योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः १३

विकिस्रोतः तः
Jump to navigation Jump to search


त्रयोदशः सर्गः १३
श्रीवसिष्ठ उवाच ।
एतां दृष्टिमवष्टभ्य दृष्टात्मानः सुबुद्धयः ।
विचरन्तीह संसारे महान्तोऽभ्युदिता इव ।। १
न शोचन्ति न वाञ्छन्ति न याचन्ते शुभाशुभम् ।
सर्वमेव च कुर्वन्ति न कुर्वन्तीह किंचन ।। २
स्वच्छमेवावतिष्ठन्ते स्वच्छं कुर्वन्ति यान्ति हि ।
हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ।। ३
आयान्ति च न चायान्ति प्रयान्ति च न यान्ति च ।
कुर्वन्त्यपि न कुर्वन्ति न वदन्ति वदन्ति च ।। ४
ये केचन समारम्भा याश्च काश्चन दृष्टयः ।
हेयोपादेयतस्तास्ताः क्षीयन्तेऽधिगते पदे ।। ५
परित्यक्तसमस्तेहं मनोमधुरवृत्तिमत् ।
सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम् ।। ६
अपि निर्मननारम्भमव्यस्ताखिलकौतुकम् ।
आत्मन्येव न मात्यन्तरिन्दाविव रसायनम् ।। ७
न करोतीन्द्रजालानि नानुधावति वासनाम् ।
बालचापलमुत्सृज्य पूर्वमेव विराजते ।। ८
एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्ते
नान्यथा ।। ९
तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो
यावज्जीवं पुरुषेण नेतरदिति ।। १०
स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैकवाक्यता ।
यस्याभ्यासेन तेनात्मा सन्ततेनावलोक्यते ।। ११
अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः ।
कष्टामप्यापदं प्राप्तो न मूढैः समतामियात् ।। १२
न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।
खेदाय स्वशरीरस्थं मौर्ख्यमेकं यथा नृणाम् ।। १३
किंचित्संस्कृतबुद्धीनां श्रुतं शास्त्रमिदं यथा ।
मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन ।। १४
इदं श्राव्यं सुखकरं यथा दृष्टान्तसुन्दरम् ।
अविरुद्धमशेषेण शास्त्रं वाक्यार्थबन्धुना ।। १३
आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः ।
तास्ता मौर्ख्यात्प्रसूयन्ते खदिरादिव कण्टकाः ।। १६
वरं शरावहस्तस्य चाण्डालागारवीथिषु ।
भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम् ।। १७
वरं घोरान्धकूपेषु कोटरेष्वेव भूरुहाम् ।
अन्धकीटत्वमेकान्ते न मौर्ख्यमतिदुःखदम् ।। १८
इममालोकमासाद्य मोक्षोपायमयं जनः ।
अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि ।। १९
तावन्नयति संकोचं तृष्णा वै मानवाम्बुजम् ।
यावद्विवेकसूर्यस्य नोदिता विमला प्रभा ।। २०
संसारदुःखमोक्षार्थे मादृशैः सह बन्धुभिः ।
स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ।। २१
जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः ।
यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव ।। २२
अनन्तानीह दुःखानि सुखं तृणलवोपमम् ।
नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु ।। २३
यदनन्तमनायासं तत्पदं सारसिद्धये ।
साधनीयं प्रयत्नेन पुरुषेण विजानता ।। २४
त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।
अनुत्तमपदालम्बि मनो येषां गतज्वरम् ।। २५
संभोगाशनमात्रेण राज्यादिषु सुखेषु ये ।
संतुष्टा दुष्टमनसो विद्धि तानन्धदर्दुरान् ।। २६
ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।
द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ।। २७
ते यान्ति दुर्गमाद्दुर्गं दुःखाद्दुःखं भयाद्भयम् ।
नरकान्नरकं मूढा मोहमन्थरबुद्धयः ।। २८
परस्परविनाशोक्तेः श्रेयःस्थो न कदाचन ।
सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ।। २९
ये विरक्ता महात्मानः सुविविक्ता भवादृशाः ।
पुरुषान्विद्धि तान्वन्द्यान्भोगमोक्षैकभाजनान् ।। ३०
विवेकं परमाश्रित्य वैराग्याभ्यासयोगतः ।
संसारसरितं घोरामिमामापदमुत्तरेत् ।। ३१
न स्वप्तव्यं च संसारमायास्विह विजानता ।
विषमूर्च्छनसंमोहदायिनीषु विवेकिना ।। ३२
संसारमिममासाद्य यस्तिष्ठत्यवहेलया ।
ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य संस्तरे ।। ३३
यत्प्राप्य न निवर्तन्ते यदासाद्य न शोचति ।
तत्पदं शेमुषीलभ्यमस्त्येवात्र न संशयः ।। ३४
नास्ति चेत्तद्विचारेण दोषः को भवतां भवेत् ।
अस्ति चेत्तत्समुत्तीर्णा भविष्यथ भवार्णवात् ।। ३५
प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।
यदा भवत्याशु तदा मोक्षभागी स उच्यते ।। ३६
अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।
न विना केवलीभावाद्विद्यते भुवनत्रये ।। ३७
तत्प्राप्तावुत्तमप्राप्तौ न क्लेश उपजायते ।
न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः ।। ३८
न हस्तपादचलनं न देशान्तरसंगमः ।
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयाः ।। ३९
पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।
केवलं तन्मनोमात्रजयेनासाद्यते पदम् ।। ४०
विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।
त्यजता दुःखजालानि नरेणैतदवाप्यते ।। ४१
सुखसेव्यासनस्थेन तद्विचारयता स्वयम् ।
