काव्यप्रकाशः/द्वितीयः उल्लासः

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ द्वितीय उल्लासः ।।


क्रमेण शब्दार्थयोः स्वरूपमाह-- (सूदृ 5) स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा। अत्रेति काव्ये। एषां स्वरुपं वक्ष्यते।। (सूदृ 6) वाच्यादयस्तदर्थाः स्युः वाच्यलक्ष्यव्यङ्ग्याः।। (सूदृ 7) तात्पर्यार्थोऽपि केषुचित् ।। 6 ।। आकाढद्धठ्ठड़14;क्षायोग्यतासंनिधिवशाद्वक्ष्यमाणस्वरूंपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहिनान्वयवादिनां मतम्।। वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः।। (सूदृ 8) सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते। तत्र वाच्यस्य यथा" माए घरोवअरणं अज्ज हु णत्थि त्ति साहिअं तुमए। ता भण किं करणिज्जं एमेअ ण वासरो ठाइ ।।6।। अत्र स्वैरविहारार्थिनीति व्यज्यते। लक्ष्यस्य यथा साहेन्ती सहि सुहअं खणे खणे दूम्मिआसि मज्झकए। सब्भावणेहकरणिज्जसरिसअं दाव विरइअं तुमए ।।7।। अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्, तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम्। व्यङ्ग्यस्य यथा उअ णिच्चलणिप्पंदा भिसिणीपत्तम्मि रेहइ बलाआ। णिम्मलमरगअभाअणपरिठ्ठिआ संखसुत्ति व्व ।।8।। अत्र निष्पन्दत्वेन, आश्वस्तत्वम्, तेन च जनरहितत्वम्, अतः संकेतस्थानमेतदिति कयाचित् कंचित्प्रत्युच्यते। अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते।। वाचकादीनां क्रमेण स्वरूपमाह (सूदृ 9) साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ।। 7 ।। इहागृहीतसंकेतस्य शब्दस्यार्थप्रतीतेरभावात्संकेतसहाय एव शब्दोऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन संकेतो गृह्यते स तस्य वाचकः। (सूदृ 10) संकेतितस्वतुर्भेदो जात्यादिर्जातिरेव वा। यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव, तयाप्यानन्त्याव्द्यभिचाराच्च तत्र संकेतः कर्तुं न युज्यते, इति गौः शुक्लश्वलो डिड्डत्ध्;त्थ इत्यादीनां विषयविभागो न प्राप्नोतीति च तदुपाधावेव संकेतः। उपाधिश्व द्विविधः--वस्तुधर्मो वक्तृयदृच्छासंनिवेशितश्व। वस्तुधर्मोऽपि द्विविधः--सिद्धः साध्यश्व। सिद्धोऽपि द्विविधः--पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्व। तत्राद्यो जातिः उक्तं हि वाक्यपदीये "" न हि गौः स्वरूपेण गौर्नाप्यगौः, गोत्वाभिसंभन्धात्तु गौः"" इति। द्वितीयो गुमः। शुक्लादिना हि लब्धसत्तार्क वस्तु विशिष्यते। साध्यः पूर्वापरीभूतावयवः क्रियारूपः। डिड्डत्ध्;त्थादिशब्दानामन्त्यबुद्धिनिग्र्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डिड्डत्ध्;त्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति सोऽयं संज्ञारूपो यदृच्छात्मक इति। ""गौःशुक्लश्वलो डिड्डत्ध्;त्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः"" इति महाभाष्यकारः। परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम्। गुणक्रियायदृच्छानां वस्तुत एकरूपाणामप्याश्रयभेदाद्भेद इव लक्ष्यते। यथैकस्य मुखस्य खड्ड्डत्ध्;गमुकुरतैलाद्यालम्बनभेदात्। हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादि सामान्यम्। गुडड्डत्ध्;तण्डुड्डत्ध्;लादिपाकादिष्वेवमेव पाकत्वादि। बालवृद्धशुकाद्युदीरितेषु डिड्डत्ध्;त्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डिड्डत्ध्;त्थाद्यर्थेषु वा डिड्डत्ध्;त्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये। तद्वान् अपोहो वा शब्दार्थः कैश्विदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम्।। (सूदृ 11) स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ।। 8 ।। स इति साक्षात्संकेतितः। अस्येति शब्दस्य।। (सूदृ 12) मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात। अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ।। 