काव्यप्रकाशः/पञ्चमः उल्लासः

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। अथ पञ्चम उल्लासः ।।


एवं ध्वनौ निर्णीते गुणीभूतव्यङ्ग्यप्रभेदानाह। (सूदृ 66) अगूढमपरस्याङ्गं वाच्यसिद्ध यङ्गमस्फुटम्। संदिग्धतुल्यप्राधान्ये काव्काक्षिप्तँमसुन्दरम् ।।45।। व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः। कामिनीकुचकलशवत् गूढं चमत्करोति, अगूढं तु स्फुटतया वाच्यायमानमिति गुणीभूतमेव। अगूढं यथा यस्यासुहृत्कृततिरस्कृतिरेत्य तप्त- सूचीव्यधव्यतिकरेण युनक्ति कर्णौ। काञ्चीगुणग्रथनबाजनमेष सोऽस्मि जीवन्न संप्रति भवामि किमावहामि ।। 113 ।। अत्र जीवन्नित्यर्थान्तरसंक्रमितवाच्यस्य। उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गायान्ति मञ्जु मधुपा गृहदीर्धिकासु। एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छदाभमुदयाचलचुम्बि बिम्बम् ।। 114 ।। अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य। अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि तीडिड्डत्ध्;ते हनुमता द्रोणाद्रिरत्राहृतः। दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ।। 115 ।। (1) अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य। "तस्याप्यत्र" इति युक्तः पाठः। अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि, अनुरणनरूपं वा। यथा अयं स रशनोत्कर्षी पीनस्तनविमर्दनः। नाभ्यूरुजघनरुपर्शी नीवीनिस्रंसनः करः ।। 116 ।। अत्र शृढद्धठ्ठड़14;गारः करुणस्य। कैलासालयभाललोचनरुचा निर्वर्तितालक्तक- व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम्। स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ।। 117 ।। अत्र भावस्य रसः। अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः। आश्वर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ।। 118 ।। अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य। बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति तेसैनिकाः। अस्माकं सुकृतैर्दृशोर्निपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ।। 119 ।। अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ। अविरलककवालकम्पनैभ्र्रुकुटीतर्जनगर्जनैर्मुहुः। ददृशे तव वैरिणां मदः स गतः व्कापि तवेक्षणे क्षणात् ।। 120 ।। अत्र भावस्य बावप्रशमः। साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ।। 121 ।। अत्र त्रासोदयः। असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्बेष्वथ च रसिकः शैलदुहितुः। प्रमोदं वो दिश्यात् कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ।। 122 ।। अत्रावेगधैर्ययोः संधिः।। पश्येत्कश्विच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर ह ह हा व्युत्क्रमः व्कासि यासि। इत्थं पृथ्वीपरिवृढ भवद्विषोऽरण्यवृत्तेः कन्या कंचित् फलकिसलयान्याददानाभिधत्ते ।। 123 ।। अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता। एते च रसवदाद्यलंकाराः। यद्यपि भावोदयभावसंधिबावशबलत्वानि नालंकारतया, उक्तानि तथापि कश्वित् ब्रूयादित्येवमुक्तम्। यद्यपि स नास्ति कश्विद्विषयः, यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह संकरः संसृष्टिर्वा नास्ति तथापि प्रधान्येन व्यपदेशा भवन्तीति व्कचित्केनचिद्वचवहारः। जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्। कृतालंकाभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ।। 124 ।। अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो वाच्याङ्गतां नीतः। आगत्य संप्रति वियोगविसंष्ठुलाङ्गीमम्भोजिनीं व्सचिदपि क्षपितत्रियामः। एतां प्रसादयति पस्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ।। 