योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः १८

विकिस्रोतः तः
Jump to navigation Jump to search


अष्टादशः सर्गः १८

श्रीवसिष्ठ उवाच ।
अस्यां वा चित्तमात्रायां प्रबोधः संप्रवर्तते ।
बीजादिव सतो व्युप्तादवश्यंभावि सत्फलम् ।। १
अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् ।
अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ।। २
युक्तियुक्तमुपादेयं वचनं बालकादपि ।
अन्यत्तृणमिव त्याज्यमप्युक्तं पद्मजन्मना ।। ३
योऽस्मत्तातस्य कूपोऽयमिति कौपं पिबत्यपः ।
त्यक्त्वा गाङ्गं पुरस्थं तं को नाशास्त्यतिरागिणम्।। ४
यथोषसि प्रवृत्तायामालोकोऽवश्यमेष्यति ।
अस्यां वा चित्तमात्रायां सुविवेकस्तथैष्यति ।। ५
श्रुतायां प्राज्ञवदनाद्बुद्ध्वान्तं स्वयमेव च ।
शनैःशनैर्विचारेण बुद्धौ संस्कार आगते ।। ६
पूर्वं तावदुदेत्यन्तर्भृशं संस्कृतवाक्यता ।
शुद्धयुक्ता लतेवोच्चैर्या सभास्थानभूषणम् ।। ७
परा नागरतोदेति महत्त्वगुणशालिनी ।
सा यया स्नेहमायान्ति राजानो अमरा अपि ।। ८
पूर्वापरज्ञः सर्वत्र नरो भवति बुद्धिमान् ।
पदार्थानां यथा दीपहस्तो निशि सुलोचनः ।। ९
लोभमोहादयो दोषास्तानवं यान्त्यलं शनैः ।
धियो दिशः समासन्नशरदो मिहिका यथा ।। १०
केवलं समवेक्ष्यन्ते विवेकाध्यासनं धियः ।
न किंचन फलं धत्ते स्वाभ्यासेन विना क्रिया ।। ११
मनः प्रसादमायाति शरदीव महत्सरः ।
परं साम्यमुपादत्ते निर्मन्दर इवार्णवः ।। १२
निरस्तकालिमारत्नशिखेवास्ततमःपटा ।
प्रति ज्वलत्यलं प्रज्ञा पदार्थप्रविभागिनी ।। १३
दैन्यदारिद्र्यदोषाढ्या दृष्टयो दर्शितान्तराः ।
न निकृन्तन्ति मर्माणि ससंनाहमिवेषवः ।। १४
हृदयं नावलुम्पन्ति भीमाः संसृतिभीतयः ।
पुरःस्थितमपि प्राज्ञं महोपलमिवेषवः ।। १५
कथं स्यादादिता जन्मकर्मणां दैवपुंस्त्वयोः ।
इत्यादिसंशयगणः शाम्यत्यह्नि यथा तमः ।। १५
सर्वदा सर्वभावेषु संशान्तिरुपजायते ।
यामिन्यामिव शान्तायां प्रजालोक उपागते ।। १७
समुद्रस्येव गाम्भीर्यं धैर्यं मेरोरिव स्थितम् ।
अन्तः शीतलता चेन्दोरिवोदेति विचारिणः ।। १८
सा जीवन्मुक्तता तस्य शनैः परिणतिं गता ।
शान्ताशेषविशेषस्य भवत्यविषयो गिराम् ।। १९
सर्वार्थशीतला शुद्धा परमालोकदास्यधीः ।
परं प्रकाशमायाति ज्योत्स्नेव शरदैन्दवी ।। २०
हृद्याकाशे विवेकार्के शमालोकिनि निर्मले ।
अनर्थसार्थकर्तारो नोद्यन्ति किल केतवः ।। २१
शाम्यन्ति शुद्धिमायान्ति सौम्यास्तिष्ठन्ति सून्नते ।
अचञ्चले जलेऽतृष्णाः शरदीवाभ्रमालिकाः ।। २२
यत्किंचनकरी क्रूरा ग्राम्यता विनिवर्तते ।
दीनानना पिशाचानां लीलेव दिवसागमे ।। २३
धर्मभित्तौ भृशं लग्नां धियं धैर्यधुरं गताम् ।
आधयो न विधुन्वन्ति वाताश्चित्रलतामिव ।। २४
न पतत्यवटे ज्ञस्तु विषयासङ्गरूपिणि ।
कः किल ज्ञातसरणिः श्वभ्रं समनुधावति ।। २५
सच्छास्त्रसाधुवृत्तानामविरोधिनि कर्मणि ।
रमते धीर्यथाप्राप्ते साध्वीवान्तःपुराजिरे ।। २६
जगतां कोटिलक्षेषु यावन्तः परमाणवः ।
तेषामेकैकशोऽन्तःस्थान्सर्गान्पश्यत्यसङ्गधीः ।। २७
मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम् । ।।
न खेदयति भोगौघो न चानन्दयति क्वचित् ।। २८
परमाणौ परमाणौ सर्ववर्गा निरर्गलाः ।
ये पतन्त्युत्पतन्त्यम्बुवीचिवत्तान्स पश्यति ।। २९
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ।
कार्याण्येष प्रबुद्धोऽपि निष्प्रबुद्ध इव द्रुमः ।। ३०
दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् ।
इष्टानिष्टफलप्राप्तौ हृदयेनापराजितः ।। ३१
बुद्ध्वेदमखिलं शास्त्रं वाचयित्वा विविच्यताम् ।
अनुभूयत एवैतन्न तूक्तं वरशापवत् ।। ३२
शास्त्रं सुबोधमेवेदं सालंकारविभूषितम्।
काव्यं रसमयं चारु दृष्टान्तैः प्रतिपादितम् ।। ३३
बुध्यते स्वयमेवेदं किंचित्पदपदार्थवित् ।
स्वयं यस्तु न वेत्तीदं श्रोतव्यं तेन पण्डितात् ।। ३४
यस्मिन्श्रुते मते ज्ञाते तपोध्यानजपादिकम् ।
मोक्षप्राप्तौ नरस्येह न किंचिदुपयुज्यते ।। ३५
एतच्छास्त्रघनाभ्यासात्पौनःपुन्येन वीक्षणात् ।
पाण्डित्यं स्यादपूर्वं हि चित्तसंस्कारपूर्वकम् ।। ३६
अहं जगदिति प्रौढो द्रष्टृदृश्यपिशाचकः ।