9 ।। "कर्मणि कुशलः" इत्यादौ दर्भग्रहणाद्ययोगात् "गङ्गायां घोषः" इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासंभवोत् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च संबन्धे रूढितः प्रसिद्धेः, तथा गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्तिः, तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्योऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा। (सूदृ 13) स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्। उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।। 10 ।। "कुन्ताः प्रविशन्ति" "यष्टयः प्रविशन्ति" इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते। तत उपादानेनेयं लक्षणा। ""गौरनुबन्ध्यः"" इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते ""विशेष्यं नाभिधा गच्छेत् श्रीणशक्तिर्विशेपणे"" इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या। न ह्यत्र प्रयोजनमस्ति न वा रुढिरियम्। व्यक्त्यविनाभावित#्वात्तु जात्या व्यक्तिराक्षिप्यते। यथा क्रियतामित्यत्र कर्ता। कुर्वित्यत्र कर्म। प्रविश पिण्डड्डत्ध्;ीमित्यादौ गृहं भक्षयेत्यादि च। "पीनो देवदत्तो दिवा नभुङ्क्ते" इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात्। "गङ्गायां घोषः" इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति, इत्येवमादौ लक्षणेनैषा लक्षणा। उभयरुपा चेयं शुद्धा। उपचारेणामिश्रितत्वात्। अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थयम्। तटादीनां गङ्गादिशब्दैः प्रतिपादने तच्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसंप्रत्ययः। गढद्धठ्ठड़14;गासंबन्धमात्रप्रातीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः।। (सूदृ 14) सारोपान्या तु यत्रोक्तौ विषयी विषयस्यथा।। आरोप्यमाणः, आरोपविषयश्व यत्रानपढद्धठ्ठड़14;नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा।। (सूदृ 15) विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ।। 11 ।। विषयिणारोप्यमाणेनान्तःकृते निगीर्णे, अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात्।। (सूदृ 16) भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा। गौणौ शुद्धौ च विज्ञेयौ इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ "गौर्वाहीकः" इत्यत्र "गौरयम्" इत्यत्र च। अत्र हि स्वार्थसहचारिणो गुणा जाडड्डत्ध्;्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तेत्वमुपयान्ति, इति केचित्। स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न परार्थोऽभिधीयते, इत्यन्ये। साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते, इत्यपरे। उक्तं चान्यत्र ""अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते। लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता"" इति। अविनाभावोऽत्र संबन्धमात्रं न तु नान्तरीयकत्वम्। तेच्वे हि मञ्चाः क्रोशन्ति" इत्यादौ न लक्षणा स्यात्। अवनाभावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम्। "आयुर्गृतम्" "आयुरेवेदम्" इत्यादो च सादृश्यादन्यत् कार्यकारणबावादि संबन्धान्तरम्। एवमादौ च कार्यकारणभावादिलक्षणपूर्वे, आरोपाध्यवसाने। अत्र गौणभेदयोर्भेदेऽपि ताद्रूप्यप्रतीतिः सर्वथैवाभेदावगमश्व प्रयोजनम्। शुद्धभेदयोस्त्वन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि। व्कचित् तादत्र्यादुपचारः। यथा, इन्द्रार्था स्थूणा, इन्द्रः। व्कचनतम स्वस्वामिभावात्। यथा, राजकीयः पुरुषो राजा। व्कचित्, अवयवावयविभावात्। यथा, अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः। व्कचित् तात्कम्र्यात्। यथा, अतक्षा तक्षा।। (सूदृ 17) लक्षणा तेन षड्ड्डत्ध्;विधा ।। 12 ।। आद्यभेदाभ्यां सह।। सा च (सूदृ 18) व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने। प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव।। (सूदृ 19) तच्च गूढमगूढं वा। तच्चेति व्यङ्ग्यम्। गूढं यथा मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंश्था मतिः। उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ।।9।। अगूढं यथा श्रीपरिचयाज्जडड्डत्ध्;ा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्। उपदिशति कामिनीनां यौवनमद एव ललितानि ।।