्गिनौ।। 10.66 ।।
अन्तर्मण्डलसंज्ञस्य सालस्य द्वारपार्श्शयोः।
जयश्च विजय (27) श्चैव कर्तव्यौ तस्य गोपुरे।। 10.67 ।।
(27.श्चोभौ.)
एवमेवेष्यतेऽन्येषां चतुर्दिक्षु च गोपुरम्।
अन्तर्हारस्य पूर्वस्यां द्वारि पद्मगदाधरौ।। 10.68 ।।
ख़ड्गशार्ङ्गधरौ द्वारि दक्षिणस्यां प्रकल्पयेत्।
प्रतीच्यां वज्रमुसलधारिणौ दिशि कल्पयेत्।। 10.69 ।।
पाशाङ्कुशधरौ ब्रह्मन्नुत्तरस्यां दिशि स्थितौ।
मध्यान्तर्हारसालस्य प्राच्यादिषु यथाक्रमम्।। 10.70 ।।
दिक्षु धातृविधातारौ ततो भद्रसुभद्रकौ।
कृतान्तासुरविध्वंसौ कुबेराक्षकुबेरकौ।। 10.71 ।।
प्राच्यादिषु तथा दिक्षु मर्यादा सालगोपुरौ।
दुर्जयप्रबलौ कार्यौ विश्वभावनपुष्करौ।। 10.72 ।।
सम्भवप्रभवौ स्यातां सुभोभनसुभद्रकौ।
जघन्यावरणद्वारे प्राच्यादौ कुमुदादयः।। 10.73 ।।
कुमुदगि कुमुदाक्षश्च पुण्डरीकोऽध वामनः।
शङ्कुकर्णस्सर्व नेत्रस्सुमुखस्सप्रतिष्ठितः।। 10.74 ।।
अष्टौ द्वौ द्वौ प्रतिद्वारं कल्पनीया यथाविधि।
विष्णुपारिषदास्सर्वे (28) सेनभिः कोटिभिर्वृताः।। 10.75 ।।
(28.सर्वे सेनाधिपः स्मृताः।।)
दण्डहस्ता विरूपाक्षाः (29) करण्डमुकुटान्विताः।
(30) फणिकङ्कणमालाढ्याः भ्रुकुटीकुटिलेक्षणाः।। 10.76 ।।
(29.केयूर.) (30.मणि.)
व्यत्यस्तहस्तचरणाः रक्षन्ति द्वारमाश्रिताः।
चतुर्थावरणे कुर्यात्पाकस्थानं विचक्षणः।। 10.77 ।।
प्रथमावणे वापि द्वितीयावरणेऽपि वा।
तृतीयावरणे वापि यथादेशानुकूलतः।। 10.78 ।।
- खलुरिकास्थाननिर्देशः*
इन्द्राग्निमध्ये वाग्नेये तस्य स्थानं विधीयते।
खिलूरिका समायुक्तं मध्ये चाङ्कणसंयुतम्।। 10.79 ।।
चतुरश्रायते भागे प्रचीनस्याश्म कान्तकम्।
(31) युग्त्मेर्हस्तप्रमाणैश्चदीर्घ (32) चुल्येन वा युतम् ।। 10. 80 ।।
मध्येग्नियमयोः कुण्डं नित्यहोमाय कल्पयेत्।
(31. मुग्महस्तप्रमाणाश्च.) (32. चुल्याथवा पुनः)
- अपूप पचननस्थानम्*
अपूपपचनस्थानं मध्ये नैऋतयाम्ययोः।। 10.81 ।।
- फलमरीच्यादिनिधानस्थानम्*
फलानि निक्षिपेन्मध्ये निरृतेर्वरुणस्य च।
द्वारं प्रकल्पयेत्प्रक् मध्ये वायुजलेशयोः।। 10.82 ।।
मरीच्यादि (33)निधानं स्याद्वायुसोमान्तरे भवेत् ।
सर्पिरादिद्रवस्थानं मध्येशर्वशचीशयोः।। 10.83 ।।
(33. निवासस्स्यात्.)
