काव्यप्रकाशः/दशमः उल्लासः

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ दशम उल्लासः ।।


अर्थालंकारानाह-- (सूदृ 125) साधम्र्यमुपमा भेदे उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधम्र्यं भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा। भेदग्रहणमनन्वयव्यवच्छेदाय।। (सूदृ 126) पूर्णा लुप्ता च उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानुमुपादाने पूर्णा, एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता। (सूदृ 127) श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ।।87।। अग्रिमा पूर्णा। यथेववादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युमानविशेषणान्येते तथापि शब्दशक्तिमहिम्ना श्रुत्यैव षष्ठीवत् संबन्दं प्रतिपादयन्तीति तत्सद्भावे श्रौती, उपमा। तथैव ""तत्र तस्येव"" इत्यनेनेवार्थे विहितस्य वतेरुपादाने।। "तेन तुल्यं मुखम्" इत्यादावुपमेये, एव "तत्तुल्यमस्य" इत्यादौ चोपमाने, एव "इदं च तच्च तुल्यम्" इत्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधम्र्यस्यार्थत्वात्तुल्यादिशब्दोपादाने, आर्थी तद्वत् "तेन तुल्यं क्रिया चेद्वतिः" इत्यनेन विहितस्य वतेः स्थितौ। ""इवेन नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च"" इति नित्यसमासे, इवशब्दयोगे समासगा। क्रमेणोदाहरणम्-- स्वप्नेऽपि समरेषु त्वां विजयश्रीर्न मुञ्चति। प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ।। 392 ।। चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति। सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते ।। 393 ।। अत्यायतैर्नियमकारिभिरूद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः। शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार ।। 394 ।। अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः। सुरतरुसदृशः स भवानभिलषणीयः क्षितीश्वर न कस्य ।। 395 ।। गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत्। दुरालोकः स समरे निदाघाम्वररत्नवत् ।। 396 ।। स्वाधीनपतिका कान्तं भजमाना यथां लोकोत्तरचमत्कारभूः, तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम्, वैचित्र्यं चालंकारः, तथापि न ध्वनिगुणीभूतव्यङ्ग्यव्यवहारः। न खलु व्यङ्ग्यसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः, अपि तु वाच्यवैचित्र्यप्रतिभासादेव। रसादिस्तु व्यङ्ग्योऽर्थोऽलंकारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैव तदलंकारा उदाहृताः। तद्रहितत्वेन तु, उदाह्रियमाणा विरसतामावहन्तीति पूर्वापरविरुद्धाभिधानमिति न चोदनीयम्।। (सूदृ 128) तद्वत् धर्मस्य लोपे स्यात् न श्रौती तद्धिते पुनः। धर्मः साधारणः। तद्धिते कल्पबादौ त्वाथ्र्येव। तेन पञ्च। उदाहरणम्-- धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः करणीयं वचश्वेतः सत्यं तस्यामृतं यथा ।। 397 ।। आकृष्टकरवालोऽसौ संपराये परिभ्रमन्। प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ।। 398 ।। करवालइवाचारस्तस्य वागमृतोपमा। विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे ।। 399 ।। (सूदृ 129) उपमानानुपादाने वाक्यगाथ समासगा ।।88।। सअलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स। दीसइ अह व णिसम्मइ सरिसं अंसंसमेत्तेण ।। 400 ।। कव्वस्सेत्यत्र कव्वसममिति सरिसमित्यत्र च णूणमिति पाठे, एषैव समासगा।। (सूदृ 130) वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि। कर्मकत्र्रोर्णमुलि वाशब्दः, उपमाद्योतक इति वादेरुपमाप्रतिपादकस्य लोपे षट् समासेन सर्मणोऽधिकरणाच्चोत्पन्नेन क्यचा कर्तुः क्यङा कर्मकत्र्रोरुपपदयोर्णमुला च भवेत्।। उदाहरणम्-- ततः सुमुदनाथेन कामिनीगण्डड्डत्ध्;पाण्डुड्डत्ध्;ना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।। 