पिशाचोऽर्कोदयेनेव स्वयं शाम्यत्ययत्नतः ।। ३७
भ्रमो जगदहं चेति स्थित एवोपशाम्यति ।
स्वप्नमोहः परिज्ञात इव नो भ्रमयत्यलम् ।। ३८
यथा संकल्पनगरे पुंसो हर्षविषादिता ।
न बाधते तथैवास्मिन्परिज्ञाते जगद्भ्रमे ।। ३९
चित्रसर्पः परिज्ञातो न सर्पभयदो यथा ।
दृश्यसर्पः परिज्ञातस्तथा न सुखदुःखदः ।।
परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति ।
यथा तथैव संसारः स्थित एवोपशाम्यति ।। ४१
सुमनःपल्लवामर्दे किंचिद्व्यतिकरो भवेत् ।
परमार्थपदप्राप्तौ नतु व्यतिकरोऽल्पकः ।। ४२
गच्छत्यवयवः स्पन्दं सुमनःपत्रमर्दने ।
इह धीमात्ररोधस्तु नाङ्गावयवचालनम् ।। ४३
सुखासनोपविष्टेन यथासंभवमश्नता ।
भोगजालं सदाचारविरुद्धेषु न तिष्ठता ।। ४४
यथाक्षणं यथादेशं प्रविचारयता सुखम् ।
यथासंभवसत्सङ्गमिदं शास्त्रमथेतरत् ।। ४५
आसाद्यते महाज्ञानबोधः संसारशान्तिदः ।
न भूयो जायते येन योनियन्त्रप्रपीडनम् ।। ४५
एतावत्यपि येऽभीताः पापा भोगरसे स्थिताः ।
स्वमातृविष्ठाकृमयः कीर्तनीया न तेऽधमाः ।। ४७
श्रृणु तावदिदानीं त्वं कथ्यमानमिदं मया ।
राघव ज्ञानविस्तारं बुद्धिसारतरान्तरम् ।। ४८