- तण्डुलक्षालनकूप धूमनिर्गममार्ग स्थाननिरूपणम्.*
क्षालनं तण्डुलादीनां कूपोन्तर्बहि रेव वा।
धूमनिर्गममार्गाश्च युग्मास्स्युः कुटिलास था।। 10.84 ।।
- मज्जन, तांबूल वस्त्रपुष्पनिवेशन प्रदेशाः एकान्तिनां भुक्तिस्थानं च.*
मज्जनम्भोगृहं याम्ये ताब्बूली (34) धाम नैरुते।
वारुणे वासनां स्थानं मारुते पुष्पमण्टपः।। 10.85 ।।
(34. याम्यनैऋते)
सौम्ये चै कान्तिनां भुक्तिस्थानमीशे धनालयः।
- धान्यसङ्ग्रह छत्रादिनिवेशदेशाः *
बहीरावरणे कुयान् दाग्नेये धान्यसंग्रहम्।। 10.86 ।।
अवघातगृहं याम्ये गोशालास्यादुमापतौ।
तृतीयावरणेस्थानं भत्रादीनां विभावसौ।। 10.87 ।।
शिभिकादिस्थितिश्चैन्द्रे पानीयं वारुणे भवेत्।
उत्सवे देवयजनं सोमशानान्तरे भवेत् ।। 10.88 ।।
इन्द्रेशानान्तरे वापि मध्येवाग्निसुरेशयोः।
यमाग्निमध्ये वा कुर्यादुत्सवेयाग मण्टपम्।। 10.89 ।।
स्थानमीशे सरस्वत्याः वाद्यस्थानं तु वाय वे।
- स्थान सङ्को चेरचनाप्रकारः*
यथोक्तावरणाभावे वद्यमाने क्वचिद्भवेत्।। 10.90 ।।
- कूपतटाकादिजलाशयविधिः *
वारुणे वा भवेत्यौम्ये कूपं (35) शार्वेपि वा भवेत्।
यत्र (36) वापां सिराग्सन्ति तत्रकूपं प्रकल्पयेत्।। 10.91 ।।
(35.सर्वषु) (36.वापश्शिवास्सन्ति. वापां रसाः इति च पा.)
अष्टदिक्षु यथा योगं तटाकं कारयेन्महम्।
- प्राकारस्यबहिः धीर्घिका यत्यादीनां मठादिश्च.*
प्राकाराणां च सर्वेषां बहिष्ठा दीर्घका भवेत्।। 10.92 ।।
शास्त्रश्रवणयुक्तानां वेदध्ययनशालिनम्।
यतीनामितरेषां च पठः कार्यो बहिर्भवेत्।। 10.93 ।।
सदनानि च कार्याणि देवमाश्रित्य तिष्ठताम्।
- उद्यानादिनिर्देशः *
उद्यानं पुष्पवाटीं च परितो धाम कल्पयेत्।। 10.94 ।।
- एकावरण परि वारनिरूपणम्*
एकावरणयुक्त स्य परिवारानिमान् शृणु।
प्रधानबेराभिमुखः कल्पनीयो विहङ्गराट्।। 10.95 ।।
नृत्तार्धमण्टप्यसाग्रे तस्य धाम च कल्पयेत्।
गोपुरस्योत्त रे साले मन्दिराभिमुखो रविः।। 10.96 ।।
तस्यैव दक्षिणे साले (37) सुधांशुं परिकल्पयेत्।
वह्नौ कामो यमे ब्रह्मनैऋते स्याद्गजाननः।। 10.97 ।।
(37.चन्द्रमाः)
वारणे षण्मुखो दुर्गावायौ सौम्ये धनाधिपः।
ईशाने शङ्करस्तत्र क्षेत्रपालस्तथा भवेत्।। 10.98 ।।
सोमेशयोरन्तराले विष्वक्सेनं प्रकल्पयेत्।
अङ्कणे कक्षिणे सप्त मातरश्श्रीस्तु नैऋते।। 10.99 ।।
इन्द्रादयो लोकपालाः पूह्यस्स्वाशासु चाङ्कणे।
गोपुरस्य भवेदन्तर्बहिर्वा बलिपीठकम्।। 10.100 ।।
अन्तर्हाराह्वायोपेते विशेषो धाम्मि कथ्य ते।
सूर्याचन्द्रमसोः स्थाने संस्थाप्यौ पुरुषाच्युतौ।। 10.101 ।।
सुर्याचन्द्रमसौ कल्पौ द्वितीयावरणे तथा।
हयग्रीवः (38) स्मरस्स्थाने स्थाने सङ्कर्ष णो विधेः।। 10.102 ।।
(38.सुरस्सावे.)
