पञ्चविंशब्राह्मणम्/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
दाशरात्रिकस्तोत्रीयसामविधानं

11.1
स्तोमो युज्यते सत्त्रियेभ्योऽ हर्भ्यः प्रत्नवतीभिश्चोपवतीभिश्च
यत् प्रत्नवत्यो उपवतीभ्यः पूर्वा युज्यन्ते ब्रह्म तत् पूर्वं क्षत्राद्युज्यते ब्रह्म हि पूर्वं क्षत्रम्
मनस्तत् पूर्वं वाचो युज्यते मनो हि यद्धि मनसाभिगच्छति तद्वाचा वदति
बृहत् तत् पूर्वं रथन्तराद्युज्यते बृहद्धि पूर्वं रथन्तराद्विजित्या तु वै रथन्तरं पूर्वं योगमानशे
सम्भार्यास्तृचा भवन्ति यथाशिष्ठान् वहिष्ठान् सम्भरेदेवमेवैतान् सम्भरन्ति गत्यै
नव भवन्ति नवाहस्य युक्त्या ऋचर्चैवाहर्युनक्ति यथाप्रार्थस्य शम्या अवदध्यादेवमेवैतन्नवाहस्य शम्या अवदधाति गत्यै
त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय
11.2
उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तदाज्येषु
निराहावन्त्याज्यानि भवन्ति युक्तमेव तैराह्वयति
अग्न आयाहि वीतय आ नो मित्रावरुणायाहि सुषमा हि त इन्द्राग्नी आगतं सुतमिति राथन्तरमेव तद्रूपं निर्द्योतयति स्तोमः इति
11.3
प्र सोमासो विपश्चित इति गायत्री भवति प्रेत्या अभिद्रोणानि बभ्रव इत्यभिक्रान्त्यै स्तुता इन्द्राय वायव इति संस्कृत्यै प्र सोम देव वीतय इति प्रेत्यै प्र तु द्रवेति प्रेत्यै प्र वा एतेनाह्ना यन्ति
गायत्रं भवति
यदेव गायत्रस्य ब्राह्मणम्
आश्वं भवति
अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत स प्राजायत बहुरभवत् प्रजायते बहुर्भवत्याश्वेन तुष्टुवानः
एकाक्षरं निधनमुपयन्ति रथन्तरस्यानतिवादाय
अनतिवाद्येनं भ्रातृव्यो भवति य एवं वेद
सोमसाम भवति
यथा वा इमा अन्या ओषधयः एवं सोम आसीत् स तपोऽतप्यत स एतत् सोमसामापश्यत् तेन राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः
यौधाजयं भवति यदेव यौधाजयस्य ब्राह्मणम्
औशनं यदौशनस्य स्तोमः
11.4
अभि त्वा शूर नो नु म इत्यभीति रथन्तरस्य रूपं रथन्तरं ह्येतदहः
कया नश्चित्र आभुवदिति कवत्यस्तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेराप्त्यै
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसोऽभिवत्सं न स्वसरेषु धेनव इत्यभीति रथन्तरस्य रूपं रथन्तरं ह्येतदहः
इन्द्रं गीर्भिर्हवामह इति हवन्त एवैनम्
तरोभिर्वो विदद्वसुमिति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत् तरोभिर्वो विदद्वसुमित्याह यज्ञमेव तद्युनक्ति
रथन्तरं भवति ब्रह्म वै रथन्तरं ब्रह्म प्रायणीयमहर्ब्रह्मण एव तद्ब्रह्माक्रम्य प्रयन्ति
इयं वै रथन्तरमस्यामेव प्रतिष्ठाय सत्त्रमासते
वामदेव्यं भवति पशवो वै वामदेव्यं पशूनामवरुद्ध्यै प्राजापत्यं वै वामदेव्यं प्रजापतावेव प्रतिष्ठाय सत्त्रमासते
नौधसं भवति ब्रह्म वै नौधसं ब्रह्म प्रायणीयमहर्ब्रह्मण एव तद्रह्माक्रमन्ते
कालेयं भवति समानलोके वै कालेयञ्च रथन्तरञ्चेयं वै रथन्तरं पशवः कालेयमस्याञ्चैव पशुषु च प्रतिष्ठाय सत्त्रमासते
द्रवदिडं तथा ह्येतस्याह्नो रूपं स्तोमः
11.5
प्र सोमासो मदच्युत इति गायत्री भवति मदवद्वै रसवृत् तृतीयसवनं मदमेव तद्रसं दधात्यया पस्वस्व देवयुरित्येति रथन्तरस्य रूपं राथन्तरं ह्येतदहः पवतेऽहर्यतो हरिरिति बृहतो रूपं बृहदेव तदेतस्मिन्नहनि युनक्ति तद्युक्तं श्व आरभन्ते प्र सुन्वानायान्धस इति प्रवत्यो भवन्ति प्रणिनीण्यमिव ह्येतदहरभि प्रियाणि पवते च नोहित इत्यभीति रथन्तरस्य रूपं राथन्तरं ह्येतदहः
यज्ञा यज्ञा वो अग्नय इत्यग्नेर्वै यज्ञो यज्ञ एव तद्यज्ञं प्रतिष्ठापयति
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
संहितं भवति व्यक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैव सत्त्रमासते
सफं भवति