125 ।। (2) अत्र नायकवृत्तान्तोऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः।। वाच्यसिद्ध्यङ्गं यथा भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादम्। मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।। 126 ।। अत्र हालाहलं व्यङ्ग्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत्। यथा वा गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा। इत्यामन्त्रणभढिद्धठ्ठड़14;गसूचितवृथावस्थानखेदालसाम् आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ।। 127 ।। (3) अत्राच्युतादिपदव्यङ्ग्यमामन्त्रणेत्यादिवाच्यस्य। एतच्चैकत्र, एकवक्तृगतत्वेन, अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेदः। अस्फुटं यथा अदृष्टे दर्सनोत्कण्ठा दृष्टे विच्छेदभीरुता। नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ।। 128 ।। (4) अत्रादृष्टो यता न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्लिष्टम्। संदिग्धप्राधान्यं यथा हरस्तु किंचित्परिवृत्तधैर्यश्वन्द्रोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ।। 129 ।। (5) अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानम् किं वा विलोचनव्यापारणं वाच्यं प्रधानमिति संदेहः। तुल्यप्राधान्यं यथा ब्राढद्धठ्ठड़14;नणातिक्रमत्यागो भवतामेव भूतये। जामदग्न्यस्तथा मित्रम् अन्यथा दुर्मनायते ।। 130 ।। (6) अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीनि व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम्। काव्काक्षिप्तं यथा मथ्नामि कौरवशतं समरे न कोपात दुःशासनस्य रुधिरं न पिबाम्युरस्तः।। संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ।। 131 ।। (7) अत्र मथ्नाम्येवेत्यादि व्यङ्ग्यं वाच्यनिषेधसहभावेन स्थितम्। असुन्दरं यथा वाणीरकुडंड्डत्ध्;गुड्ड्डत्ध्;डड्डत्ध्;ीणसउणिकोलाहलं सुणंतीए। घरकम्मवावडड्डत्ध्;ाए बहुए सीअन्ति अंगाइं ।। 132 ।। (8) अत्र दत्तसंकेतः कश्विल्लतागहनं प्रविष्ट इति व्यङ्ग्यात् सीदन्त्यढद्धठ्ठड़14;गानीति वाच्यं सचमत्कारम्।। (सूदृ 67) एषां भेदा यथायोगं वेदितव्याश्व पूर्ववत् ।।46।। यथायोगमिति ""व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तदा। ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात्"" इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालंकारो व्यज्यते न तत्र गुणीभूतव्यङ्ग्यत्वम्। (सूदृ 68) सालंकारैध्र्वनेस्तैश्व योगः संसृष्टिसंकरैः। सालंकारैरिति तैरेवालंकारैः, अलंकारयुक्तैश्व तैः। तदुक्तं ध्वनिकृता ""स गुणीभूतव्यङ्गयैः सालंकारैः सह प्रभेदैः स्वैः। संकरसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा।।"" इति। (सूदृ 69) अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ।।47।। एवम् अनेन प्रकारेण, अवान्तरभेदगणनेऽतिप्रभूततरा गणना। तथाहि--शृङ्गारस्यैव भेदप्रभेदसणनायामानन्त्यम्। का गणना तु सर्वैषाम्। संकलनेन पुनरस्य ध्वनेस्त्रयो भेदाः। व्यढद्धठ्ठड़14;ग्यस्य त्रिरूपत्वात्। तथाहि--किंचिद्वाच्यतां सहते किंचिच्वन्यथा। तत्र वाच्यतासहमविचित्रं विचित्रं चेति। अविचित्रं वस्तुमात्रम् विचित्रं त्वलंकाररुपम्। यद्यपि प्रादान्येन तदलंकार्यम् तथापि ब्राढद्धठ्ठड़14;नणश्रमणन्यायेन तथोच#्यते। रसादिलक्षणस्त्वर्थः स्वप्नेऽपि न वाच्यः। स हि रसादिशब्देन शृङ्गारादिशब्देन वाभिधीयेत। न चाभिधीयते। तत्प्रयोगेऽपि विबावाद्याप्रयोगे तस्याप्रतिपत्तेस्तदप्रयोगेऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्वेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारेणैव प्रतीयते, इति निश्वीयते तेनासौ व्यढद्धठ्ठड़14;ग्य एव। मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणीयः। अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्ग्यं