वराहू विघ्नराट् स्थाने प्रद्युम्नश्शरजन्मनः।
कात्यायन्यामनन्तस्यादनिरुद्धो नरासने।। 10.103 ।।
नृ केसरी शङ्क रेस्यादङ्कणे पीठिकासु चेत्।
इन्द्रादयस्समभ्यर्च्या स्तेषां स्थाने यथाक्रमम्।। 10.104 ।।
चक्री मुसलवान् शङ्खी खड्गीचैव गदाधरः।
शार्ङ्ग पद्मी तथा वज्री पूज्या दिव्यास्त्रधारिणः।। 10.105 ।।
- परिवारदेवतानामवस्थानादि.*
प्रथमावरणे येषां स्थाने (39) न्ये समुदीरिताः।
ज्ञेया द्वितीये ते सर्वे परिवारा यथोक्तया।। 10.106 ।।
(39.सोधमुदीरितं)
मध्यान्तर्हारसाले तु गोपुरोभयपार्श्वयोः।
आदित्या द्वादशाराद्याः मध्ये मन्मथवेथसो।। 10.107 ।।
वसवः पूजिनीयास्युर्विधिविघ्न (40) कृतोः पुनः।
मद्ये पितृगणाः पूज्याष्षडाननगणेशयोः।। 10.108 ।।
(40.कृते पुनः)
विश्वे देवास्समाराद्याः मरुतो गुहदुर्गयोः।
सप्तर्षयः पूजनीया मध्ये दुर्गाकुबेरयोः।। 10.109 ।।
कुबेरेशान योर्मध्ये रुद्रा एकादश स्मृताः।
तत्रैव च क्षेत्रपालाः प्राङ्कणे कुमुदादयः।। 10.110 ।।
इन्द्रादिपीठिकास्थाने सभाज्याः कमलासन।
मर्यादवरणे स्थाप्या अष्टादश गणेषु ये।। 10.111 ।।
उत्तमाः परिवारास्ते प्राङ्कणोर्वीतले पुनः।
(41) उपेन्द्रप्रमुखाः पूज्या दिक्षु प्राच्यादिषु क्रमात्।। 10.112 ।।
(41. उपेन्द्रः प्राङ्मुखः पूज्यो.)
उपेन्द्रः (42) प्राकृतः पुण्यः पुष्करो विश्वभावनः।
असुरघ्नः कृतान्तश्च भुतनाथोऽष्टमः स्मृतः।। 10.113 ।।
(42. प्राङ्मुखः)
मर्यादायां महत्यां तु मध्यमा ये गणेषु ते।
परिवाराः प्रकर्तव्याः विश्वाद्या वासवादिषु।। 10.114 ।।
- अङ्गणेसमर्चनीयाः देवताः*
अङ्कणेषु समर्च्या ये वक्ष्ये ताननुपूर्वशः ।
विश्वेशो वश्विकृद्विश्वो विश्वात्मा विश्वलोचनः।। 10.115 ।।
विश्वपादो विश्वभुजस्तथा वै विश्वकर्मकृत्।
- आदित्याद्यष्टादशगणाः *
अष्टादसगणान् वक्ष्येतान् बुध्यस्व क्रमोदितान्।। 10.116 ।।
आदित्या वसवो रुद्राः साद्याश्च मरुत स्तथा।
विश्वे देवाश्च पितरो मातरो गुहदेवताः।। 10.117 ।।
अङ्गिराश्चाश्विनीदेवौ तथा स्त्रीदेवातागणाः।
लोकेशा वास्तुदेवाश्च नक्षत्राणि च पार्षदाः।। 10.118 ।।
तत्वानां पतयश्चैव उत्तमाः परिकीर्तिताः!