सफेन वै देवा इमान् लोकान् समाप्नुव्वन् यत् समाप्नुवंस्तत् सफस्य सफत्वमिमानेवैतेन लोकान् समाप्य सत्त्रमासते
आक्षारं भवति
अष्टौ वा एताः कादुघा आसंस्तासाम् (?) एका समशीर्यत सा कृषिरभवदृध्यतेऽस्मै कृषौ य एवं वेद
तासु देवासुरा अस्पर्धन्त ते देवा असुरान् कामदुघाभ्य आक्षारेणानुदन्त नुदते भ्रातृव्यं कामदुघाभ्य आक्षारेण तुष्टुवानः
एभ्यो वै लोकेभ्यो रसोऽपाक्रामत् तं प्रजापतिराक्षारेणाक्षारयद्यदाक्षारयत् तदाक्षारस्याक्षारत्वम्
तस्माद्यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्यादाक्षारं ब्रह्म साम कुर्वीतात्मन्येवेदिन्द्रियं वीर्यं रसमाक्षारयति
जनुषैकर्चो भवतोऽह्नो धृत्यै यद्वा एतस्याह्नोऽधृतं तदेताभ्यां दाधार
गौरीवितं भवति
गौरीवितिर्वा एतच्छाक्त्यो ब्राह्मणोऽतिरिक्तमपश्यत् तद्गौरीवितमभवत्
अतिरिक्तं वा एतदतिरिक्तेन स्तुवन्ति यद्गौरीवितेनाहीनाञ्छवस्तनवद्भवत्यपि प्रजाया उपकॢप्तम्
वृषा वा एतद्वाजिसाम वृषभो रेतोधा अद्य स्तुवन्ति श्वः प्रजायते
अनुष्टुभि छन्दसां क्रियतेऽनुष्टुब्भि छन्दसां योनिः स्वायामेव तद्योनौ रेतो धत्ते प्रजात्यै
प्रजायते बहुर्भवति य एवं वेद
द्व्युदासं भवत्येतौ वा उदासौ स्वर्गस्य लोकस्यावसानदर्शौ पूर्वेण पूर्वमहः संस्थापयन्त्युत्तरेणोत्तरमहरभ्यतिवदन्ति
तद्यथादः पूर्वेद्युः स्पष्टं तृणोदकमन्ववस्यन्तो यन्त्येवमेव ताभ्यां स्वर्गं लोकमन्ववस्यन्तो यन्ति
गौतमं भवति
सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
यदु चैवानुष्त्टुभस्य मध्ये निधनस्य ब्राह्मणं तद्दु चैतस्य
कावं भवति
लोकबिन्दुः साम विन्दते लोकं कावेन तुष्टुवानः
स्वारसु स्वरेण स्वरेण हि देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते स्वरेणैव तद्देवेभ्योऽन्ततोऽन्नाद्यं प्र यच्छति
यज्ञायज्ञीयं भवति
वाग्यज्ञायज्ञीयं वाचि यज्ञः प्रतिष्ठितो वाच्येव तद्यज्ञमन्ततः प्रतिष्ठापयन्ति तं वाचोऽधि श्व आरभन्ते
त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय
11.6
प्रतिपद्भवति
समारभते द्विरात्रस्याव्रिस्रंसाय
पवस्वेन्दो वृषासुत इत्यनुरूप्यो भवति वृषावद्वा एत ऐन्द्रं त्रैष्टुभमहर्यत् द्वितीयं तदेव तदभिवदति
पूर्वमु तद्रूपमपरेण रूपेणानुवदति यत् पूर्वं रूपमपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वम्
अनुरूप एनं पुत्रो जायते य एवं वेद
स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानामवरुध्यै
वृषण्वन्तस्तृचा भवतीन्द्रियस्य वीर्यस्यावरुध्यै
तृच उत्तमो भवति
येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
पञ्ददश एव स्तोमो भवति
ओजस्येव तद्वीर्ये प्रतितिष्ठति ओजो वीर्यं पञ्चदशः
11.7
उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तदाज्येषु
निराहोपस्थितान्याज्यानि भवन्ति
अग्निं दूतं वृणीमहे मित्रं वयं हवामह इन्द्रमिद्गाथिनो बृहदिन्द्रो अग्ना नमो बृहदिति बार्हतमेव तद्रूपं निर्द्योतयति स्तोमः
11.8
वृषा पवस्व धारयेति गायत्री भवत्यह्नो धृत्यै
वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः
पुनानस्सोम धारयेति धृत्यै
वृषा शोणो अभिकनिक्रदद्गा इति
वृषण्वत्यस्त्रिष्टुभो रूपेण समृद्धा वृषण्वद्वा एतदैन्द्रं त्रैष्टुभमहर्यत् द्वितीयं तदेव तदभिवदति
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
यौक्ताश्वं भवति
युक्ताश्वो व आङ्गिरसः शिशू जातौ विपर्यहरत् तस्मान्मन्त्रोऽपाक्रामत् स तपोऽतप्यत स एतद्यौक्ताश्वमपश्यत् तं मन्त्र उपावर्तत तद्वाव स तर्ह्यकामयत कामसनि सम यौक्ताश्वं काममेवैतेनावरुन्धे
आयास्ये भवतः
अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नाद्यमाश्नात् तं शुगार्च्छत् स तपोऽतप्यत स एते आयास्ये अपश्यत् ताभ्यां शुचमपाहताप शुचं हत आयास्याभ्यां तुष्टुवानः
एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत् तामयास्य आयास्याभ्यामच्यावयत् च्यावयति वृष्टिमायास्याभ्यां तुष्टुवानः
अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत् तदयास्य आयास्याभ्यामच्यावयत् च्यावयत्यन्नाद्यमायास्याभ्यां तुष्टुवानः
वासिष्ठं भवति
वसिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः
11.9
त्वामिद्धि हवामह इति त्वमिति बृहतो रूपं बार्हतं ह्येतदहः
अभिप्रवः सुराधसमिति युञ्जते वै पूर्वेणाह्ना ह्येतेन प्रयन्ति
त्वामिदा ह्यो नर इत्यद्य चैव ह्यश्च समारभते द्विरात्रस्याविस्रंसाय
बृहद्भवति वर्ष्म वै बृहद्वर्ष्म द्वितीयमहर्वर्ष्मण एव तद्वर्ष्माक्रमन्ते
श्येतं भवति साम्नोर्वाहो यज्ञस्य सन्तत्यै
माधुच्छन्दसं भवति सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
ऊर्ध्वेडं तथा ह्येतस्याह्नो रूपं स्तोमः
11.10
यस्ते मदो वरेण्य इति गायत्री भवति
मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
पवस्व मधुमत्तम इति पवन्त इव ह्येतेनाह्ना मधुमत्तम इत्यन्नं वै मध्वन्नाद्यमेव तद्यजमाने दधाति
इन्द्रमच्छ सुता इम इतीन्द्रियस्य वीर्यस्यावरुध्यै
अयं पूषा रयिर्भग इति
अनुष्टुभः सत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः
वृषामतीनां पवते विचक्षण इति जगत्यः सत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
हाविष्मतं भवति
हविष्मांश्च वै हविष्कृच्चाङ्गिरसावास्तां द्वितीयेऽहनि हविष्मानराध्नोन्नवमेऽहनि हविष्कृत्
अयं हविष्मानित्येव जातमहर्जातं सोमं प्राह देवेभ्यः साम्नैवास्मा आशिषमाशास्ते साम हि सत्याशीः
शङ्कु भवत्यह्नो धृत्यै यद्वा अधृतं शङ्कुना तद्दाधार
तदु सीदन्तीयमियाहुरेतेन वै प्रजापतिरूर्ध्व इमान् लोकानसीदद्यदसीदत् तत् सीदन्तीयस्य सीदन्तीयत्वमूर्ध्व इमान् लोकान् सीदति सीदन्तीयेन तुष्टुवानः
सुज्ञानं भवति
स्वर्वद्वै राथन्तरं रूपं स्वर्णधनं बार्हतम्
स्वर्णधनं भवति तथा ह्येतस्याह्नो रूपम्
प्लुवौ वा एतावुपोहन्ते स्वर्गस्य लोकस्य समष्ट्यै
गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
क्रौञ्चं भवति
वाग्वै क्रौञ्चं वाग्द्वादशाहो वाच्येव तद्वाचा स्तुवते यज्ञस्य प्रभूत्यै
यामं भवति
एतेन वै यमोऽनपजय्यममुष्य लोकस्याधिपत्यमाश्नुतानपजय्यममुष्य लोकस्याधिपत्यमश्नुते यामेन तुष्टुवानः
एतेन वै यमी यमं स्वर्गं लोकमगमयत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः
11.11
एह्यू षु ब्रवाणि त इत्येहिवत्यै भवन्ति तृतीयस्याह्न उपहवाय सन्तत्यै
अपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वाय
एवाह्यसि वीरयुरिति समानं वदन्तीदमित्थमसदिति
इन्द्रं विश्वा अवीवृधन्नित्यवर्धन्त ह्येतर्हि यजमानमेवैतया वर्धन्ति
साकमश्वं भवत्युक्थानामभिजित्या अभिक्रान्त्यै
एतेन ह्यग्र उक्थान्यध्यजयन्नेतेनाभ्यक्रामन्
आमहीयवं भवति कॢप्तिश्चान्नाद्यञ्च समानं वदन्तीषु क्रियत इदमित्थमसदिति
क्षत्रं वा एतदहरभिनिर्वदति यत् पञ्चदशं यद्गायत्रीषु ब्रह्मसाम भवति ब्रह्म चैव तत् क्षत्रञ्च सयुजी करोति ब्रह्मैव क्षत्रस्य पुरस्तान्निदधति ब्रह्मणे क्षत्रञ्च विशञ्चानुगे करोति
ब्रह्म वै पूर्वमहः क्षत्रं द्वितीयं यद्गायत्रीषु ब्रह्म साम भवति ब्रह्म तद्यशसार्धयति ब्रह्म हि गायत्री
तदु समानं वदन्तीषु क्रियते समृद्ध्यै
आष्टादंष्ट्रे भवतः
ऐयाहा इति वा इन्द्रो वृत्रमहन्नैयादोहोवेति न्यगृह्णाद्वार्त्रघ्ने सामनी वीर्यवती
ओजो एवैताभ्यां वीर्यमवरुन्धे
पञ्चदश एव स्तोमो भवत्योजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्यं पञ्चदशः

