काव्यप्रकाशः/प्रथमः उल्लासः

विकिस्रोतः तः
Jump to navigation Jump to search
काव्यप्रकाशः
प्रथमः उल्लासः
मम्मटः
द्वितीयः उल्लासः →

मम्मटभट्टविरचितः काव्यप्रकाशः

प्रथमोल्लासः[सम्पाद्यताम्]


ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति
नियतिकृतनियमरहितां लादैकमयीमनन्यपरतन्त्राम्।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।। 1 ।।
नियतिशक्त्या नियतरूपा सुखदुःखमोहखभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रड्डत्ध्;सा न च हृद्यैव तैः, तादृशी ब्रह्यणो निर्मितिर्निर्माणम्। एतद्विलक्षण तु कविवाङूनिर्मितिः। अत एव जयति। जयत्यर्थेन च नमस्कार आक्षिप्यते, इति तां प्रत्यस्मि प्रणत इति लभ्यते।।
इहाभिधेयं सप्रयोजनमित्याह
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ।। 2 ।।
कालिदासानादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनम् राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थनिवारणम् सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूर्त विगलिदवेद्यान्तरमानन्दम् प्रभुसंमितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्संमितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्व शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम्।।
एवमस्य प्रयोजनमुक्त्वा कारणमाह
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्।
काव्यज्ञशिक्षयाब्यास इति हेतुस्तदुद्भवे ।। 3 ।।
शक्तिः कवित्वबीजरूपः संस्कारविशेषः, यां विना काव्यं न प्रसरेत्, प्रसृतं वा, उपहसनीयं स्यात्। लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य। शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्ड्डत्ध्;गादिलक्षणग्रन्थानाम्। काव्यानां च महाकविसंबन्धिनाम्। आदिग्रहणादितिहासान#ा#ं च विमर्शनाद्व्युत्पत्तिः। काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः, न चु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः।।
एवमस्य कारणमुक्त्वा स्वरूपमाह
सूदृ 1) तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः व्कापि।
दोषगुणालंकाराः वक्ष्यन्ते। व्कापीत्यनेनैतदाह यत् सर्वत्र सालंकारौ, व्कचित्तु स्फुटालंकारविरहेऽपि न काव्यत्वहानिः। यथा
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा-
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।।1।।
अत्र स्फुटो न कश्विदलंकारः। रसस्य च प्राधान्यान्नालंकारता।
तद्भेदान् क्रमेणाह
सूदृ 2) इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ।। 4 ।।
इदमिति काव्यम्। बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः। ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य। यथा
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडड्डत्ध्;ागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ।।2।।
अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते।।
(सूदृ 3) अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्। अतादृशि वाच्यादनतिशायिनि। यथा
ग्रामतरुणं तरुण्या नववञ्जुलमज्जरीसनाथकरम्।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ।।3।।
अत्र बञ्जुललतागृहे दत्तसंकेता नागतेति व्यङ्ग्यं गुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारित्वात्।।
(सूदृ 4) शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ।। 5 ।।
चित्रमिति गुणालंकारयुक्तम्। अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम्। अवरम् अधमम्। यथा
स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्छन्मोहमहर्षिहर्षविहितस्नानाढिद्धठ्ठड़14;नकाढद्धठ्ठड़14;नाय वः।
भिद्यादुद्यदुदारदर्दुरदरी दीर्गादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ।।4।।
विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम्।
ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ।।5।।
इति काव्यप्रकासे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम प्रथम उल्लासः ।।