योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ०१ योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)
सर्गः ०२
अज्ञातलेखकः
सर्गः ३ →
मुमुक्षुव्यवहारप्रकरणम्

सर्गः १

सर्गः २

सर्गः ३

सर्गः ४

सर्गः ५

सर्गः ६

सर्गः ७

सर्गः ८

सर्गः ९

सर्गः १०

सर्गः ११

सर्गः १२

सर्गः १३

सर्गः १४

सर्गः १५

सर्गः १६

सर्गः १७

सर्गः १८

सर्गः १९

सर्गः २०


द्वितीयः सर्गः २

विश्वामित्र उवाच ।
तस्य व्यासतनूजस्य मलमात्रोपमार्जनम् ।
यथोपयुक्तं ते राम तावदेवोपयुज्यते ।। १
ज्ञेयमेतेन विज्ञातमशेषेण मुनीश्वराः ।
स्वदन्तेऽस्मै न यद्भोगा रोगा इव सुमेधसे ।। २
ज्ञातज्ञेयस्य मनसो नूनमेतद्धि लक्षणम् ।
न स्वदन्ते समग्राणि भोगवृन्दानि यत्पुनः ।। ३
भोगभावनया याति बन्धो दार्ढ्यमवस्तुजः ।
तयोपशान्तया याति बन्धो जगति तानवम् ।। ४
वासनातानवं राम मोक्ष इत्युच्यते बुधैः ।
पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते ।। ५
स्वात्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् ।
मुने विषयवैरस्यं कदर्थादुपजायते ।। ६
सम्यक्पश्यति यस्तज्ज्ञो ज्ञातज्ञेयः स पण्डितः ।
न स्वदन्ते बलादेव तस्मै भोगा महात्मने ।। ७
यशःप्रभृतिना यस्मै हेतुनैव विना पुनः ।
भुवि भोगा न रोचन्ते स जीवन्मुक्त उच्यते ।। ८
ज्ञेयं यावन्न विज्ञातं तावत्तावन्न जायते ।

विषयेष्वरतिर्जन्तोर्मरुभूमौ लता यथा ।। ९
अतएव हि विज्ञातज्ञेयं विद्धि रघूद्वहम् ।
यदेनं रञ्जयन्त्येता न रम्या भोगभूमयः ।। १०
रामो यदन्तर्जानाति तद्वस्त्वित्येव सन्मुखात् ।
आकर्ण्य चित्तविश्रान्तिमाप्नोत्येव मुनीश्वराः ।। ११
केवलं केवलीभावविश्रान्तिं समपेक्षते ।
रामबुद्धिः शरल्लक्ष्मीः खलु विश्रमणं यथा ।। १२
अत्रास्य चित्तविश्रान्त्यै राघवस्य महात्मनः ।
युक्तिं कथयतु श्रीमान्वसिष्ठो भगवानयम् ।। १३
रघूणामेष सर्वेषां प्रभुः कुलगुरुः सदा ।
सर्वज्ञः सर्वसाक्षी च त्रिकालामलदर्शनः ।। १४
वसिष्ठ भगवन्पूर्वं कच्चित्स्मरसि यत्स्वयम् ।
आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् ।। १५
निषधाद्रेर्मुनीनां च सानौ सरलसंकुले ।
उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु ।। १६
येन युक्तिमता ब्रह्मन्ज्ञानेनेयं हि वासना ।
सांसारी नूनमायाति शमं श्यामेव भास्वता ।। १७
तदेव युक्तिमज्ज्ञेयं रामायान्तेनिवासिने ।
ब्रह्मन्नुपदिशाशु त्वं येन विश्रान्तिमेष्यति ।। १८
कदर्थना च नैवैषा रामो हि गतकल्पषः ।
निर्मले मुकुरे वक्त्रमयत्नेनैव बिम्बति ।। १९
तज्ज्ञानं स च शास्त्रार्थस्त्वद्वैदग्ध्यमनिन्दितम् ।
सच्छिष्याय विरक्ताय साधो यदुपदिश्यते ।। २०
अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते ।
तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव ।। २१
वीतरागभयक्रोधा निर्माना गलितैनसः ।
वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः ।। २२
इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः ।
मुनयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् ।। २३
अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः ।
ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान्मुनिः ।। २४

श्रीवसिष्ठ उवाच ।
मुने यदादिशसि मे तदविघ्नं करोम्यहम् ।
कः समर्थः समर्थोऽपि सतां लङ्घयितुं वचः ।। २५
अहं हि राजपुत्राणां रामादीनां मनस्तमः ।
ज्ञानेनापनयाम्याशु दीपेनेव निशातमः ।। २६
स्मराम्यखण्डितं सर्व संसारभ्रमशान्तये ।
निषधाद्रौ पुरा प्रोक्तं यज्ज्ञानं पद्मजन्मना ।। २७
वाल्मीकिरुवाच ।
इति निगदितवानसौ महात्मा
परिकरबन्धगृहीतवक्तृतेजाः ।
अकथयदिदमज्ञतोपशान्त्यै
परमपदैकविबोधनं वसिष्ठः ।। २८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे विश्वामित्रवाक्यं नाम द्वितीयः सर्गः।