११.१.१ प्रथमेऽहनि बहिष्पवमानस्य स्तोमक्रमः

स्तोमो युज्यते सत्त्रियेभ्योऽहर्भ्यः प्रत्नवतीभिश्चोपवतीभिश्च

११.१.२ अनुष्ठानक्रमानुवादेन स्तोत्रं

यत्प्रत्नवत्यो उपवतीभ्यः पूर्वा युज्यन्ते ब्रह्म तत्पूर्वं क्षत्राद्युज्यते ब्रह्म हि पूर्वं क्षत्रम्

११.१.३ प्रकारान्तरेण पौर्व्वापर्य्यस्तुतिः

मनस्तत्पूर्वं वाचो युज्यते मनो हि यद्धि मनसाभिगच्छति तद्वाचा वदति

११.१.४ पुनःप्रकारान्तरेण स्तुतिः

बृहत्तत्पूर्वं रथन्तराद्युज्यते बृहद्धि पूर्वं रथन्तराद्विजित्या तु वै रथन्तरं पूर्वं योगं आनशे

११.१.५ प्रकारान्तरेण पुनः स्तुतिः

सम्भार्यास्तृचा भवन्ति यथाशिष्ठान्वहिष्ठान्सम्भरेदेवं एवैतान्सम्भरन्ति गत्यै

११.१.६ सत्रियेभ्य इति यदुक्तं तस्योपपादनं

नव भवन्ति नवाहस्य युक्त्या ऋचर्चैवाहर्युनक्ति यथाप्रार्थस्य शम्या अवदध्यादेवं एवैतन्नवाहस्य शम्या अवदधाति गत्यै

११.१.७ बहिष्पवमानस्य स्तोमप्रशंसनं

त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय

११.२.१ आज्यानां स्तोत्रीयस्तोमविधानं

उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तदाज्येषु

११.२.२ आज्यविधानं

निराहावन्त्याज्यानि भवन्ति युक्तं एव तैराह्वयति

११.२.३ कानि तथाविधान्याज्यानि

अग्न आयाहि वीतय आ नो मित्रावरुणायाहि सुषमा हि त इन्द्राग्नी आगतं सुतं इति राथन्तरं एव तद्रूपं निर्द्योतयति स्तोमः इति

११.३.१ माध्यन्दिनपवमानस्य स्तोत्रीयाविधानं

प्र सोमासो विपश्चित इति गायत्री भवति प्रेत्या अभिद्रोणानि बभ्रव इत्यभिक्रान्त्यै स्तुता इन्द्राय वायव इति संस्कृत्यै प्र सोम देव वीतय इति प्रेत्यै प्र तु द्रवेति प्रेत्यै प्र वा एतेनाह्ना यन्ति

११.३.२ तत्र गातव्यसामविधानं

गायत्रं भवति

११.३.३ गायत्रविधायकब्राह्मणातिदेशः

यदेव गायत्रस्य ब्राह्मणम्

११.३.४ अभिद्रोणानीत्यस्यां गातव्यसामविधानं

आश्वं भवति

११.३.५ प्रजातिहेतुत्वेनास्य स्तुतिः

अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत स प्राजायत बहुरभवत्प्रजायते बहुर्भवत्याश्वेन तुष्टुवानः

११.३.६ निधनविभक्त्यनुवादेन स्तुतिः

एकाक्षरं निधनं उपयन्ति रथन्तरस्यानतिवादाय

११.३.७ एतद्वेदितुः प्रशंसा

अनतिवाद्येनं भ्रातृव्यो भवति य एवं वेद

११.३.८ गातव्यसामविधानं

सोमसाम भवति

११.३.९ राज्यादिहेतुत्वेन स्तुतिः

यथा वा इमा अन्या ओषधयः एवं सोम आसीत्स तपोऽतप्यत स एतत्सोमसामापश्यत्तेन राज्यमाधिपत्यं अगच्छद्यशोऽभवद्राज्यं आधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः

११.३.१० प्राकृतब्राह्मणातिदेशः

यौधाजयं भवति यदेव यौधाजयस्य ब्राह्मणम्

११.३.११ पुनर्ब्राह्मणातिदेशः

औशनं यदौशनस्य स्तोमः

११.४.१ होतुः पृष्ठस्तोत्रीयप्रगाथविध्यनुवादेन स्तुतिः

अभि त्वा शूर नो नु म इत्यभीति रथन्तरस्य रूपं रथन्तरं ह्येतदहः

११.४.२ द्वितीयतृचानुवादेन स्तुतिः

कया नश्चित्र आभुवदिति कवत्यस्तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेराप्त्यै

११.४.३ तृतीयतृचानुवादेन स्तुतिः

तं वो दस्मं ऋतीषहं वसोर्मन्दानं अन्धसोऽभिवत्सं न स्वसरेषु धेनव इत्यभीति रथन्तरस्य रूपं रथन्तरं ह्येतदहः