401 ।। तथा असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः। पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ।। 402 ।। पैरं सुतीयति जनं समरान्तरेऽसावन्तः पुरीयति विचित्रचरित्रचुञ्चुः। नारीयते समारसीम्नि कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना ।। 403 ।। मृधे निदाघघर्मांशुदर्शं पश्यन्ति तं परे। स पुनः पार्थसंचारं संचरत्यवनीपतिः ।। 404 ।। (सूदृ 131) एतद्द्विलोपे व्किप्समासगा ।।89।। एतयोर्धर्मवाद्योः। उदाहरणम्-- सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः। यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ।। 405 ।। परिपन्थिमनोराज्यशतैरपि दुराक्रमः। संपरायप्रवृत्तौऽसौ राजते राजकुञ्जरः ।। 406 ।। (सूदृ 132) धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते। टुण्टुण्णन्तो मरिहसि कण्टअकलिआइँ केअइवणाइँ। माहइकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ।। 407 ।। कुसुमेण सममिति पाठे वाक्यगा। (सूदृ 133) क्यचि वाद्युपमेयासे आसे निरासे। अरातिविक्रमालोकविकस्वरविलोचनः। कृपाणोदग्रदोर्दण्डड्डत्ध्;ः स सहस्रायुधीयति ।। 408 ।। अत्रात्मा, उपमेयः। (सूदृ 134) त्रिलोपे च समासगा ।।90।। त्रयाणां वादिधर्मोपमानानाम्। उदाहरणम्-- तरुणिमनि कृतावलोकना ललितविलासवितीर्णविग्रहा। स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः ।। 409 ।। अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ भवतः, तदेदमुदाहरणम्।। क्रूरस्याचारस्यायःशूलतयाध्यवसायात् अयःशूलेनान्विच्छति "आयःशूलिकः" इत्यतिशयोक्तिर्न तु क्रूराचारोपमेयतैक्ष्ण्यधर्मवादीनां लोपे त्रिलोपेयमुपमा। एवमेकोनविंशतिर्लुप्ताः पूर्णाभिः सह पञ्चविंशतिः।। अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता। मम्लौ साथ विषादेन पझिनीव हिमाम्भसा ।। 410 ।। इत्यभिन्ने साधारणे धर्मे, ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम्। प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ।। 411 ।। इति भेन्ने च तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा। यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे, अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः। भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ।। 412 ।। मतिरिव मूर्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता। तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ।। 413 ।। इत्यादिका रशनोपमा च न लक्षिता, एवंविधवैचित्र्यसहस्रसंभवात् उक्तभेदानतिक्रमाच्च।। (सूदृ 135) उपमानोपबमेयत्वे, एकस्यैवैकवाक्यगे। अनन्वयः उपमानान्तरसंबन्धाभावोऽनन्वयः। उदाहरणम्-- न केवलं भाति नितान्तकान्तिर्निंतम्बिनी सैव नितम्बिनीव। यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ।। 414 ।। (सूदृ 136) विपर्यास उपमेयोपमा तयोः ।।91।। तयोः, उपमानोपमेययोः। परिवृत्तिः, अर्थात् वाक्यद्वये। इतरोपमानव्यवच्छेदपरा, उपमेयेनोपमा, इति, उपमेयोपमा। उदाहरणम्-- कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः। धरणीव धृचिर्धृतिरिव धरणी सततं विभाति बत यस्य ।। 415 ।। (सूदृ 137) संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्। समेन, उपमानेन। उदारहणम्-- उन्मेषं यो मम न सहते जातिवैरी निशायाम् इन्तोरिन्तीवरदलदृशा तस्य सौन्दर्यदर्पः। नीतः शाÏन्त प्रसभमनया वक्त्रकान्त्येति हर्षा- ल्लग्रा मन्ये ललिततनु ते पादयोः पझलक्ष्मीः ।। 