योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः ०८

विकिस्रोतः तः
← सर्गः ७ योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)
सर्गः ०८
अज्ञातलेखकः
सर्गः ९ →

श्रीवसिष्ठ उवाच ।
नाकृतिर्न च कर्माणि न स्पन्दो न पराक्रमः ।
तन्मिथ्याज्ञानवद्रूढं दैवं नाम किमुच्यते ।। १
स्वकर्मफलसंप्राप्ताविदमित्थमितीति याः ।
गिरस्ता दैवनाम्नैताः प्रसिद्धिं समुपागताः ।। २
तत्रैव मूढमतिभिर्दैवमस्तीति निश्चयः ।
आत्तो दुरवबोधेन रज्ज्वामिव भुजंगमः ।। ३
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान्भवेत् ।। ४
मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः ।
दैवाद्दाहोऽस्ति नैवेति गन्तव्यं तेन पावके ।। ५
दैवमेवेह चेत्कर्तुं पुंसः किमिव चेष्टया ।
स्नानदानासनोच्चारान्दैवमेव करिष्यति ।। ५
किंवा शास्त्रोपदेशेन मूकोऽयं पुरुषः किल ।
संचार्यते तु दैवेन किं कस्येहोपदिश्यते ।। ७
न च निस्पन्दता लोके दृष्टेह शवतां विना ।
स्पन्दाच्च फलसंप्राप्तिस्तस्माद्दैवं निरर्थकम् ।। ८
न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता ।
पुंसः संदृश्यते काचित्तस्माद्दैवं निरर्थकम् ।। ९
मिथोऽङ्गानि समासाद्य द्वयोरेकैककर्तृता ।
हस्तादीनां हतत्वे ह न दैवेन क्वचित्कृतम् ।। १०
मनोबुद्धिवदप्येतद्दैवं नेहानुभूयते ।
आगोपालं कृतप्रज्ञैस्तेन दैवमसत्सदा ।। ११
पृथक्चेद्बुद्धिरन्योऽर्थः सैव चेत्कान्यता तयोः ।
कल्पनायां प्रमाणं चेत्पौरुषं किं न कल्प्यते ।। १२
नामूर्तेस्तेन सङ्गोऽस्ति नभसेव वपुष्मतः ।
मूर्तं च दृश्यते लग्नं तस्माद्दैवं न विद्यते ।। १३
विनियोक्रथ भूतानामस्त्यन्यच्चेज्जगत्त्रये ।
शेरते भूतवृन्दानि दैवं सर्वं करिष्यति ।। १४
दैवेन त्वभियुक्तोऽहं तत्करोमीदृशं स्थितम् ।
समाश्वासनवागेषा न दैवं परमार्थतः ।। १५
मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः ।
प्राज्ञास्तु पौरुषार्थेन पदमुत्तमतां गताः ।। १६
ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः ।
तैस्तैः किमिव लोकेऽस्मिन्वद दैवं प्रतीक्ष्यते ।। १७
कालविद्भिर्विनिर्णीता यस्यातिचिरजीविता ।
स चेज्जीवति संछिन्नशिरास्तद्दैवमुत्तमम् ।। १८
कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव ।
अनध्यापित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम् ।। १९
विश्वामित्रेण मुनिना दैवमुत्सृज्य दूरतः ।
पौरुषेणैव संप्राप्तं ब्राह्मण्यं राम नान्यथा ।। २०
अस्माभिरपरै राम पुरुषैर्मुनितां गतैः ।
पौरुषेणैव संप्राप्ता चिरं गगनगामिता ।। २१
उत्साद्य देवसंघातं चक्रुस्त्रिभुवनोदरे ।
पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः ।। २२
आलूनशीर्णमाभोगि जगदाजह्रुरोजसा ।
पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः ।। २३
राम पौरुषयुक्त्या च सलिलं धार्यतेऽनया ।
चिरं करण्डके चारु न दैवं तत्र कारणम् ।। २४
भरणादानसंरम्भविभ्रमश्रमभूमिषु ।
शक्तता दृश्यते राम न दैवस्यौषधेरिव ।। २५
सकलकारणकार्यविवर्जितं
निजविकल्पवशादुपकल्पितम् ।
त्वमनपेक्ष्य हि दैवमसन्मयं
श्रय शुभाशय पौरुषमुत्तमम् ।। २६

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे दैवनिराकरणं नामाष्टमः सर्गः ।। ८ ।।