११.४.४ अस्मिन् तृचे पादविशेषाभिप्रायः

इन्द्रं गीर्भिर्हवामह इति हवन्त एवैनम्

११.४.५ चतुर्थप्रगाथानुवादेन स्तुतिः

तरोभिर्वो विदद्वसुं इति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत्तरोभिर्वो विदद्वसुं इत्याह यज्ञं एव तद्युनक्ति

११.४.६ सामविध्यनुवादेन स्तुतिः

रथन्तरं भवति ब्रह्म वै रथन्तरं ब्रह्म प्रायणीयं अहर्ब्रह्मण एव तद्ब्रह्माक्रम्य प्रयन्ति

११.४.७ प्रकारान्तरेण प्रशंसनं

इयं वै रथन्तरं अस्यां एव प्रतिष्ठाय सत्त्रं आसते

११.४.८ पृष्ठस्तोत्रनिवर्त्तकं साम

वामदेव्यं भवति पशवो वै वामदेव्यं पशूनां अवरुद्ध्यै प्राजापत्यं वै वामदेव्यं प्रजापतावेव प्रतिष्ठाय सत्त्रं आसते

११.४.९ तृतीयपृष्ठस्तोत्रसामविधानेन स्तुतिः

नौधसं भवति ब्रह्म वै नौधसं ब्रह्म प्रायणीयं अहर्ब्रह्मण एव तद्रह्माक्रमन्ते

११.४.१० चतुर्थपृष्ठरथन्तरयोः स्तुतिः

कालेयं भवति समानलोके वै कालेयञ्च रथन्तरञ्चेयं वै रथन्तरं पशवः कालेयं अस्याञ्चैव पशुषु च प्रतिष्ठाय सत्त्रं आसते

११.४.११ निधानस्य अहरानुरूप्यप्रदर्शनं

द्रवदिडं तथा ह्येतस्याह्नो रूपं स्तोमः

११.५.१ आर्भवपवमानस्य स्तोत्रीयसामानुरूप्य प्रदर्शनं

प्र सोमासो मदच्युत इति गायत्री भवति मदवद्वै रसवृत्तृतीयसवनं मदं एव तद्रसं दधात्यया पस्वस्व देवयुरित्येति रथन्तरस्य रूपं राथन्तरं ह्येतदहः पवतेऽहर्यतो हरिरिति बृहतो रूपं बृहदेव तदेतस्मिन्नहनि युनक्ति तद्युक्तं श्व आरभन्ते प्र सुन्वानायान्धस इति प्रवत्यो भवन्ति प्रणिनीण्यं इव ह्येतदहरभि प्रियाणि पवते च नोहित इत्यभीति रथन्तरस्य रूपं राथन्तरं ह्येतदहः

११.५.२ अग्निष्टोमसाम्नः स्तोत्रीयाप्रदर्शनं

यज्ञा यज्ञा वो अग्नय इत्यग्नेर्वै यज्ञो यज्ञ एव तद्यज्ञं प्रतिष्ठापयति

११.५.३ गायत्रब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

११.५.४ प्रतिष्ठाहेतुत्वेन स्तुतिः

संहितं भवति व्यक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैव सत्त्रं आसते

११.५.५ गातव्यसामविधानं

सफं भवति

११.५.६ तत्सामकथनं

सफेन वै देवा इमान्लोकान्समाप्नुव्वन्यत्समाप्नुवंस्तत्सफस्य सफत्वं इमानेवैतेन लोकान्समाप्य सत्त्रं आसते

११.५.७ गातव्यसामविधानं

आक्षारं भवति

११.५.८ भ्रातृव्यापनोदनहेतुतामस्य प्रतिपादयति

अष्टौ वा एताः कादुघा आसंस्तासां (?) एका समशीर्यत सा कृषिरभवदृध्यतेऽस्मै कृषौ य एवं वेद

११.५.९ भ्रातृव्यापनोदनप्रदर्शनं

तासु देवासुरा अस्पर्धन्त ते देवा असुरान्कामदुघाभ्य आक्षारेणानुदन्त नुदते भ्रातृव्यं कामदुघाभ्य आक्षारेण तुष्टुवानः

११.५.१० आक्षारसंज्ञानिर्व्वचनं

एभ्यो वै लोकेभ्यो रसोऽपाक्रामत्तं प्रजापतिराक्षारेणाक्षारयद्यदाक्षारयत्तदाक्षारस्याक्षारत्वम्

११.५.११ ततः किमित्याह

तस्माद्यः पुरा पुण्यो भूत्वा पश्चात्पापीयान्स्यादाक्षारं ब्रह्म साम कुर्वीतात्मन्येवेदिन्द्रियं वीर्यं रसं आक्षारयति

११.५.१२ धृतिहेतुत्वेन सफमाक्षारञ्चोभयं स्तौति

जनुषैकर्चो भवतोऽह्नो धृत्यै यद्वा एतस्याह्नोऽधृतं तदेताभ्यां दाधार

११.५.१३ गौरीवितगानविधानं

गौरीवितं भवति

११.५.१४ तदर्थस्य साम्नो ऽतिरिक्ततामाह

गौरीवितिर्वा एतच्छाक्त्यो ब्राह्मणोऽतिरिक्तं अपश्यत्तद्गौरीवितं अभवत्

११.५.१५ किमतस्तदाह

अतिरिक्तं वा एतदतिरिक्तेन स्तुवन्ति यद्गौरीवितेनाहीनाञ्छवस्तनवद्भवत्यपि प्रजाया उपक्ळ्प्तम्

