क्रियापादः/अध्यायः १

विकिस्रोतः तः
क्रियापादः
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
क्रियापादस्य अध्यायाः

श्री रस्तु
श्री मतेरामानुजायनमः
श्री पाञ्चरात्रेपाद्मेतन्त्रे
क्रियापादः
ब्रह्मणा भगवन्तं प्रति ज्ञानयोग
योरविदुषां गतिमुद्धिश्य प्रश्नः।
ब्रह्माः----
भगवन् देवदेवेश शज्खचक्रगदाधर।
ज्ञानयोगौ च कार्त्स्न्येन निर्वाणफलदौ श्रुतौ।। 1.1 ।।
तयो रविदुषां देव नाधिकारः कदाचन।
अज्ञानिनां च भक्तानां गतिं (1) चापीच्छतां नृणाम्।। 1.2 ।।
(1.गतिमन्विच्छताम्.)
येनोपायेन निर्वण फलं स्वर्गादिचेतरत्।
भवत्युपायं तमृजुमुपदेष्टुं त्वमर्हसि।। 1.3 ।।
इदमन्यच्च वक्तव्यं यदि मय्यस्त्यनुग्रहः।
त्वदर्चने कोऽभ्युपायः कथ्यतां मधुसूदन।। 1.4 ।।
स्थानविशेषेषु भगवदर्चामूर्ति
यजनस्य सर्वसिद्धिकरत्वम्।
श्रीभगवान्-----
(2) कृत्वा प्रतिनिधिं सम्यग्धारुलोह शीलादिभिः।
तत् स्थापयित्वा मत्थ्याने शास्त्रदृष्टेन वर्त्मना।। 1.5 ।।
(2.कर्मणा धनर्वा मर्त्यो ममाराधरतत्परः। अवृत्तिफलमन्यच्च प्राप्नोत्येव न संशयः। इतीदं पद्यं क्वचित्कोशे दृश्यते. अत्र ब्रह्मप्रश्न वाक्ये भगवदु त्तरवाक्ये च लोखक प्रमादश्शङ्क्यते।)
यजस्व मां वक्ष्यमाण विधिना कमलासन।
कर्षणादिप्रतिष्ठान्त क्रियाविधिमतश्श्रुणु।। 1.6 ।।
वक्ष्यामि येन वधिना प्रसीदाम्यचरादहम्।
अधीतिनो येविद्यासु शास्त्राणि श्रुतपूर्विणः।। 1.7 ।।
ते मां भजन्ते पुरुषा ज्ञानयोगपरायणाः।
अन्येषामप्यविदुषां भक्तानां बहुसम्पदाम्।। 1.8 ।।
जायते सिद्धिरचिरात् स्थाने स्थापयतां च माम्।
ज्ञानं योगश्च यदिदं केवलं मुक्ति कारणम्।। 1.9 ।।
स्थापयुत्वा (3) तु मां स्थाने पुरुषस्सत्वमश्नुते।
(3. अच्युतम्.)
यो मां संस्थाप्य सदने समाराधयति स्वयम्।। 1.10 ।।
न तस्य केवलं सिद्थिः स्थानाभ्यर्णजुषामपि।
तस्मात्सर्वा ब्रह्मन् स्थाने मां स्थापयेत्पुमान्।। 1.11 ।।
स्थानद्यैविध्यम्.
द्विविधं स्थानमाख्यातं सिद्धासिद्धप्रभेदतः।
सिद्धस्थानविरणम्.
मूले मूर्दनि शैलानां नद्यास्तीरे च सङ्गमे।। 1.12 ।।
समुद्रतीरे पुलिने ह्रदे तीर्त्थेच कानने।
ए तेषु निर्मितं स्थानं सिद्धाख्यं विश्वकर्मणा।। 1.13 ।।
देवादिभिरहं तत्र स्थापित श्चेद्यथाविधि।
असिद्धायतनम्।
मसुष्यैर्निमितं स्थानं नगरादि कृतं मम।
असिद्धायतनं विद्धि ग्रामादिस्थिति हेतुकम्।। 1.14 ।।
यजमानस्वरूपम्.
श्रद्धावानास्तिको भक्तो धनधान्य समृद्धिमान्।। 1.15 ।।
महोत्साहश्शुचिर्दक्षः कृतज्ञो लो भवर्जितः।
ब्राह्मणः क्षत्रियो वैश्व श्शूद्रो वाप्यनुलोमजः।। 1.16 ।।
जानीहि यहमा नं तं सर्वैस्समुदितं गुणैः।
वरणीयाचार्य लक्षणम्.