सिद्धाश्च ऋषयो नागाः असुरा राक्षसा अपि।। 10.119 ।।
यक्षविद्यधराश्चैव सौरभेयाश्च गुह्यकाः।
गन्धर्वाप्सरसश्चैव व्रजानां पतयस्तथा।। 10.120 ।।
मर्त्याश्चैवाथ रोहिण्यो गणास्ते मध्यमाः स्मृताः।
भूताः प्रेताः पिशाचाश्च कूश्माण्डाः प्रमथा अपि।। 10.121 ।।
स्कन्दो बालग्रहाश्चैव तैतलाश्चैव भैरवाः।
किन्नराश्चैव वेताला अपस्मारास्तथैव च।। 10.122 ।।
योगिन्यश्चैव ढाकिन्यश्शाकिन्यश्चैव चारिकाः।
मोहिन्यश्चेव सर्वेषु जघन्याः परिकीर्तताः।। 10.123 ।।
धाताऽर्यमा विधाता च मत्रिश्च वरुण स्तथा।
भगो विवस्वान् पूषा च सविता च रविस्तथा।। 10.124 ।।
त्वष्टा विष्णुरिति प्रोक्ताः द्वादशैतेऽदितेस्सुताः।
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽवलः।। 10.125 ।।
प्रत्यूषश्च प्रभासश्च वसवश्शान्तवर्चसः।
मृगव्याधश्च शर्वश्च निरृतिर्ध्वज एकपात्।। 10.126 ।।
अहिर्बुध्न्यः पिनाकी च यवषश्च तथैव च।
स्थाणुर्भवः कपाली च रुद्राश्चै कादश स्मृताः।। 10.127 ।।
त्रिणेत्रा रुद्रसदृशाः जटामुकुटधारिणः।
आवहो विवहश्चैव उद्वहस्संवहस्तथा।। 10.128 ।।
निवहोऽनुवहश्चेव (43) प्रवहश्च तथैव च।
सप्तैते मरुतः प्रोक्तास्सप्त सस्ताद्रिभेदिनः।। 10.129 ।।
(43. व्यवहारस्त.)
अलो रविश्च रुद्रश्च अग्निरापस्तथैव च।
पञ्चैतेतु समाख्याताः गणास्साध्यसमाह्वयाः।। 10.130 ।।
रुद्रोऽग्निस्सविता विष्णुर्विश्वे देवगणाः स्मृताः।
कव्यवाडवलस्सोमो यम एवार्यमा तथा।। 10.131 ।।
अग्निष्वात्तास्सोमपाश्च तथा बर्हिषदोपि च।
एते पितृगणाः प्रोक्तास्सप्तैते लोकपूजिताः।। 10.132 ।।
क्रतुर्दक्षः कालकाख्यो वसुस्सत्यश्शुची रुचि।
पुरूरवा (44)र्द्वश्चैव विश्वे देव इमे स्मृताः।। 10.133 ।।
(44. ध्रुव.)
नासत्यदस्समुभयमश्विनौ परिकीर्तितौ।
अन्योन्यसदृशौ देवौ पीयूष (45) कलशोद्भवौ।। 10.134 ।।
(45.कलशावहौ.)
रविसोमाङ्गारबुधगुरुशुक्रशनैश्चराः।
राहुकेतू तथा (46) श्लिष्टौ कीर्त तास्तु नवग्रहाः।। 10.135 ।।
(46. क्लिष्टौ)
शक्राग्नि यमरक्षांसि वरुणो वायुरेव च।
सोम ईशान इत्यष्टौ लोकपालाः प्रकीर्तिताः।। 10.136 ।।
ब्रह्मा मरीचिरत्रिश्च विनस्वान् वृथिवीश्वरः।
(47) आपश्चै वापवत्सश्च सविता च सवित्रकः।। 10.137 ।।
(47. चित्र.)
रुद्रो रुद्रजयश्चैव इन्द्र इन्द्रजय स्तथा।
इशश्चैवाथ पर्जन्यो जयन्तश्च महोन्द्रकः।। 10.138 ।।
भानुस्सत्यो भृगुश्चेव अन्तरिक्षश्च पूर्वतः।
अग्निः पूषा कृशोभनुर्बृहत् क्षत्रो यमस्तथा।। 10.139 ।।
गन्धर्वो भृङ्गराजश्च मृगश्चैव तु याम्यतः।
पितृदौवारिका श्चैव सुक्रीवः पुष्पदन्तकः।। 10.140 ।।
वरुणश्च भृशश्चापो (48) चक्षुमश्च मनोजवः।
रोगनाथश्च मृत्यन्तो भल्लाटस्सोम एव च।। 10.141 ।।
(48.यक्ष्मामाजन्मनो.)
अदितिर्वास्तुनाथश्च वासुदेवगणाः स्मृताः।
अग्निर्वायः प्रजासक्तश्चत्वारोऽङ्गिरसः स्मृताः।। 10.142 ।।
तिष्ठन्ति मुनिरुपेण देवरूपेण च द्विधा।
लक्ष्मीस्सरस्वती विघ्ना तिस्रस्तु गृहदेवताः।। 10.143 ।।
इत्येतेऽष्टादश प्रोक्ताः गणा मध्योत्तमाधमाः।
उत्तमा मध्यमा श्चापि परिवारेषु संमताः।। 10.144 ।।
रुद्रालयादिष्वधमाः परिवाराः प्रकीर्तिताः।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे परिवारादिदेवताकल्पनं नाम
दशमोऽध्यायः।
*************------------