10।। अत्रोपदिशैतीति।। (सूदृ 20) तदेषा कथिता त्रिधा ।। 13 ।। अव्यङ्ग्या गूढव्यङ्ग्या, अगूढव्यढद्धठ्ठड़14;ग्या च।। (सूदृ 21) चज्ङूक्साक्षणिकः। शब्द इति संबध्यते। तद्भूस्तदाश्रयः।। (सूदृ 22) चत्र ल्आराको ल्ञ्जनात्मकः। कुत इत्याह (सूदृ 23) यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते।। 14 ।। फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया। प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीतिरपि तु तस्मादेव सब्दात्। न चात्र व्यञ्जनादृतेऽन्यो व्यापारः।। तथाहि (सूदृ 24) नाभिधा समयाभावात्। गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दाः संकेतिताः।। (सूदृ 25) हेत्वभावान् लक्षणा ।। 15 ।। मुख्यार्थबाधादित्रयं हेतुः।। तथा च (सूदृ 26) लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो। न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ।। 16 ।। यथा गङ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति तद्वत् यदि तटेऽपि सबाधः स्यात् तत् प्रयोजनं लक्षयेत्। न च तटं मुख्योऽर्थः। नाप्यत्र बाधः। न च गङ्गाशब्दार्थस्य तटस्य पावनत्वाद्यैर्लक्षणीयैः संबन्धः। नापि प्रयोजने लक्ष्ये किंचित् प्रयोजनम्। नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः।। (सूदृ 27) एवमप्यनवस्था स्याद् या मूलक्षयकारिणी। एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेणेति तदपि प्रयोजनान्तरेणेति प्रकृताप्रतीतिकृत् अनवस्था भवेत्।। ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते। "गङ्गायास्तटे घोषः" इत्यतोऽधिकस्यार्थस्य प्रतीतिश्व प्योजनमिति विशिष्टे लक्षणा Ïत्त्क व्यञ्जनयेत्याह। (सूदृ 28) प्रयोजनेन सहितं लक्षणीयं न युज्यते ।। 17 ।। कुत इत्याह (सूदृ 29) ज्ञानस्य विषयो ढद्धठ्ठड़14;नन्यः फलमन्यदुदाहृतम्। प्रत्यक्षादेर्नीलादिर्विषयः फलं तु प्रकटता संवित्तिवा।। (सूदृ 30) विशिष्टे लक्षणा नैवं व्याख्योतम्।। (सूदृ 31) विशेषाः स्युस्तु लक्षिते ।। 18 ।। तटादौ ये विषेषाः पावनत्वादयस्ते चाभिधातात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्याः। तच्च व्यञ्जनध्वननद्योतनादिशब्दवाच्यमवश्यमेषितव्यम्।। एवं लक्षणामूलं व्यञ्जकत्वमुक्तम्।। अभिधामूलं त्वाह। (सूदृ 32) अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते। संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ।। 19 ।। ""संयोगो विप्रयोगश्व साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः।। सामथ्र्यमौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः।।"" इत्युक्तदिशा सशङ्खचक्रो हरिः अशङ्खचक्रो हरिरित्यच्युते। रामलक्ष्मणाविति दाशरथौ। रामार्जुनगतिस्तयोरिति भार्गवकार्तवीर्ययोः। स्थाणुं भज भवच्छिदे, इति हर। सर्वं जानाति देव इति युष्मदर्थे। कुपितो मकरध्वज इति कामे। देवस्य पुरारादेरिति संभौ। मधुना मत्तः कोकिल इति वसन्ते। प#ातु वो दयितामुखमिति सांमुख्ये। भात्यत्र परमेश्वर इति राजधानीरूपात् देशाद्राजनि। चित्रबानुर्विभातीति दिने रवौ रात्रौ वढद्धठ्ठड़14;नौ। मित्रं भातीति सुहृदि, मित्रो भातीति रवौ। इन्द्रशत्रुरित्यादौ वेते एव, न काव्ये, स्वेरो विशेषप्रतीतिकृत्। आदिग्रहणात् एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं। एद्दहमेत्तावत्था एद्दहमेत्तेहि दिअएहिं ।।11।। इत्यादावभिनयादयः। इत्थं संयोगादिभिरर्धान्तराभिधायकत्वे निवारितेऽप्यनेकार्थस्य शब्दस्य यत् व्कचिदर्थान्तरप्रतिपादनं तत्र नाभिधा नियमनात्तस्याः। न च लक्षणा मुख्यार्थबाधाद्यभावात्। अपि त्वञ्जनं व्यञ्जनमेव व्यापारः। यथा भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य। यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्।।12।। (सूदृ 33) तद्युक्तो व्यञ्जकः शब्दः तद्युक्तो व्यञ्जनर्युक्तः (सूदृ 34) यत्सोऽर्थान्तरयुक् तथा। अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ।। 20 ।। तथेति व्यञ्जकः।। इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः ।। 2 ।।