योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः १२

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीवसिष्ठ उवाच ।
परिपूर्णमना मान्यः प्रष्टुं जानासि राघव ।
वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुमादरात् ।। १
रजस्तमोभ्यां रहिता शुद्धसत्त्वानुपातिनीम् ।
मतिमात्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरौ भव ।। २
विद्यते त्वयि सर्वैव प्रच्छकस्य गुणावली ।
वक्तुर्गुणाश्चैव मयि रत्नश्रीर्जलधौ यथा ।। ३
आप्तवानसि वैराग्यं विवेकासङ्गजं सुत ।
चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः ।। ४
चिरमाशैशवादेव तवाभ्यासोऽस्ति सद्गुणैः ।
शुद्धैः शुद्धस्य दीर्घैश्च पद्मस्येवातिसंततैः ।। ५
अतः शृणु कथां वक्ष्ये त्वमेवास्या हि भाजनम् ।
न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती ।। ६
ये केचन समारम्भा याश्च काश्चन दृष्टयः ।
ते च ताश्च पदे दृष्टे निःशेषे यान्ति वै शमम् ।। ७
यदि विज्ञानविश्रान्तिर्न भवेद्भव्यचेतसः ।
तदस्यां संसृतौ साधुश्चिन्तामौढ्यं सहेत कः ।। ८
परं प्राप्य विलीयन्ते सर्वा मननवृत्तयः ।
कल्पान्तार्कगणासङ्गात्कुलशैलशिला इव ।। ९
दुःसहा राम संसारविषावेशविषूचिका ।
योगगारुडमन्त्रेण पावनेन प्रशाम्यति ।। 2.12.१०
स च योगः सज्जनेन सह शास्त्रविचारणात् ।
परमार्थज्ञानमन्त्रो नूनं लभ्यत एव च ।। ११
अवश्यमिह हि विचारे कृते सकलदुःखपरिक्षयो भवतीति मन्तव्यं नातो विचारदृष्टयोऽवहेलया द्रष्टव्याः ।। १२
विचारवता पुरुषेण सकलमिदमाधिपञ्जरं सर्पेण त्वचमिव परिपक्वां संत्यज्य विगतज्वरेण शीतलान्तःकरणेन विनोदादिन्द्रजालमिव जगदखिलमालोक्यते सम्यग्दर्शनवता असम्यग्दर्शनवतो हि परं दुःखमिदम् ।। १३
विषमो ह्यतितरां संसाररागो भोगीव दशति असिरिव च्छिनत्ति कुन्त इव वेधयति रज्जुरिवावेष्टयति पावक इव दहति रात्रिरिवान्धयति अशङ्कितपरिपतितपुरुषान्पाषाण इव विवशीकरोति हरति प्रज्ञां नाशयति स्थितिं पातयति मोहान्धकूपे तृष्णा जर्जरीकरोति न तदस्ति किंचिद्दुःखं संसारी यन्न प्राप्नोति ।। १४
दुरन्तेयं किल विषयविषूचिका यदि न चिकित्स्यते तन्नितरां नरकनगरनिकरफलानुबन्धिनी तत्तत्करोति ।। १५
यत्र शिलाशितासिशातः पात उपलताडनमग्निदाहो हिमावसेकोऽङ्गावकर्तनं चन्दनचर्चातरुवनानि घुणवृत्तान्तःपरिवेषोऽङ्गपरिमार्जनमनवरतानलवि-
चलितसमरनाराचनिपातो निदाघविनोदनं धारागृहसीकरवर्षणं शिरश्छेदः सुखनिद्रामूकीकरणमाननमुद्राबान्धुर्य महानुपचयः ।। १६
तदेवंविधकष्टचेष्टासहस्रदारुणे संसारचलयन्त्रेऽस्मिन् राघव नावहेलना कर्तव्या अवश्यमेव विधारणीयमेवं चावबोद्धव्यं यथा किल शास्त्रविचाराच्छ्रेयो भवतीति ।। १७
अन्यस्य रघुकुलेन्दो यदि चैते महामुनयो महर्षयश्च विप्राश्च राजानश्च ज्ञानकवचेनावगुण्ठितशरीरास्ते कथमदुःखक्षमा अपि दुःखकरीं तां तां वृत्तिपूर्विकां संसारकदर्थनामनुभवन्तः सततमेव मुदितमनसस्तिष्ठन्ति ।। १८
इह हि ।
विकौतुका विगतविकल्पविप्लवा यथा स्थिता हरिहरपद्मजादयः ।
नरोत्तमाः समधिगतात्मदीपकास्तथा स्थिता जगति विशुद्धबुद्धयः ।। १९
परिक्षीणे मोहे विगलति घने ज्ञानजलदे परिज्ञाते तत्त्वे समधिगत आत्मन्यतितते ।
विचार्यार्यैः सार्धं चलितवपुषो वै सदृशतो धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ।। 2.12.२०
अन्यच्च राघव ।
प्रसन्ने चित्तत्त्वे हृदि शमभवे वल्गति परे
शमाभोगीभूतास्वखिलकलनादृष्टिषु पुरः ।
समं याति स्वान्तःकरणघटनास्वादितरसं
धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ।। २१

अन्यच्च ।
रथः स्थाणुर्देहस्तुरगरचना चेन्द्रियगतिः
परिस्पन्दो वातो वहनकलितानन्दविषयः ।
परोऽणुर्वा देही जगति विहरामीत्यनघया
धिया दृष्टे तत्त्वेरमणमटनं जागतमिदम् ।। २२

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे तत्त्वमाहात्म्यवर्णनं नाम द्वादशः सर्गः ।। १२ ।।


आत्मानं रथिनं विद्धि शरीरं रथमेव तु इत्यादिरूपकदृष्ट्या वा रमणमुपपन्नमित्याह - रथ इति । स्थाणुश्छिन्नतरुरिवाचेतनो देहो रथः इन्द्रियाणां विषयाभिमुखी गतिस्तुरगाणां रचनागतिचातुरी परितः स्पन्दश्चालनं येन स प्रग्रहो वातः प्राणप्रधानं मनः अर्थाद्रथादिभिर्वहनेन प्रापणेन कलिताः प्राप्ता आनन्दरूपा विषया येन तथाविधो देही आत्मा समाधौ परः परमात्मैव व्यवहारकाले बुद्ध्युपाधिपरिच्छेदादणुः सूक्ष्मो वा रथीति शेषः । एवंभूतोऽहं जगति विहरामीति धियापि रमणमेवेत्यर्थः ।।२ २।। इति श्रीवासिष्टमहारामायणतात्पर्यप्रकाशे मुमुक्षुब्यवहारप्रकरणे तत्त्वमाहात्म्यवर्णनं नाम द्वादशः सर्गः ।। १२ ।।