पञ्चरात्रविदं शान्तं सिद्धान्तेषु कृतश्रमम्।। 1.17 ।।
भगवद्वंशजं शुद्ध मलोलुपमदाम्भिकम्।
अपापमृजुमव्याधि मदृष्टपरमास्तिकम्।। 1.18 ।।
तं भागवतमाचार्यां प्रथमं वरयोत्सुधीः।
भूपरीक्षा.
आचार्यो यजमानश्च दैवज्ञेन शुभे दिने।। 1.19 ।।
ग्रामादि स्थापनायादौ निमित्तानि परीक्षयेत्।
शुभे निमित्ते ग्रामादीनारभेत विचक्षणः।। 1.20 ।।
भूपरीक्षादिकं सर्वं रथकारेण वै सह।
आचार्यः पञ्चरात्रज्ञः कुर्यादभ्युदितक्रमात्।। 1.21 ।।
भूमे स्सुपद्मादिप्रभेदः
सुपद्मा भद्रका पूर्णा धुम्रा चेति चतुर्विधा।
भूमिस्तु लक्षणं तासां क्रमेणोपदिशामि ते।। 1.22 ।।
सुपद्माभूमिः
चम्पकागुगुरकर्फूर कदम्बतिलकार्जनैः।
क्रमुकैर्नालि केरैश्च कुशकाशैस्समावृता।। 1.23 ।।
पद्मोत्पल समाकीर्णा प्रागुदक्प्रवणा शुभा।
या च तोयावृता भूमिस्सा सुपद्मेति कीर्तिता।। 1.24 ।।
भद्रकाभूमिः
नदीसागर पार्श्वस्था तीर्थायतनमाश्रिता।
क्षीर वृक्षसमाकीर्णा फलवृक्ष समाकुला।। 1.25 ।।
उद्यानोपवनो पेता लतागुल्म समावृता।
यज्ञवृक्षाः कुशाः काशाः व्रीहिक्षेत्रं तु यत्र वै।। 1.26 ।।
अधोजलसमोपेता भद्रका इति सास्मृता।
पूर्णाबूमिः
कुलुत्थ निम्बनिष्पाव कोद्रवश्यामकान्विता।। 1.27 ।।
गिरिसार्श्व स्थिता चैव गिरेश्शिखरमाश्रिता।
अप्रभूतोदका भूमि स्सा पूर्णेति प्रकीर्तिता।। 1.28 ।।
धूम्राभूमिः
यववेण्वादिसङ्कीर्णा स्नुहिश्लेष्मातकान्विता।
विभीतकार्कसङ्कीर्णा कठिना शर्करान्विता।। 1.29 ।।
वायसश्येनगृध्राढ्या गोमायुवृकसङ्कुला।
ऊषराद्येस्समोपेता सा धुम्रेति प्रक्रीर्तिता।। 1.30 ।।
सुपद्मादिभूमीनांफलभेदः
सुपद्मा शान्तिदा भूमि स्सखदा भद्रकाभवेत्।
सुपूर्णा पुषिदा पूमिः क्षयदाधूम्रका भवेत्।। 1.31 ।।
खातमृत्पूरणपरिक्षा।
दण्डमात्रायतां भूमिं तावद्विस्तारसंयुताम्।
जानुमात्रं खनेद्भूमि मृद्बिस्ताभिश्च पूरयेत्।। 1.32 ।।
अधिके चोत्तमा (4) भूमिस्समं चेन्मध्यमा भवेत्।
न्यूनेऽधमां विजानीया त्तां भूमिं वर्जयेध्बुधः।। 1.33 ।।
(4. चोत्तमां विध्यात्)
वस्तु भूमौबीजावापः
शालिमुद्गयवादीना मुप्त्वाभीजानि वै भुवि।
परीक्षकः परीक्षेत प्रशस्तामथवेतराम्।। 1.34 ।।
अङ्करो जायते यत्र त्रिरात्रा भ्यन्तरे महीम्।
तामुत्तमां विजानीया त्पञ्चरात्रिषु मध्यमाम्।। 1.35 ।।
अधमासप्तरात्रे स्या ददृश्ये वा तदङ्कुरे।
वर्जयेदधमां भूमिं स्थापयेदन्ययोर्द्वयोः।। 1.36 ।।
अधमाया अपिभूमेः क्वचित् परिग्राह्यता.