यथेदं श्रूयते चास्त्रं तामापातनिकां श्रृणु ।
विचार्यते यथार्थोऽयं यथा च परिभाषया ।। ४९
येनेहाननुभूतेऽर्थे दृष्टेनार्थेन बोधनम् ।
बोधोपकारफलदं तं दृष्टान्तं विदुर्बुधाः ।। ५०
दृष्टान्तेन विना राम नापूर्वार्थोऽवबुध्यते ।
यथा दीपं विना रात्रौ भाण्डोपस्करणं गृहे ।। ५१
यैर्यैः काकुत्स्थ दृष्टान्तैस्त्वं मयेहावबोध्यसे ।
सर्वे सकारणास्ते हि प्राप्यन्तु सदकारणम् ।। ५५
उपमानोपमेयानां कार्यकारणतोदिता ।
वर्जयित्वा परं ब्रह्म सर्वेषामेव विद्यते ।। ५३
ब्रह्मोपदेशे दृष्टान्तो यस्तवेह हि कथ्यते ।
एकदेशसधर्मत्वं तत्रान्तः परिगृह्यते ।। ५४
यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने ।

दीयते स स बोद्धव्यः स्वप्नजातो जगद्गतः ।। ५५
एवं सति निराकारे ब्रह्मण्याकारवान्कथम् ।
दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ।। ५६
अन्यासिद्धविरुद्धादिदृग्दृष्टान्तप्रदूषणैः ।
स्वप्नोपमत्वाज्जगतः समुदेति न किंचन ।। ५७
अवस्तु पूर्वापरयोर्वर्तमाने विचारितम् ।
यथा जाग्रत्तथा स्वप्नः सिद्धमाबालमागतम् ।। ५८
स्वप्नसंकल्पनाध्यानवरशापौषधादिभिः ।
यथार्था इह दृष्टान्तास्तद्रूपत्वाज्जगत्स्थितेः ।। ५९
मोक्षोपायकृता ग्रन्थकारेणान्येऽपि ये कृताः ।
ग्रन्थास्तेष्वियमेवैका व्यवस्था बोध्यबोधने ।। ६०
स्वप्नाभत्वं च जगतः श्रुते शास्त्रेऽवबोध्यते ।
शीघ्रं न पार्यते वक्तुं वाक्किल क्रमवर्तिनी ।। ६१
स्वप्नसंकल्पनाध्याननगराद्युपमं जगत् ।
यतस्त एव दृष्टान्तास्तस्मात्सन्तीह नेतरे ।। ६२
अकारणे कारणता यद्बोधायोपमीयते ।
न तत्र सर्वसाधर्म्यं संभवत्युपमाश्रमैः ।। ६३
उपमेयस्योपमानादेकांशेन सधर्मता ।
अङ्गीकार्यावबोधाय धीमता निर्विवादिना ।। ६४
अर्थावलोकने दीपादाभामात्रादृते किल ।
न स्थानतैलवर्त्यादि किंचिदव्युपयुज्यते ।। ६५
एकदेशसमर्थत्वादुपमेयावबोधनम् ।
उपमानं करोत्यङ्ग दीपोऽर्थप्रभया यथा ।। ६६
दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति ।

उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः ।। ६७
न कुतार्किकतामेत्य नाशनीया प्रबुद्धता ।
अनुभूत्यपलापान्तैरपवित्रैर्विकल्पितैः ।।
विचारणादनुभवकारिवैरिणोऽपि
वाङ्मयं त्वनुगतमस्मदादिषु ।
स्त्रियोक्तमप्यपपरमार्थवैदिकं
वचो वचःप्रलपनमेव नागमः ।। ६९
अस्माकमस्ति मतिरङ्ग तयेति सर्व-
शास्त्रैकवाक्यकरणं फलितं यतो यः ।
प्रातीतिकार्थमपशास्त्रनिजाङ्गपुष्टा-
 त्संवेदनादितरदस्ति ततः प्रमाणम् ।। ७०

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे दृष्टान्तनिरूपणं नामाष्टादशः सर्गः ।। १८ ।।