११.५.१६ प्रजातिहेतुत्वेनास्य स्तुतिः

वृषा वा एतद्वाजिसाम वृषभो रेतोधा अद्य स्तुवन्ति श्वः प्रजायते

११.५.१७ छन्दोद्वारा ऋचः प्रजाहेतुत्वं

अनुष्टुभि छन्दसां क्रियतेऽनुष्टुब्भि छन्दसां योनिः स्वायां एव तद्योनौ रेतो धत्ते प्रजात्यै

११.५.१८ तद्वेदितुः प्रशंसा

प्रजायते बहुर्भवति य एवं वेद

११.५.१९ पूर्व्वोत्तरयोः साम्नो सन्धायकत्वं

द्व्युदासं भवत्येतौ वा उदासौ स्वर्गस्य लोकस्यावसानदर्शौ पूर्वेण पूर्वं अहः संस्थापयन्त्युत्तरेणोत्तरं अहरभ्यतिवदन्ति

११.५.२० उदासद्वयेन स्वर्गलोकाध्यवसानं

तद्यथादः पूर्वेद्युः स्पष्टं तृणोदकं अन्ववस्यन्तो यन्त्येवं एव ताभ्यां स्वर्गं लोकं अन्ववस्यन्तो यन्ति

११.५.२१ स्तोत्रीयाविधानं

गौतमं भवति

११.५.२२ स्वर्गे चिरकालस्थितिहेतुत्वेन स्तुतिः

सामार्षेयवत्स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

११.५.२३ पूर्व्वोक्तब्राह्मणातिदेशः

यदु चैवानुष्त्टुभस्य मध्ये निधनस्य ब्राह्मणं तद्दु चैतस्य

११.५.२४ गेयसामविधानं

कावं भवति

११.५.२५ एतल्लोकप्राप्तिहेतुताविधानं

लोकबिन्दुः साम विन्दते लोकं कावेन तुष्टुवानः

११.५.२६ निधनस्तुतिः

स्वारसु स्वरेण स्वरेण हि देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते स्वरेणैव तद्देवेभ्योऽन्ततोऽन्नाद्यं प्र यच्छति

११.५.२७ अग्निष्टोमसामविधानं

यज्ञायज्ञीयं भवति

११.५.२८ अन्ततः स्तुतिः

वाग्यज्ञायज्ञीयं वाचि यज्ञः प्रतिष्ठितो वाच्येव तद्यज्ञं अन्ततः प्रतिष्ठापयन्ति तं वाचोऽधि श्व आरभन्ते

११.५.२९ स्तोमक्लृप्तिं प्रदर्श्य स्तौति

त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय

११.६.१ बहिष्पवमानस्य प्रतिपत्तृचविधानं

प्रतिपद्भवति

११.६.२ सन्धानहेतुत्वेनाह्नोः स्तुतिः

समारभते द्विरात्रस्याव्रिस्रंसाय

११.६.३ बहिष्पवमानस्य द्वितीयतृचविधानं

पवस्वेन्दो वृषासुत इत्यनुरूप्यो भवति वृषावद्वा एत ऐन्द्रं त्रैष्टुभं अहर्यत्द्वितीयं तदेव तदभिवदति

११.६.४ अस्य प्रतिसंज्ञानिर्व्वचनं

पूर्वं उ तद्रूपं अपरेण रूपेणानुवदति यत्पूर्वं रूपं अपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वम्

११.६.५ तद्वेदनफलं

अनुरूप एनं पुत्रो जायते य एवं वेद

११.६.६ तृचानुवादेन स्तोत्रं

स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानां अवरुध्यै

११.६.७ तृचद्वयसंयोगेन स्तुतिः

वृषण्वन्तस्तृचा भवतीन्द्रियस्य वीर्यस्यावरुध्यै

११.६.८ बहिष्पवमानस्यान्त्यतृचविधानं

तृच उत्तमो भवति

११.६.९ प्रतिपत्सारूप्येणास्य स्तुतिः

येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

११.६.१० स्तोत्रस्य स्तोमक्लृप्तिविधानं

पञ्ददश एव स्तोमो भवति

११.६.११ तस्य प्रतिष्ठाहेतुताकथनं

ओजस्येव तद्वीर्ये प्रतितिष्ठति ओजो वीर्यं पञ्चदशः

११.७.१ आज्यविधानं

उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तदाज्येषु

११.७.२ विशिष्टाज्यविधानं

निराहोपस्थितान्याज्यानि भवन्ति

११.७.३ आज्यरूपप्रदर्शनं

अग्निं दूतं वृणीमहे मित्रं वयं हवामह इन्द्रं इद्गाथिनो बृहदिन्द्रो अग्ना नमो बृहदिति बार्हतं एव तद्रूपं निर्द्योतयति स्तोमः