न शोच्यते पदं प्राप्य न स भूयो हि जायते ।। ४२
तत्समस्तसुखासारसीमान्तं साधवो विदुः ।
तदनुत्तमनिष्पन्दं परमाहू रसायनम् ।। ४३
क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः ।
सुखं नास्त्येव सलिलं मृगतृष्णास्विवैतयोः ।। ४४
अतो मनोजयश्चिन्त्यः शमसंतोषसाधनः ।
अनन्तसमसंयोगस्तस्मादानन्द आप्यते ।। ४५
तिष्ठता गच्छता चैव पतता भ्रमता तथा ।
रक्षसा दानवेनापि देवेन पुरुषेण वा ।। ४६
मनः प्रशमनोद्भूत्तं तत्प्राप्यं परमं सुखम् ।
विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ।। ४७
व्यवहारपरेणापि कार्यवृन्दमविन्दता ।
भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छयते ।। ४८
मनःप्रशान्तमत्यच्छं विश्रान्तं विगतभ्रमम् ।
अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ।। ४९
मोक्षद्वारे द्वारपालानिमाञ्छ्रणु यथाक्रमम् ।
येषामेकतमासक्त्या मोक्षद्वारं प्रविश्यते। ।। ५०
सुखदोषदशादीर्घा संसारमरुमण्डली ।
जन्तोः शीतलतामेति शीतरश्मेः समप्रभा ।। ५१
शमेनासाद्यते श्रेयः शमो हि परमं पदम् ।
शमः शिवः शमः शान्ति शमो भ्रान्तिनिवारणम् ।। ५२
पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।
शमभूषितचित्तस्य शत्रुरप्येति मित्रताम् ।। ५३
शमचन्द्रमसा येषामाशयः समलंकृतः ।
क्षीरोदानामिवोदेति तेषां परमशुद्धता ।। ५४
हृत्कुशेशयकोशेषु येषां शमकुशेशयम् ।
सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः ।। ५५
शमश्रीः शोभते येषां मुखेन्दावकलङ्किते ।
ते कुलीनेन्दवो वन्द्याः सौन्दर्यविजितेन्द्रियाः ।। ५६
त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।
साम्राज्यसंपत्प्रतिमा यथा शमविभूतयः ।। ५७
यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः ।
तत्सर्वं शान्तचेतःसु तमोऽर्केष्विव नश्यति ।। ५८
मनो हि सर्वभूतानां प्रसादमधिगच्छति ।
न तथेन्दोर्यथा शान्ते जने जनितकौतुकम् ।। ५९
शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।
सुजने परमं तत्त्वं स्वयमेव प्रसीदति ।। ६०
मातरीव परं यान्ति विषमाणि मृदूनि च ।
विश्वासमिह भूतानि सर्वाणि शमशालिनि ।। ६१
न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।
तथा सुखमवाप्नोति शमेनान्तर्यथा मनः ।। ६२
सर्वाधिव्याधिचलितं क्रान्तं तृष्णावरत्रया ।
मनः शमामृतासेकैः समाश्वासय राघव ।। ६३
यत्करोषि यदश्नासि शमशीतलया धिया ।
तत्रातिस्वदते स्वादु नेतरत्तात मानसे ।। ६४
शमामृतरसाच्छन्नं मनो यामेति निर्वृतिम् ।
छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ।। ६५
न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।
न च व्याघ्रभुजङ्गा वा द्विषन्ति शमशालिनम् ।। ६६
सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।
वेधयन्ति न दुःखानि शरा वज्रशिलामिव ।। ६७
न तथा शोभते राजा अप्यन्तःपुरसंस्थितः ।
समया स्वच्छया बुद्ध्या यथोपशमशीलया ।। ६८
प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न वै जनः ।
यामायाति जनः शान्तिमवलोक्य शमाशयम् ।। ६९
समया शमशालिन्या वृत्त्या यः साधु वर्तते ।
अभिनन्दितया लोके जीवतीह स नेतरः ।। ७०
अनुद्धतमनाः शान्तः साधुः कर्म करोति यत् ।
तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः ।। ७१
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।
न हृष्यति ग्लायति यः स शान्त इति कथ्यते ।। ७२
यः समः सर्वभूतेषु भावि काङ्क्षति नोज्झति ।
जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ।। ७३
स्पृष्ट्वाऽवदातया बुद्ध्या यथैवान्तस्तथा बहिः ।
दृश्यन्ते यत्र कार्याणि स शान्त इति कथ्यते ।। ७४
तुषारकरबिम्बाभं मनो यस्य निराकुलम् ।
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ।। ७५
स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति ।
यः सुषुप्तसमः स्वस्थः स शान्त इति कथ्यते ।। ७६
अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।
दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ।। ७७
योऽन्तः शीतलतां यातो यो भावेषु न मज्जति ।
व्यवहारी न संमूढः स शान्त इति कथ्यते ।। ७८
अप्यापत्सु दुरन्तासु कल्पान्तेषु महत्स्वपि ।
तुच्छेऽहं न मनो यस्य स शान्त इति कथ्यते ।। ७९
आकाशसदृशी यस्य पुंसः संव्यवहारिणः ।
कलङ्कमेति न मतिः स शान्त इति कथ्यते ।। ८०
तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।
बलवत्सु गुणाढ्येषु शमवानेव राजते ।। ८१
शमसंसक्तमनसां महतां गुणशालिनाम् ।
उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव सितरोचिषः ।। ८२
सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् ।
संकटेषु भयस्थाने शमः श्रीमान्विराजते ।। ८३
शमममृतमहार्यमार्यगुप्तं
परमवलम्ब्य परं पदं प्रयाताः ।
रघुतनय यथा महानुभावाः
क्रममनुपालय सिद्धये तमेव ।। ८४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे शमनिरूपणं नाम त्रयोदशः सर्गः ।। १३ ।।