योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः १०

विकिस्रोतः तः
Jump to navigation Jump to search


दशमः सर्गः १०

श्रीवसिष्ठ उवाच ।
यथास्थितं ब्रह्मतत्त्वं सत्तानियतिरुच्यते ।
सा विनेतुर्विनेतृत्वं सा विनेयविनेयता ।। १
अतः पौरुषमाश्रित्य श्रेयसे नित्यबान्धवम् ।
एकाग्रं कुरु तच्चित्तं शृणु चोक्तमिदं मम ।। २
अवान्तरनिपातीनि स्वारूढानि मनोरथम् ।
पौरुषेणेन्द्रियाण्याशु संयम्य समतां नय ।। ३
इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् ।
मोक्षोपायमयीं वक्ष्ये संहितां सारनिर्मिताम् ।। ४
अपुनर्ग्रहणायान्तस्त्यक्त्वा संसारवासनाम् ।
संपूर्णौ शमसंतोषावादायोदारया धिया ।। ५
सपूर्वापरवाक्यार्थविचारविषयाहतम् ।
मनः समरसं कृत्वा सानुसंऽधानमात्मनि ।। ६
सुखदुःखक्षयकरं महानन्देककारणम् ।
मोक्षोपायमिमं राम वक्ष्यमाणं मया शृणु ।। ७
इमां मोक्षकथां श्रुत्वा सह सर्वैर्विवेकिभिः ।
परं यास्यसि निर्दुःखं नाशो यत्र न विद्यते ।। ८
इदमुक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना ।
सर्वदुःखक्षयकरं परमाश्वासनं श्रियः ।। ९
श्रीराम उवाच ।
केनोक्तं कारणेनेदं ब्रह्मन्पूर्व स्वयंभुवा ।
कथं च भवता प्राप्तमेतत्कथय मे प्रभो ।। १०
श्रीवसिष्ठ उवाच ।
अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः ।
चिदाकाशोऽविनाशात्मा प्रदीपः सर्वजन्तुषु ।। ११
स्पन्दास्पन्दसमाकारात्ततो विष्णुरजायत ।
स्यन्दमानरसापूरात्तरङ्गः सागरादिव ।। १२
सुमेरुकर्णिकात्तस्य दिग्दलाद्धृदयाम्बुजात् ।
तारकाकेसरवतः परमेष्ठी व्यजायत ।। १३
वेदवेदार्थविद्देवमुनिमूण्डलमण्डितः ।
सोऽसृजत्सकल सग विकल्पौघं यथा मनः ।। १४
जम्बूद्वूपिस्य कोणेऽखिरवर्षे भारतनामनि ।
ससज जनसर्गौधं ह्याधिव्याधिपरिप्लुतम् ।। १५
भावाभावविषण्णाङ्गमुत्पातध्वसतत्परम् ।
सर्गेऽस्मिन्भूतजातीना नानाव्यसनसकुलम् ।। १६
जनस्यैतस्य दुःखं तद्दृष्ट्वा सकललोककृत् ।
जगाम करुणामीशः पुत्रदुःखात्पिता यथा ।। १७
क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् ।
स्यादिति क्षणमेकाग्रं चिन्तयामास भूतये ।। १८
इति संचिन्त्य भगवान्ससर्ज स्वयमीश्वरः ।
तपो धर्म च दानं च सत्यं तीर्थानि चैव हि ।। १९
एतत्सृष्ट्वा पुनदवाश्चन्तयामास भूतकृत् ।
पुंसां नानेन सर्गस्य दुःखस्यान्त इति स्वयम् ।। २०
निर्वाणं नाम परमं सुखं येन पुनर्जनः ।
न जायते न म्रियते तज्ज्ञानादेव लभ्यते ।। २१
संसारोत्तरणे जन्तोरुपायो ज्ञानमेव हि ।
तपो दानं तथा तीर्थमनुपायाः प्रकीर्तिताः ।। २२
तत्तावदुःखमोक्षार्थ जनस्यास्य हतात्मनः ।
प्रत्यग्रं तरणोपायमाशु प्रकटयाम्यहम् ।। २३
इति संचिन्त्य भगवान्ब्रह्मा कमलसंस्थितः ।
मनसा परिसंकल्प्य मामुत्पादितवानिमम् ।। २४
कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः ।
पितुस्तस्य पुनः शीघ्रमूर्मिरूर्मेरिवानघ ।। २५
कमण्डलुधरो नाथः सकमण्डलुना मया ।
साक्षमालः साक्षमालं स प्रणम्याभिवादितः ।। २६
एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले ।
शुक्लाश्च इव शीतांशु योजयामास पाणिना ।। २७
मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् ।
मामुवाच पिता ब्रह्मा सुहंसः सारसं यथा ।। २८
मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् ।
अज्ञानमभ्यास्रशतु शशः शशधरं यथा ।। २९
इति तेनाशु शप्तः सन्विचारसमनन्तरम् ।
अहं विस्मृतवान्सर्वे स्वरूपममलं किल ।। ३०
अथाहं दीनता यातः स्थितोऽसंबुद्धया धिया ।
दुःखशोकाभिसंतप्तो जातो जन इवाधनः ।। ३१
कष्टं संसारनामायं दोषः कथमिहागतः ।
इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः ।। ३२
अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि ।
दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ।। ३३
ततः पृष्टः स भगवान्मया सकललोककृत् ।
हेमपद्मदलस्थेन संसारव्याधिभेषजम् ।। ३४
कथं नाथ महादुःखमयः संसार आगतः ।
कथं च क्षीयते जन्तोरिति पृष्टेन तेन मे ।। ३५
तज्ज्ञानं सुबहु प्रोक्तं यज्ज्ञात्वा पावनं परम् ।
अहं पितुरभिप्रायः किलाधिक इव स्थितः ।। ३६
ततो विदितवेद्यं मां निजां प्रकृतिमास्थितम् ।
स उवाच जगत्कर्ता वक्ता सकलकारणम् ।। ३७
शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः ।
पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये ।। ३८
इदानीं शान्तशापस्त्वं परं बोधमुपागतः ।
संस्थितोऽहमिवैकान्माऽकनक कनकादिवत् ।। ३९
गच्छेदानीं महीपृष्ठे जम्बूद्वीपान्तरस्थितम् ।
साधो भरतवर्ष त्वं लोकानुग्रहहेतुना ।। ४०
तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधिया ।
उपदेश्वाः क्रियाकाण्डक्रमेण क्रमशालिना ।। ४१
विरर्क्ताचेत्ताश्च तथा महाप्राज्ञा विचारिणः ।
उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना ।। ४२
इति तेन नियुक्तोऽहं पित्रा कमलयोनिना ।
इह राघव तिष्ठामि यावद्भूतपरम्परा ।। ४३
कर्तव्यमस्ति न ममेह हि किंचिदेव
स्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि ।
संशान्तया सततसुप्तधियेह वृत्या
कार्य करोमि न च किंचिदहं करोमि ।। ४४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे ज्ञानावतरणं नाम दशमः सर्गः ।। १० ।।