११.८.१ माध्यन्दिनपवमानस्य प्रथमस्तोत्रीया तृचः

वृषा पवस्व धारयेति गायत्री भवत्यह्नो धृत्यै

११.८.२ गायत्रीणां विनियोगकथनं

वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः

११.८.३ अपरस्तोत्रीयतृचविधानं

पुनानस्सोम धारयेति धृत्यै

११.८.४ अन्यस्तोत्रीयतृचविधानं

वृषा शोणो अभिकनिक्रदद्गा इति

११.८.५ त्रैष्टुभे द्वितीयेऽहनि सङ्गतिकथनं

वृषण्वत्यस्त्रिष्टुभो रूपेण समृद्धा वृषण्वद्वा एतदैन्द्रं त्रैष्टुभं अहर्यत्द्वितीयं तदेव तदभिवदति

११.८.६ ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

११.८.७ गातव्यसामान्तरप्रदर्शनं

यौक्ताश्वं भवति

११.८.८ अस्य कामप्राप्तिहेतुता कथनं

युक्ताश्वो व आङ्गिरसः शिशू जातौ विपर्यहरत्तस्मान्मन्त्रोऽपाक्रामत्स तपोऽतप्यत स एतद्यौक्ताश्वं अपश्यत्तं मन्त्र उपावर्तत तद्वाव स तर्ह्यकामयत कामसनि सम यौक्ताश्वं कामं एवैतेनावरुन्धे

११.८.९ द्विरभ्यस्ते द्वे सामनी ।

आयास्ये भवतः

११.८.१० पापनिष्कृतिहेतुताकथनं

अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानां अन्नाद्यं आश्नात्तं शुगार्च्छत्स तपोऽतप्यत स एते आयास्ये अपश्यत्ताभ्यां शुचं अपाहताप शुचं हत आयास्याभ्यां तुष्टुवानः

११.८.११ पुष्टिहेतुताकथनं

एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत्तां अयास्य आयास्याभ्यां अच्यावयत्च्यावयति वृष्टिं आयास्याभ्यां तुष्टुवानः

११.८.१२ अन्नाद्यहेतुत्वेनानयोः स्तुतिः

अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत्तदयास्य आयास्याभ्यां अच्यावयत्च्यावयत्यन्नाद्यं आयास्याभ्यां तुष्टुवानः

११.८.१३ तृतीये तृचे गातव्यं साम

वासिष्ठं भवति

११.८.१४ वसिष्ठफलहेतुताकथनं

वसिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः

११.९.१ होतुः पृष्ठेऽहनि तृचानुगुण्यप्रदर्शनं

त्वां इद्धि हवामह इति त्वं इति बृहतो रूपं बार्हतं ह्येतदहः

११.९.२ तदाधारभूततृचविधानं

अभिप्रवः सुराधसं इति युञ्जते वै पूर्वेणाह्ना ह्येतेन प्रयन्ति

११.९.३ पूर्व्वोत्तरयोरह्नोः सन्धानहेतुता

त्वां इदा ह्यो नर इत्यद्य चैव ह्यश्च समारभते द्विरात्रस्याविस्रंसाय

११.९.४ आद्यतृचे द्वितीयेनाह्नः सङ्गतिः

बृहद्भवति वर्ष्म वै बृहद्वर्ष्म द्वितीयं अहर्वर्ष्मण एव तद्वर्ष्माक्रमन्ते

११.९.५ द्वितीयतृचसाम्नः सन्तानहेतुता

श्येतं भवति साम्नोर्वाहो यज्ञस्य सन्तत्यै

११.९.६ चिरकालं स्वर्गावस्थितिहेतुता

माधुच्छन्दसं भवति सामार्षेयवत्स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

११.९.७ इडा सङ्गतिकथनं

ऊर्ध्वेडं तथा ह्येतस्याह्नो रूपं स्तोमः

११.१०.१ आर्भवपवमानस्य स्तोत्रीय तृचः

यस्ते मदो वरेण्य इति गायत्री भवति

११.१०.२ अस्य तृतीयसवनस्यानुरूप्यं

मदवद्वै रसवत्तृतीयसवनं मदं एव तद्रसं दधाति

११.१०.३ अस्यान्नाद्यहेतुताकथनं

पवस्व मधुमत्तम इति पवन्त इव ह्येतेनाह्ना मधुमत्तम इत्यन्नं वै मध्वन्नाद्यं एव तद्यजमाने दधाति

११.१०.४ स्तोत्रीयवीर्य्यकथनं

इन्द्रं अच्छ सुता इम इतीन्द्रियस्य वीर्यस्यावरुध्यै

११.१०.५ स्तोत्रीयव्रतविधानं

अयं पूषा रयिर्भग इति अनुष्टुभः सत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः

११.१०.६ जागतव्रतस्य त्रैष्टुभेऽहनि सङ्गतिः

वृषामतीनां पवते विचक्षण इति जगत्यः सत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः

११.१०.७ प्राकृतिकब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

११.१०.८ सामान्तर विधानं

हाविष्मतं भवति

११.१०.९ समृद्धिहेतुताकथनं

हविष्मांश्च वै हविष्कृच्चाङ्गिरसावास्तां द्वितीयेऽहनि हविष्मानराध्नोन्नवमेऽहनि हविष्कृत्

