योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः १६

विकिस्रोतः तः
Jump to navigation Jump to search


षोडशः सर्गः १६

श्रीवसिष्ठ उवाच ।
विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् ।
सर्वत्रोपकरोतीह साधुः साधुसमागमः ।। १
साधुसङ्गतरोर्जातं विवेककुसुमं सितम् ।
रक्षन्ति ये महात्मानो, भाजनं ते फलश्रियः ।। २
शून्यमाकीर्णतामेति मृतिरप्युत्सवायते ।
आपत्संपदिवाभाति विद्वज्जनसमागमे ।। ३
हिममापत्सरोजिन्या मोहनीहारमारुतः ।
जयत्येको जगत्यस्मिन्साधुः साधुसमागमः ।। ४
परं विवर्धनं बुद्धेरज्ञानतरुशातनम् ।
समुत्सारणमाधीनां विद्धि साधुसमागमम् ।। ५
विवेकः परमो दीपो जायते साधुसंगमात् ।
मनोहरोज्ज्वलो नूनमासेकादिव गुच्छकः ।। ६
निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् ।
अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः ।। ७
अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः ।
मनागपि न संत्याज्या मानवैः साधुसंगतिः ।। ८
साधुसंगतयो लोके सन्मार्गस्य च दीपिकाः ।
हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ।। ९
यः स्नातः शीतसितया साधुसंगतिगङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।। १०
नीरागाश्छिन्नसंदेहा गलितग्रन्थयोऽनघ ।
साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः ।। ११
विश्रान्तमनसो धन्याः प्रयत्नेन परेण हि ।
दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ।। १२
सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।
कमलेवाप्सरोवृन्दे सर्वदैव विराजते ।। १३
तेनामलविचारस्य पदस्याग्रावचूलिता ।
प्रथिता येन धन्येन न त्यक्ता साधुसंगतिः ।। १४
विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसंमताः ।
सर्वोपायेन संसेव्यास्ते ह्युपाया भवाम्बुधौ ।। १५
ते एते नरकाग्नीनां संशुष्केन्धनतां गताः ।
यैर्दृष्टा हेलया सन्तो नरकानलवारिदाः ।। १६
दारिद्र्यं मरणं दुःखमित्यादिविषयो भ्रमः ।
संप्रशाम्यत्यशेषेण साधुसंगमभेषजैः ।। १७
संतोषः साधुसङ्गश्च विचारोऽथ शमस्तथा ।
एत एव भवाम्भोधावुपायास्तरणे नृणाम् ।। १८
संतोषः परमो लाभः सत्सङ्गः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखम् ।। १९
चत्वार एते विमला उपाया भवभेदने ।
यैरभ्यस्तास्त उत्तीर्णा मोहवारिभवार्णवात् ।। २०
एकस्मिन्नेव वै तेषामभ्यस्ते विमलोदये ।
चत्वारोऽपि किलाभ्यस्ता भवन्ति सुधियां वर ।। २१
एकोऽप्येकोऽपि सर्वेषामेषां प्रसवभूरिह ।
सर्वसंसिद्धये तस्मात्यत्नेनैकं समाश्रयेत् ।। २२
सत्समागमसंतोषविचाराः सुविचारितम् ।
प्रवर्तन्ते शमस्वच्छे वाहनानीव सागरे ।। २३
विचारसंतोषशमसत्समागमशालिनि ।
प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ।। २४
विचारशमसत्सङ्गसंतोषवति मानवे ।
प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव ।। २५
सत्सङ्गसंतोषशमविचारवति सन्मतौ ।
प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ।। २६
तस्मादेकतमं नित्यमेतेषां रघुनन्दन ।
पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद्गुणम् ।। २७
परं पौरुषमाश्रित्य जित्वा चित्तमतङ्गजम् ।
यावदेको गुणो नान्तस्तावन्नास्त्युत्तमा गतिः ।। २८
पौरुषेण प्रयत्नेन दन्तैर्दन्तान्विचूर्णयेत् ।
यावन्नाभिनिविष्टं ते मनो राम गुणार्जने ।। २९
देवो भवाथ यक्षो वा पुरुषः पादपोऽथ वा ।
तावत्तव महाबाहो नोपायोऽस्तीह कश्चन ।। ३०
एकस्मिन्नेव फलदे गुणे बलमुपागते ।
क्षीयन्ते सर्व एवाशु दोषा विवशचेतसः ।। ३१
गुणे विवृद्धे वर्धन्ते गुणा दोषजयप्रदाः ।
दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशनाः ।। ३२
मनोमोहवने ह्यस्मिन्वेगिनी वासनासरित् ।
शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ।। ३३
सा हि स्वेन प्रयत्नेन यस्मिन्नेव निपात्यते ।
कूले तेनैव वहति यथेच्छसि तथा कुरु ।। ३४
पुरुषयत्नजवेन मनोवने
शुभतटानुगतां क्रमशः कुरु ।
वरमते निजभावमहानदी-
महह तेन मनागपि नोह्यसे ।। ३५

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे सदाचारनिरूपणं नाम षोडशः सर्गः ।। १६ ।।