काव्यप्रकाशः/षष्ठः उल्लासः

विकिस्रोतः तः

।। अथ षष्ठ उल्लासः ।।


     सूदृ 70) शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम्। 
            गुणप्राधान्यतस्तत्र स्थितिश्वित्रार्थशब्दयोः ।।48।।

न तु शब्दचित्रेऽर्थस्याचित्रत्वम् अर्थचित्रे वा शब्दस्य। तथा चोक्तम्

            रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः।
            न कान्तमपि निर्भूषं विभाति वनिताननम्।।
            रूपकादिमलंकारं बाह्यमाचक्षते परे। 
            सुपां तिङां च व्युत्पतिं्त वाचां वाञ्छन्त्यलंकृतिम्।। 
            तदेतदाहुः सौशब्द्यं नार्थन्युत्पत्तिरीदृशी। शब्दाभिधेयालंकारभेदादिष्टं द्वयं तु नः ।।"" इति ।।
शब्दचित्रं यथा-
           प्रथममरुणच्छायस्तावत्ततः कनकप्रभः 
           तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः। 
           उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे 
           सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ।। 139 ।। 
अर्थचित्रं यथा- 
           ते दृष्टिमात्रपतिता अपि कस्य नात्र 
           क्षोभाय पक्ष्मलदृशामलकाः खलाश्व। 
           नीचाः सदैव सविलासमलीकलग्ना 
           ये कालतां कुटिलतामिव न त्यजन्ति ।। 140 ।। 
यद्यपि सर्वत्र काव्येऽन्ततः, विभावादिरूपतयैव पर्यवसानम् तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यद्वयमुक्तम्। अत्र च शब्दार्थालंकारभेदाद्बहवो भेदाः, ते चालंकारनिर्णये निर्णेष्यन्ते।। 
                            इति काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः ।।6।।

Dr. Lisha C.R, Assistant Professor, Department of Sanskrit General, Sree Sankaracharya University of Sanskrit, Kalady