योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः ०९

विकिस्रोतः तः
Jump to navigation Jump to search


नवमः सर्गः ९

श्रीराम उवाच ।
भगवन्तत्वधर्मज्ञ प्रतिष्ठामलमागतम् ।
यल्लोके तद्वद ब्रह्मन्दैव नाम किमुच्यते ।। १
श्रीवसिष्ठ उवाच ।
पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् ।
फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ।। २
दैवं न किंचित्कुरुते न भुङ्ते न च विद्यते ।
न दृश्यते नाद्रियते केवलं कल्पनेदृशी ।। ३
सिद्धस्य पौरुषेणेह फलस्य फलशालिना ।
शुभाशुभार्थसंपत्तिर्दैवशब्देन कथ्यते ।। ४
पौरुषोपनता नित्यमिष्टानिष्टस्य वस्तुनः ।
प्राप्तिरिष्टाप्यनिष्टा वा दैवशब्देन कथ्यते ।। ५
भावी त्ववश्यमेवार्थः पुरुऽषार्थैकसाधनः ।
यः सोऽस्मिँल्लोकसंघाते दैवशब्देन कथ्यते ।। ६
ननु राघव लोकस्य कस्यचित्किंचिदेव हि ।
दैवमाकाशरूपं हि करोति न करोति च ।। ७
पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये ।
इदमित्थं स्थितमिति योक्तिस्तद्दैवमुच्यते ।। ८
इत्थं ममाभवद्बुद्धितिथ मे निश्चयो ह्यभूत् ।
इति कर्मफलप्राप्तौ योक्तिस्तद्दैवमुच्यते ।। ९
इष्टानिष्टफलप्राप्ताविदमित्यस्य वाचकम् ।
आश्वासनामात्रवचो दैवमित्येव कथ्यते ।। १०
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ यत्प्राक्कर्मोपसंचितम् ।
तद्दैव दैवमित्युक्तमपमृष्ट कथं त्वया ।। ११
श्रीवसिष्ठ उवाच ।।
साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् ।
दैवं नास्तीति ते येन स्थिरा बुद्धिर्भविष्यति ।। १२
या मनोवासना पूर्व बभूव किल भूरिशः ।
सैवेयं कर्मभावेन नृणां परिणतिं गता ।। १३
जन्तुर्यद्वासनो राम तत्कर्ता भवति क्षणात् ।
अन्यकर्मान्यभावश्चेत्येतन्नैवोपपद्यते ।। १४
ग्रामगो ग्राममाप्नोति पत्तनार्थी च पत्तनम् ।
यो यो यद्वासनस्तत्र स स प्रयतते सदा ।। १५
यदेव तीव्रसंवेगाद्दृढं कर्म कृतं पुरा ।
तदेव दैवशब्देन पर्यायेणेह कथ्यते ।। १६
एवं कर्मस्थकर्माणि कर्मप्रौढा स्ववासना ।
वासना मनसो नान्या मनो हि पुरुषः स्मृतः ।। १७
यदैवं तानि कर्माणि कर्म साधो मनो हि तत् ।
मनो हि षुरुषस्तस्माद्दैव नास्तीति निश्चयः ।। १८
एष एव मनोजन्तुर्यद्यत्प्रयतते हितम् ।
कृतं तत्तदवाप्नोति स्वत एव हि दैवतः ।। १९
मनश्चित्तं वासना च कर्म दैवं च निश्चयः ।
राम दुर्निश्चयस्यैताः संज्ञाः सद्भिरुदाहृताः ।। २०
एवंनामा हि पुरुषो दृढभावनया यथा ।

नित्यं प्रयतते राम फलमाप्नोत्यलं तथा ।। २१
एवं पुरुषकारेण सर्वमेव रधूद्वह ।
प्राप्यते नेतरेणेह तस्मात्स शुभदोऽस्तु ते ।। २२
श्रीराम उवाच ।
प्राक्तनं वासनाजालं नियोजयति मां यथा ।
मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् ।। २३
श्रीवसिष्ठ उवाच ।
अत एव हि राम त्वं श्रेयः प्राप्नोषि शाश्वतम् ।
स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ।। २४
द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते ।
प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा ।।
वासनौघेन शुद्धेन तत्र चेदद्य नीयसे ।
तत्क्रमेण शुभेनैव पदप्राप्स्यसि शाश्वतम् ।। २६
अथ चेदशुभो भावस्त्वां योजयति संकटे ।
प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता बलात् ।। २७
प्राज्ञश्चेतनमात्रस्त्वं न देहस्त्वं जडात्मकः ।
अन्येन चेतसा तत्ते चेत्यत्वं क्वेव विद्यते ।। २८
अन्यस्त्वां चेतयति चेत्तं चेतयति कोऽपरः ।
क इमं चेतयेत्तस्मादनवस्था न वास्तवी ।। २९
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ।। ३०
अशुभेषु समाविष्टं शुभेष्वेवावतारय ।
स्वं मनः पुरुषार्थेन बलेन बलिनां वर ।। ३१
अशुभाच्चालितं याति शुभं तस्मादपीतरत् ।
जन्तोश्चित्तं तु शुवित्तन्मुहूश्चतूयेद्गलात् ।। ३२
समता सांत्वनेनाशु न द्रागिति शनेशनेः ।
पौरुषेणैव यत्नेन पालयेच्चित्तबालकम् ।। ३३
वासनौघस्त्वया पूर्वमभ्यासेन घनीकृतः ।
शुभो वाप्यशुभो वापि शुभमद्य घनीकुरु ।। ३४
प्रागभ्यासवशाद्याता यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ।। ३५
इदानीमपि ते याति घनतां वासनानघ ।
अभ्यासवशतस्तस्माच्छुभाभ्यासमुपाहर ।। ३६

पूर्वे चेद्धनतां याता नाभ्यासात्तव वासना ।
वर्धिष्यते तु नेदानीमपि तात सुखी भव ।। ३७
संदिग्धायामपि भृशं शुभामेव समाहर ।
अस्यां तु वासनावृद्धौ शुभाद्दोषो न कश्चन ।। ३८
यद्यदभ्यस्यते लोके तन्मयेनैव भूयते ।
इत्याकुमारं प्राज्ञेषु दृष्टं संदेहवजितम् ।। ३९
यूभासना युक्तस्तदत्र भव भूतये ।
परं पोरुषमाश्रित्य विजित्येन्द्रियपञ्चकम् ।। ४०
अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ।। ४१
ततः पक्वकषायेण नूनं विज्ञातवस्तुना ।
शुभोप्यसौत्वया त्याज्यो वासनौघो निराधिना ।। ४२
यदतिसुभगमार्यसेवितं
च्छुभमनुसृत्य मनोज्ञभावबुद्ध्या ।
अधिगमय पदं सदा विशोक
तदनु तदप्यवमुच्य साधु तिष्ठ ।। ४३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे कर्मविचारो नाम नवमः सर्गः ।। ९ ।।