विना लक्षणैव न भवतीति प्राक् प्रतिपादितम्। शब्दशक्तिमूले तु, अभिधाया नियन्त्रणेननानभिधेयस्यार्थान्तरस्य तेन सहोपमादेरलंकारस्य च निर्विवादं व्यङ्ग्यत्वम्। अर्थशक्तिमूलेऽपि वेशेषे संकेतः कर्तुं न युज्यते, इति सामान्यरूपाणां पदार्थानामाकाङ्क्षासंनिधियोग्यतावशात्परस्परसंसर्गो यत्रापदार्थोऽपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवादे का वार्ता व्यङ्ग्यस्याभिधेयतायाम्। येऽप्याहुः ""शब्दबृद्धाभिधेयांश्व प्रत्यक्षेणात्र पश्यति। श्रोतुश्व प्रतिपन्नत्वमनुमानेन चेष्टया ।।1।। अन्यथानुपपच्या तु बोधेच्छकिं्त दुयात्मिकाम्। अर्थापच्यावबोधेत संबन्धं त्रिप्रमाणकम् ।।2।। इति प्रतिपादितदिशा "देवदत्त गामानय" इत्याद्युत्तमवृद्धवाक्यप्रयोगाद्देशाद्देशान्तरं सास्नादिमन्तमर्थं मध्यमवृद्धे नयति सति" अनेनास्माद्वाक्यादेवंविधोऽर्थः प्रतिपन्नः" इति तच्चेष्टयानुमाय तयोरखण्डड्डत्ध्;वाक्यवाक्यार्थयोरर्थापच्या वाच्यवाचकभावलक्षणं संबन्धमवधार्य बालस्तत्र व्युत्पद्यते। परतः "चैत्र गामानय देवदत्त, अश्वमानय देवदत्त गां नय" इत्यादिवाक्यप्रयोगे तस्य तस्य शब्दस्य तं तमर्थमवधारयतीति, अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानापन्वितैः पदार्थेरन्वितानामेव संकेतो गृह्यते, इत#ि विशिष्टा एव पदार्था वाक्यार्थः। न तु पदार्थानां वैशिष्ट्यम्। यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येनैतानि पदानि निश्वीयन्ते, इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः, तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः। तेषामपि मते सामान्यविशेषरूपः पदार्थः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तत्र दूरे, अर्थान्तरभूतस्य निःशेषच्युतेत्यादौ विध्यादेश्वर्चा। अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने, अन्वितविशेषस्त्ववाच्य एव इत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः। यदप्युच्यते "नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते" इति। तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा शब्दस्य प्रकाशकत्वान्न कारकत्वम्। ज्ञापकत्वं तु-अज्ञातस्य कथम् ज्ञातत्वं च संकेतेनैव स चान्वितमात्रे। एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न निश्वितम् तावन्नैमित्तिकस्य प्रतीतिरेव कथम् इति "नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते" इत्यविचारिताभिधानम्। ये त्वभिदधति "सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारः" इति "यत्परः शब्दः स शब्दार्थः" इति च विधिरेवात्र वाच्य इति। तेऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानांप्रियाः। तथाहि "भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यते" इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकस्वक्रियाभिसंबन्धात् साध्यायमानतां प्राप्नुवन्ति। ततश्वादग्धदहनन्यायेन यावदप्राप्तं तावदप्राप्तं तावद्विधीयते। यथा-ऋत्विक्प्रचरणे प्रमाणान्तरात् सिद्धे ""लोहितोष्णीषा ऋत्विजः प्रचरन्ति"" इत्यत्र लोहितोष्णीषत्वमात्रं विधेयम्। हवनस#्यान्यतः सिद्धेः ""दध्ना जुहोति"" इत्यादौ दध्यादेः करणत्वमात्रं विधेयम्।। व्कचिदुभयविधिः। व्कचित्त्रिविधिरपि। यथा-"रक्तं पटं वयः" इत्यादौ, एकविधिर्द्विविधिस्त्रिविधिर्वा ततश्व "यदेव विधेयं तत्रैव तात्पर्यम्" इत्युपात्तस्यैव शब्दस्यार्थे तात्पर्यं न तु प्रतीतमात्रे। एवं हि "पूर्वो धावति" इत्यादावपराद्यर्थेऽपि क्कचित्तात्पर्यंस्यात्। यत्तु "विषं भक्षय मा चास्य गृहे भुङ्क्थाः" इत्यत्र "एतद्गृहे न भोक्तव्यम्" इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति, उच्यते तत्र चकार एकवाक्यतासूचनार्थः, न