योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५ योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)
सर्गः ०६
अज्ञातलेखकः
सर्गः ७ →

श्रीवसिष्ठ उवाच ।
तस्मात्प्राक्पौरुषाद्दैवं नान्यत्तत्प्रोज्झ्य दूरतः ।
साधुसंगमसच्छास्त्रैर्जीवमुत्तारयेद्बलात् ।। १
यथा यथा प्रयत्नः स्याद्भवेदाशु फलं तथा ।
इति पौरुषमेवास्ति दैवमस्तु तदेव च ।। २
दुःखाद्यथा दुःखकाले हा कष्टमिति कथ्यते ।
हाकष्टशब्दपर्यायस्तथा हा दैवमित्यपि ।। ३
प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते ।
बालः प्रबलपुंसेव तज्जेतुमिह शक्यते ।। ४
ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा ।
यथाशु शुभतामेति प्राक्तनं कर्म तत्तथा ।। ५
तज्जयाय यतन्ते ये न लोभलवलम्पटाः ।
ते दीनाः प्राकृता मूढाः स्थिता दैवपरायणाः ।। ६
पौरुषेण कृतं कर्म दैवाद्यदभिनश्यति ।
तत्र नाशयितुर्ज्ञेयं पौरुषं बलवत्तरम् ।। ७
यदेकवृन्तफलयोरथैकं शून्यकोटरम् ।
तत्र प्रयत्नः स्फुरितस्तथा तद्रससंविदः ।। ८
यत्प्रयान्ति जगद्भावाः संसिद्धा अपि संक्षयम् ।
क्षयकारकयत्नस्य ह्यत्र ज्ञेयं महद्बलम् ।। ९
द्वौ हुडाविव युध्येते पुरुषार्थौ परस्परम् ।
य एव बलवांस्तत्र स एव जयति क्षणात् ।। १०
भिक्षुको मङ्गलेभेन नृपो यत्क्रियते बलात् ।
तदमात्येभपौराणां प्रयत्नस्य बलं महत् ।। ११
पौरुषेणान्नमाक्रम्य यथा दन्तेन चूर्ण्यते ।
अन्यः पौरुषमाश्रित्य तथा शूरेण चूर्ण्यते ।। १२
अन्नभूता हि महतां लघवो यत्नशालिनाम् ।
यथेष्टं विनियोज्यन्ते तेन कर्मसु लोष्टवत् ।। १३
शक्तस्य पौरुषं दृश्यमदृश्यं वापि यद्भवेत् ।
तद्दैवमित्यशक्तेन बुद्धमात्मन्यबुद्धिना ।। १४
भूतानां बलवद्भूतं यन्न दैवमिति स्थितम् ।
तत्तेषामप्यधिष्ठातृ सतामेतत्स्फुटं मिथः ।। १५
शास्त्रामात्येभपौराणामविकल्पा स्वभावधीः ।
या सा भिक्षुकराज्यस्य कर्तृ धर्तृ प्रजास्थितेः ।। १६
भिक्षुको मङ्गलेभेन नृपो यत्क्रियते क्वचित् ।
प्राक्तनं पौरुषं तत्र बलवद्वापि कारणम् ।। १७
ऐहिकः प्राक्तनं हन्ति प्राक्तनोऽद्यतनं बलात् ।
सर्वदा पुरुषस्पन्दस्तत्रानुद्वेगवाञ्जयी ।। १८
द्वयोरद्यतनस्यैव प्रत्यक्षाद्बलिता भवेत् ।
दैवं जेतुं यतो यत्नैर्बालो यूनेव शक्यते ।। १९
मेघेन नीयते यद्वद्वत्सरोपार्जिता कृषिः ।
मेघस्य पुरुषार्थोऽसौ जयत्यधिकयत्नवान् ।। २०
क्रमेणोपार्जितेऽप्यर्थे नष्टे कार्या न खेदिता ।
न बलं यत्र मे शक्तं तत्र का परिदेवना ।। २१
यन्न शक्नोमि तस्यार्थे यदि दुःखं करोम्यहम् ।
तदमारितमृत्योर्मे युक्तं प्रत्यहरोदनम् ।। २२
देशकालक्रियाद्रव्यवशतो विस्फुरन्त्यमी ।