कुशपालाशहरिणा स्सन्ति यत्र स्वयं भुवि।
अधमामपि तां विद्धि प्रशस्तां कमलासन।। 1.37 ।।
रसवर्णादिभिर्भूपरीक्षा.
रसेन मधुरेणोर्वी मुत्तमां कटुकात्मिकाम्।
मध्यमामधमामल्पां रसैरन्यैश्च विद्धिताम्।। 1.38 ।।
श्वेत र्णोत्तमाभूमि र्मध्यमा पीतलोहिनी।
अधमा कृष्णवर्णा स्यादित्येतद्भूमिलक्षणम्।। 1.39 ।।
बलिप्रदानम्.
वास्तुविद्यासु कृतिना क्रियासु निपुणेन च।
रथकारेण सहितः कुशलः पञ्चरात्रवित्।। 1.40 ।।
आचार्यः प्रथमं कुर्यात्प्रवेशबलिमुत्तमम्।
आचार्यो यजमानेन सहितो वास्तुसीमनि।। 1.41 ।।
नृत्तैर्वाद्यैश्च तूर्यैश्च तथा मङ्कलपठकैः।
पूर्णकुम्भै स्तथा दीपै र्ध्वजच्छत्रसमन्वितैः।। 1.42 ।।
ब्राह्मणै र्ज्ञानसम्पन्नै रधीयानैर्बहुश्रुतैः।
प्रदक्षिणं परिक्रम्य मन्त्रै स्स्वस्त्ययनैरपि।। 1.43 ।।
विदिक्षु दिक्षु पूर्वादिबलिं कुर्यात्समन्ततः।
भूतानां च पिशाचानां रक्षसां दितिजस्मनाम्।। 1.44 ।।
ग्रहाणामपि नागाना मन्येषां च बलिं क्षिपेत्।
ब्रह्मस्थाने प्रयत्नेन पायसेन महीसुरः।। 1.45 ।।
बलिं प्रक्षिप्य तदनु मन्त्रमेतमुदीरयेत्।
भूताः पिशाचा नागाश्च असुरा राक्षसा ग्रहाः।। 1.46 ।।
सर्वे ते व्यपगच्छन्तु बलितुष्टा यथायथम्।
देवानां च द्विजानां च स्थानां सम्यक्करोम्यहम्।। 1.47 ।।
वासुदेवस्य देवस्य सर्वभूतात्मकस्य च।
आस्त्रमन्त्रैण (5) संसिद्धान् सिद्धार्थान् सर्वतः क्षीपेत्।। 1.48 ।।
(5. संजप्तान्.)
कृत्वा बलिं यथाशास्त्रं सूत्राण्यपि च पातयेत्।
(6) शिलास्संस्थापये त्तत्र सुत्रसन्धिषु सर्वतः।। 1.49 ।।
(6. शङ्कन्.)
वास्तुपुरुष कल्पनम्.
अधोमुखं प्राक्छिरसं विन्यसेद्वास्तुपूरुषम्।
प्रसार्य पाणिपदौ द्वौ कोणभूषु प्रकल्पितौ।। 1.50 ।।
एवं ध्यात्वा समभ्यर्च्च्य पुरुषं वास्तुकल्पितम्।
तस्य दक्षिणपार्श्वे तु वास्तुहोमं प्रकल्पयेत्।। 1.51 ।।
स्थण्‍डिले दीपयित्वाऽग्निं पञ्चोपनिषदा घृतम्।
सहस्रं वा शतं वापि जुहुयाद्वास्तुशान्तये।। 1.52 ।।
अपामार्गस्य शम्याश्च खदिरस्य यथाक्रमम्।
यक्षरक्षः पिशाचानां समिधो जुहुयात्स्वयम्।। 1.53 ।।
हुत्वा तु मुलमन्त्राभ्यां पृथगष्टोत्तरं शतम्।
वास्तुनाथस्य मन्त्रेण चरुणा जुहुयाच्छतम्।। 1.54 ।।
पूर्णाहुतिं ततो हुत्वात्विन्ध्रादीनां बलिं क्षिपेत्।
दिक्ष्वष्टसु यथा त्मीयमेवं ग्रामादि कल्पयेत्।। 1.55 ।।
इति श्री पाञ्चरात्रे महोपनिषदि पद्मेतन्त्रे
क्रियापादे ग्रामस्वीकारो नाम
प्रथमोऽध्यायः।


**************----------------
"https://sa.wikisource.org/w/index.php?title=क्रियापादः/अध्यायः_१&oldid=206888" इत्यस्माद् प्रतिप्राप्तम्