चाख्यातवाक्ययोद्र्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेनाङ्गता सल्प नीयेति "विषभक्षण#ादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुङ्क्थाः" इति, उपात्तशब्दार्थे, एव तात्पर्यम्। यदि चशब्दश्रुतेरनन्तरं यावानर्थो लभ्यते तावति शब्दस्याभिधैव व्यापारः, ततः कथं "ब्राढद्धठ्ठड़14;नण पुत्रस्ते जातः, ब्राढद्धठ्ठड़14;नण कन्या ते गर्भिणी" इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् कस्माच्च लक्षणा लक्षणीयेऽप्यर्थे दीर्घदीर्घतराभिधाव्यापारेणैव प्रतीतिसिद्धेः। किमितिच श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वम् इत्यन्विताभिधानवादेऽपि विधेरपि सिद्धं व्यङ्ग्चत्वम्। किं च "कुरु रुचिम्" इति पदयोर्वैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम्। न ढद्धठ्ठड़14;नत्रासभ्योऽर्थः पदार्थान्तरैरन्वितः, इत्यनभिधेय एवेति, एवमादि, अपरित्याज्यं स्यात्। यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं सष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात्। न चानुपपन्नम् सर्वस्यैव विभक्ततया प्रतिभासात्। वाच्यवाचकभावव्यतिरेकेण व्यङ्ग्यव्यञ्जकताश्रयणे तु व्यङ्ग्यस्य बहुविधत्वात् व्कचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था। "द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः।" इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम्। अपि च वाच्योऽर्थः सर्वान प्रतिपत्त्ट्टन् प्रति, एकरूप एवेति नियतोऽसौ। न हि "गतोऽस्तमर्कः"इत्यादौ वाच्योऽर्थः व्कचिदन्यथा भवति। प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्रादिविशेषसहायतया नानात्वं भजते। तथा च "गतोऽस्तमर्कः" इत्यतः सपत्नं प्रत्यवस्कन्दन#ावसर इति, अभिसरणमुपक्रम्यतामिति प्राप्तप्रायस्ते प्रेयानिति कर्मकरणान्निवर्तामहे, इति सांध्यो विधिरुपक्रम्यतामिति दूरं मा गा इति सुरभयो गृहं प्रवेश्यन्तामिति संतापोऽदुना न भवतीति विक्रेयवस्तूनि संह्रियन्तामिति नागतोऽद्यापि प्रेयानित्यादिरनवधिव्र्यङ्ग्य#ोऽर्थः, तत्र तत्र प्रतिभाति। वाच्यव्यङ्ग्ययोः निःशेषेत्यादौ निषेधविध्यात्मना, ""मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु। सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ।। 133 ।।"" इत्यादौ संशयशान्तशङ्गार्यन्तरगतनिश्वयरूपेण, ""कथमवनिप दर्पो यन्निशातासिधारा- दलनगलितमूध्ना विद्विषां स्वीकृता श्रीः। ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ।। 134 ।।"" इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य, पूर्वपश्वाद्भावेन प्रतीतेः कालस्य शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाशयत्वेन च, आश्रयस्य शब्दानुशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धृमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्व करणात् कार्यस्य गतोऽस्तमर#्क इत्यादौ प्रदर्शितनयेन संख्यायाः, ""कस्स व ण होइ रोसो दट्ठूण पिआइ सव्वणं अहरं। सभमरपडड्डत्ध्;मग्घाइणि वारिअवामे सहसु एÏण्ह ।। 135 ।।"" इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वम् तत् व्कचिदपि नीलपीतादौ भेदो न स्यात्। उक्तं हि ""अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्व"" इति। वाचकानामर्थापेक्षा व्यञ्जकानां तु न तदपेक्षत्वमिति न वाचकत्वमेव व्यञ्जकत्वम्। किं च वाणीरकुडंड्डत्ध्;ग्वित्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं स्वरूपे, एव यत्र विश्राम्यति तत्र गुणीभूतव्यङ्ग्येऽतात्पर्यभूतोऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति। ननु "रामोऽस्मि सर्वं सहे" इति "रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्" इति "रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिदिं्ध पराम्" इत्यादौ लक्षणीयोऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्व भवति तदवगमश्व शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्वेति कोऽयं नूतनः प्रतीयमानो नाम। उच्यते--लक्षणीयस्यार्थस्य नानात्वेऽपि, अनेकार्थशब्दाभिधेयवन्नियतत्वमेव। न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते। प्रतीयमानस्तु प्रकरणादिविशेषवशेन नियतसंबन्धः, अनियतसंबन्धः संबद्धसंबन्धस्व द्योत्यते। न च ""अत्ता एत्थ णिमञ्जइ एत्थ अहं दिअहए पलोएहि। मा पहिअ रत्तिअन्धअ सेज्जाए मह णिमज्जहिसि ।। 136 ।।"" इत्यादौ विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाधः। तत्कथमत्र लक्षणा। लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम्। यथा च समयसव्यपेक्षा, अभिधा तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा, अत एवाभिधापुच्छभूता सेत्याहुः। न च लक्षणात्मकमेव ध्वननम् तदनुगमेन तस्य दर्शनात्। न च तदनुगतमेव, अभिधावलम्बनेनापि तस्य भावात्। न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः, न च शब्दानुसार्येव, अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य प्रसिद्धेरिति, अभिधातात्पर्यलक्षणात्मकव#्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारोऽनपढद्धठ्ठड़14;नवनीय एव। तत्र ""अत्ता, एत्थ"" इत्यादौ नियतसंबन्धः ""कस्स व ण होइ रोसो"" इत्यादौ, अनियतसंबन्धः। ""विपरीअरए लच्छी बम्हं दट्ठूण णाहिकमलठ्ठं। हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ ।। 137 ।।"" इत्यादौ संबद्धसंबन्धः। अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्यज्यते तन्निमीलनेन सूर्यास्तमयः, तेन पझस्य संकोचः, ततो ब्रढद्धठ्ठड़14;नणः स्थगमन् तत्र सति गोप्याङ्गस्यादर्शनेन, अनिर्यन्त्रणं निधुवनविलसितमिति। "अखण्डड्डत्ध्;बुद्धिनिग्र्राह्यो वाक्यार्थ एव वाच्यः, वाक्यमेव च वाचकम्" इति येऽप्याहुः, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षेऽप्यवश्यमुक्तोदाहरणादौ विध्यादिव्र्यङ्ग्य एव। ननु वाच्यादसंबद्धं तावन्न प्रतीयते यतः कुतश्वित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात्। एवं च संबन्धात् व्यङ्ग्यव्यञ्जकभावोऽप्रतिबन्धेऽवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरूपाल्लिढद्धठ्ठड़14;गाल्लिङ्गिज्ञानमनुमानं यत् तद्रूपः पर्यवस्यति। तथाहि-- ""भम धम्मिअ वीसद्धो सो सुणओ अज्ज मारिओ तेण। गोलाणइकच्छकुडंड्डत्ध्;गवासिणा दरिअसीहेण ।। 138 ।।"" अत्र गृहे श्वनिवृत्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति। यत् यत् भीरुभ्रमणं तत्तद्भयकारणनिवृच्युपलब्धिपूर्वकं गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः। अत्रोच्यते--भीरुरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण, अन्येन चैवंभूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुः शुनो बिभ्यदपि वीरत्वेन सिंहान्न बिभेतीति विरुद्धोऽपि गोदावरीतीरे सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्वितः, अपि तु वचनात् न चवचनस्य प्रामाण्यमस्ति, अर्थेनाप्रतिबन्धादित्यसिद्धश्व तत्कथमेवंविधाद्धेतोः साध्यसिद्धिः। तथा निःशेषच्युतेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति, अतश्वात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोगे, एव प्रतिबद्धानीत्यनैकान्तिकानि। व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम्। न चात्राधमत्वं प्रमाणप्रतिपन्नमिति कथमनुमानम्। एवंविधादर्थादेवंविधोऽर्थ उपपच्यनपेक्षत्वेऽपि प्रकाशते, इति व्यक्तिवादिनः पुनस्तत् अदूषणम्।। इति काव्यप्रकाशे धवनिगुणीभूतव्यङ्ग्यसंकीर्णभेदनिर्णयो नाम पञ्चम उल्लासः