सर्व एव जगद्भावा जयत्यधिकयत्नवान् ।। २३
तस्मात्पौरुषमाश्रित्य सच्छास्त्रैः सत्समागमैः ।
प्रज्ञाममलतां नीत्वा संसारजलधिं तरेत् ।। २४
प्राक्तनश्चैहिकश्चेमौ पुरुषार्थौ फलद्द्रुमौ ।
संजातौ पुरुषारण्ये जयत्यभ्यधिकस्तयोः ।। २५
कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः ।
अज्ञो जन्तुरनीशोऽसावात्मनः सुखदुःखयोः ।। २६
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव वा ।
स सदैव पराधीनः पशुरेव न संशयः ।। २७
यस्तूदारचमत्कारः सदाचारविहारवान् ।
स निर्याति जगन्मोहान्मृगेन्द्रः पञ्जरादिव ।। २८
कश्चिन्मां प्रेरयत्येवमित्यनर्थकुकल्पने ।
यः स्थितोऽदृष्टमुत्सृज्य त्याज्योऽसौ दूरतोऽधमः२९
व्यवहारसहस्राणि यान्युपायान्ति यान्ति च ।
यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ।। ३०
यथाशास्त्रमनुच्छिन्नां मर्यादां स्वामनुज्झतः ।
उपतिष्ठन्ति सर्वाणि रत्नान्यम्बुनिधाविव ।। ३१
स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ।। ३२
क्रियया स्पन्दधर्मिण्या स्वार्थसाधकता स्वयम् ।
साधुसंगमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ।। ३३
अनन्तं समतानन्दं परमार्थं विदुर्बुधाः ।
स येभ्यः प्राप्यते नित्यं ते सेव्याः शास्त्रसाधवः ।।३४
देवलोकादिहागत्य लोकद्वयहितं भवेत् ।
प्राक्तनं पौरुषं तद्वै दैवशब्देन कथ्यते ।। ३५
तद्युक्तमेतदेतस्मिन्नास्ति नापवदामहे ।
मूढैः प्रकल्पितं दैवं मन्यन्ते ये क्षयं गताः ।। ३६
नित्यं स्वपौरुषादेव लोकद्वयहितं भवेत् ।
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ३७
अद्यैवं प्राक्तनी तस्माद्यत्नाद्यः कार्यवान्भवेत् ।
करामलकवद्दृष्टं पौरुषादेव तत्फलम् ।
मूढः प्रत्यक्षमुत्सृज्य दैवमोहे निमज्जति ।। ३८
सकलकारणकार्यविवर्जितं
निजविकल्पबलादुपकल्पितम् ।
तदनपेक्ष्य हि दैवमसन्मयं
श्रय शुभाशय पौरुषमात्मनः ।। ३९
शास्त्रैः सदाचरविजृम्भितदेशधर्मैर्य-
त्कल्पितं फलमतीव चिरप्ररूढम् ।
तस्मिन्हृदि स्फुरति चोपनमेति चित्त-
मङ्गावली तदनु पौरुषमेतदाहुः ।। ४०
बुद्ध्वैव पौरुषफलं पुरुषत्वमेत-
दात्मप्रयत्नपरतैव सदैव कार्या ।
नेया ततः सफलतां परमामथासौ
सच्छास्त्रसाधुजनपण्डितसेवनेन ।। ४१
दैवपौरुषविचारचारुभि-
श्चेदमाचरितमात्मपौरुषम् ।
नित्यमेव जयतीति भावितैः
कार्य आर्यजनसेवयोद्यमः ।। ४२
जन्मप्रबन्धमयमामयमेष जीवो
बुद्ध्वैहिकं सहजपौरुषमेव सिद्ध्यै ।
शान्तिं नयत्ववितथेन वरौषधेन
मृष्टेन तुष्टपरपण्डितसेवनेन ।। ४३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे दैवनिराकरणं नाम षष्ठः सर्गः ।। ६ ।।