योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः १९

विकिस्रोतः तः
Jump to navigation Jump to search


एकोनविंशः सर्गः १९

श्रीवसिष्ठ उवाच ।
विशिष्टांशसमर्थत्वमुपमानेषु गृह्यते ।
को भेदः सर्वसादृश्ये तूपमानोपमेययोः ।। १
दृष्टान्तबुद्धावेकात्मज्ञानशास्त्रार्थवेदनात् ।
महावाक्यार्थसंसिद्धा शान्तिनिर्वाणमुच्यते ।। २
तस्माद्दृष्टान्तदार्ष्टान्तविकल्पोल्लसितैरलम् ।
यया कयाचिद्युक्त्या तु महावाक्यार्थमाश्रयेत् ।। ३
शान्तिः श्रेयः परं विद्धि तत्प्राप्तौ यत्नवान्भव ।
भोक्तव्यमोदनं प्राप्तं किं तत्सिद्धौ विकल्पितैः ।। ४
अकारणैः कारणिभिर्बोधार्थमुपमीयते ।
उपमानैस्तूपमेयैः सदृशैरेकदेशतः ।। ५
स्थातव्यं नेह भोगेषु विवेकरहितात्मना ।
उपलोदरसंजातपरिपीनान्धभेकवत् ।। ६
दृष्टान्तैर्यत्नमाश्रित्य जेतव्यं परमे पदम् ।
विचारणवता भाव्यं शान्तिशास्त्रार्थशालिना ।। ७
शास्त्रोपदेशसौजन्यप्रज्ञातज्ज्ञसमागमैः ।
अन्तरान्तरसंपन्नधर्मार्थोपार्जनक्रियः ।। ८
तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ।
संप्रयात्यपुनर्नाशां शान्तिं तुर्यपदाभिधाम् ।। ९
तुर्यविश्रान्तियुक्तस्य प्रतीपस्य भवार्णवात् ।
जीवतोऽजीवतश्चैव गृहस्थस्य तथा यतेः ।। १०
न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ।
निर्मन्दर इवाम्भोधिः स तिष्ठति यथास्थितम् ।। ११
एकांशेनोपमानानामुपमेयसधर्मता ।
बोद्धव्यं बोध्यबोधाय न स्थेयं बोधचञ्चुना ।। १२
यया कयाचिद्युक्त्या तु बोद्धव्यं बोध्यमेव ते ।
युक्तायुक्तं न पश्यन्ति व्याकुला बोधचञ्चवः ।। १३
हृदये संविदाकाशे विश्रान्तेऽनुभवात्मनि ।
वस्तुन्यनर्थं यः प्राह बोधचञ्चुः स उच्यते ।। १४
अभिमानविकल्पांशैरज्ञो ज्ञप्तिं विकल्पयेत् ।
बोधं मलिनयत्यन्तः स्वं खमब्द इवामलम् ।। १५
सर्वप्रमाणसत्तानां पदमब्धिरपामिव ।
प्रमाणमेकमेवेह प्रत्यक्षं तदतः शृणु ।। १६
सर्वाक्षसारमध्यक्षं वेदनं विदुरुत्तमाः ।
नूनं तत्प्रतिपत्सिद्धं तत्प्रत्यक्षमुदाहृतम् ।। १७
अनुभूतेर्वेदनस्य प्रतिपत्तेर्यथाभिधम् ।
प्रत्यक्षमिति नामेह कृतं जीवः स एव नः ।। १८
स एव संवित्स पुमानहंताप्रत्ययात्मकः ।
स ययोदेति संवित्त्या सा पदार्थ इति स्मृता ।। १९
ससंकल्पविकल्पाद्यैः कृतनानाक्रमभ्रमैः ।

जगत्तया स्फुरत्यम्बु तरङ्गादितया यथा ।। २०
प्रागकारणमेवाशु सर्गादौ सर्गलीलया ।
स्फुरित्वा कारणं भूतं प्रत्यक्षं स्वयमात्मनि ।। २१
कारणं त्वविचारोत्थजीवस्यासदपि स्थितम् ।
सदिवास्यां जगद्रूपं प्रकृतौ व्यक्तिमागतम् ।। २२
स्वयमेव विचारस्तु स्वत उत्थं स्वकं वपुः ।
नाशयित्वा करोत्याशु प्रत्यक्षं परमं महत् ।। २३
विचारवान्विचारोऽपि आत्मानमवगच्छति ।
यदा तदा निरुल्लेखं परमेवावशिष्यते ।। २४
मनस्यनीहिते शान्ते स्वबुद्धीन्द्रियकर्मभिः ।
नहि कश्चित्कृतैरर्थो नाकृतैरप्यभावनात् ।। २५
मनस्यनीहिते शान्ते न प्रवर्तन्त एव ते ।
कर्मेन्द्रियाणि कर्मादावसंचारितयन्त्रवत् ।। २६
मनोयन्त्रस्य चलने कारणं वेदनं विदुः ।
प्रणालीदारुमेषस्य रज्जुरन्तर्गता यथा ।। २७
रूपालोकमनस्कारपदार्थव्याकुलं जगत् ।
विद्यते वेदनस्यान्तर्वातान्तः स्पन्दनं यथा ।। २८
सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् ।
भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् ।। २९
दृष्ट्वैव दृश्यताभासं स्वरूपं धारयन्स्थितः ।
स्वं यथा यत्र यद्रूपं प्रतिभाति तथैव तत् ।। ३०
स सर्वात्मा यथा यत्र समुल्लासमुपागतः ।
तिष्ठत्याशु तथा तत्र तद्रूप इव राजते ।। ३१
सर्वात्मकतया द्रष्टुर्दृश्यत्वमिव युज्यते ।
दृश्यत्वं द्रष्टृसद्भावे दृश्यतापि न वास्तवी ।। ३२

अकारणकमेवातो ब्रह्म सिद्धमिदं स्थितम् ।
प्रत्यक्षमेव निर्मातृ तस्यांशास्त्वनुमादयः ।। ३३
स्वयत्नमात्रे यदुपासको य-
स्तद्दैवशब्दार्थमपास्य दूरे ।
शूरेण साधो पदमुत्तमं तत्
स्वपौरुषेणैव हि लभ्यतेऽन्तः ।। ३४
विचारयाचार्यपरम्पराणां
मतेन सत्येन सितेन तावत् ।
यावद्विशुद्धं स्वयमेव बुद्धया
ह्यनन्तरूपं परमभ्युपैषि ।। ३५

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे प्रमाणनिरूपणं नामैकोनविशः सर्गः ।। १९ ।।