११.१०.१० प्रकारान्तरेणास्य स्तुतिः

अयं हविष्मानित्येव जातं अहर्जातं सोमं प्राह देवेभ्यः साम्नैवास्मा आशिषं आशास्ते साम हि सत्याशीः

११.१०.११ धृतिहेतुत्वकथनं

शङ्कु भवत्यह्नो धृत्यै यद्वा अधृतं शङ्कुना तद्दाधार

११.१०.१२ लोकत्रयप्राप्तिहेतु साम

तदु सीदन्तीयं इयाहुरेतेन वै प्रजापतिरूर्ध्व इमान्लोकानसीदद्यदसीदत्तत्सीदन्तीयस्य सीदन्तीयत्वं ऊर्ध्व इमान्लोकान्सीदति सीदन्तीयेन तुष्टुवानः

११.१०.१३ गातव्यसामविधानं

सुज्ञानं भवति

११.१०.१४ उभयरूपताकथनं

स्वर्वद्वै राथन्तरं रूपं स्वर्णधनं बार्हतम्

११.१०.१५ उभयरूपमभिप्रेत्याह

स्वर्णिधनं भवति तथा ह्येतस्याह्नो रूपम्

११.१०.१६ अञ्जसा स्वर्ग्यप्राप्तिसाधनं

प्लवौ वा एतावुपोहन्ते स्वर्गस्य लोकस्य समष्ट्यै

११.१०.१७ पूर्व्ववत् ब्राह्मणातिदेशः

गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्

११.१०.१८ सामान्तरविधानं

क्रौञ्चं भवति

११.१०.१९ तस्य स्तुतिः

वाग्वै क्रौञ्चं वाग्द्वादशाहो वाच्येव तद्वाचा स्तुवते यज्ञस्य प्रभूत्यै

११.१०.२० गेयसामविधानं

यामं भवति

११.१०.२१ स्वर्गलोकाधिपत्यताकथनं

एतेन वै यमोऽनपजय्यं अमुष्य लोकस्याधिपत्यं आश्नुतानपजय्यं अमुष्य लोकस्याधिपत्यं अश्नुते यामेन तुष्टुवानः

११.१०.२२ स्वर्गे चिरकालावस्थितिहेतुताकथनं

एतेन वै यमी यमं स्वर्गं लोकं अगमयत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः

११.११.१ मैत्रावरुणस्योक्थस्तोत्रीयविधानं

एह्यू षु ब्रवाणि त इत्येहिवत्यै भवन्ति तृतीयस्याह्न उपहवाय सन्तत्यै

११.११.२ तस्य कारणनिर्द्देशः

अपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वाय

११.११.३ द्वितीयस्योक्थस्तोत्रीयविधानं

एवाह्यसि वीरयुरिति समानं वदन्तीदं इत्थं असदिति

११.११.४ तृतीयस्योक्थस्तोत्रीयस्य तृचविधानं

इन्द्रं विश्वा अवीवृधन्नित्यवर्धन्त ह्येतर्हि यजमानं एवैतया वर्धन्ति

११.११.५ मैत्रावरूणोक्थसामविधानं

साकं अश्वं भवत्युक्थानां अभिजित्या अभिक्रान्त्यै

११.११.६ उभयहेतुताकथनं

एतेन ह्यग्र उक्थान्यध्यजयन्नेतेनाभ्यक्रामन्

११.११.७ ब्रह्मण उक्थस्तोत्रं साम

आमहीयवं भवति क्ळ्प्तिश्चान्नाद्यञ्च समानं वदन्तीषु क्रियत इदं इत्थं असदिति

११.११.८ छन्दोभ्यां ब्रह्मक्षत्रसङ्गतिः

क्षत्रं वा एतदहरभिनिर्वदति यत्पञ्चदशं यद्गायत्रीषु ब्रह्मसाम भवति ब्रह्म चैव तत्क्षत्रञ्च सयुजी करोति ब्रह्मैव क्षत्रस्य पुरस्तान्निदधति ब्रह्मणे क्षत्रञ्च विशञ्चानुगे करोति

११.११.९ ब्राह्मणजातेरभिवृद्धिहेतुताकथनं

ब्रह्म वै पूर्वं अहः क्षत्रं द्वितीयं यद्गायत्रीषु ब्रह्म साम भवति ब्रह्म तद्यशसार्धयति ब्रह्म हि गायत्री

११.११.१० तृचस्यार्थद्वारा समृद्धिहेतुताकथनं

तदु समानं वदन्तीषु क्रियते समृद्ध्यै

११.११.११ विकल्पेन सामविधानं

आष्टादंष्ट्रे भवतः

११.११.१२ साम्नोवीर्य्यवत्त्वविधानं

ऐयाहा इति वा इन्द्रो वृत्रं अहन्नैयादोहोवेति न्यगृह्णाद्वार्त्रघ्ने सामनी वीर्यवती

११.११.१३ ततः किमित्याह

ओजो एवैताभ्यां वीर्यं अवरुन्धे

११.११.१४ स्तोमसाध्यफलकथनं

पञ्चदश एव स्तोमो भवत्योजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्यं पञ्चदशः