416 ।। लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। असत्पुरुषसेवेव दष्टिर्विफलतां गता ।। 417 ।। इत्यादौ व्यापनादि लेपनादिरूपतया संभावितम्।। (सूदृ 138) ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ।।92।। भेदीक्तौ यथा अयं मार्तण्डड्डत्ध्;ः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम्। कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ।। 418 ।। भेधोक्तावित्यनेन न केवलमयं निश्वयगर्भो यावन्निस्वयान्तोऽपि संदेहः स्वीकृतः। यथा इन्दुः किं व्क कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम्। ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्वितं परतः ।। 419 ।। किं तु निश्वयगर्भ इव नात्र निश्वयः प्रतीयमान इति, उपेक्षितो भट्टोद्भटेन। तदनुक्तौ यथा अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः। वेदाभ्यासजडड्डत्ध्;ः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।। 420 ।। (सूदृ 139) तद्रूपकमभेदो य उपमानोपमेययोः। अतिसाम्यात् अनपढद्धठ्ठड़14;नुतभेदयोः, अभेदः। (सूदृ 140) समस्तवस्तुविषयं श्रौता आरोपिता यदा ।।93।। आरोपविषया इव आरोप्यमाणाः, यदा शब्दोपात्ताः, तदा समस्तानि वस्तूनि विषयोऽस्येति समस्तवस्तुविषयम्। आरोपिता इति बहुवचनमविवक्षितम्। यथा ज्योत्स्नाभस्मच्छुरणदवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाद्द्वीपं भ्रमति दधती चन्दर्मुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।। 421 ।। अत्र पादत्रये, अन्तर्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्तीति तत्संकराशङ्का न कार्या।। (सूदृ 141) श्रौता आर्थाश्व ते यस्मिन्नेकदेशविवर्ति तत्।। केचिदारोप्यमाणाः शब्दोपात्ताः कोचिदर्थसामथ्र्यादवसेयाः, इत्येकदेशविवर्तनात् एकदेशविवर्ति। यथा जस्स रणन्तेउरए करे कुणन्तस्स मण्डड्डत्ध्;लग्गलअम्। रससंमुही वि सहसा परंमुही होइ रिउसेणा ।। 422 ।। अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दोपात्म् मण्डड्डत्ध्;लाग्रलतायाः नायिकात्वम् रिपुसेनायाश्व प्रतिनायिकात्वम् अर्थसामथ्र्यादवसीयते, इति, एकदेशे विशेषेण वर्तनादेकदेशविवर्ति। (सूदृ 142) साढद्धठ्ठड़14;गमेतत् उक्तद्विभेदं सावयवम्।। (सूदृ 143) निरङ्गं तु शुद्धम् यथा कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्रयति यत्। अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम ।। 423 ।। (सूदृ 144) माला तु पूर्ववत् ।।94।। मालोपमायामिवैकस्मिन् बहव आरोपिताः। यथा सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः। विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडड्डत्ध्;ामणिः सा प्रिया ।। 424 ।। (सूदृ 145) नियतारोपणोपायः स्यादारोपः परस्य यः। तत् परंपरितं श्लिष्टे वाचके भेदभाजि वा ।।95।। यथा विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्खीकारवैश्वानर। सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ।। 425 ।। अत्र मानसमेव मानसम् कमलायाः संकोच एव कमलानामसंकोचः, दुर्गाणाममार्गणमेव दुर्गायाः मार्गणम् समितां स्वीकार एव समिधां स्वीकारः सत्ये प्रीतिरेव सत्यामप्रीतिः, विजयः परपराभव एव विजयोऽजुनः, एवमारोपणनिमित्तो हंसादेरारोपः। यद्यपि शब्दार्थालंकारोऽयमित्युक्तम् वक्ष्यते च तथापि प्रसिद्ध्यनुरोधादत्रोक्तः, एकदेशविवर्ति हीदमन्यैरभिधीयते। भेदभाजि यथा आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्ढमहसो लीलोपधानं श्रियः। संग्रामामृतसागरप्रमथनक्रीडड्डत्ध्;ाविदौ मन्दरो राजन् राजति वीरवैरिवनितावैधव्यदसते भुजः ।। 426 ।। अत्र जयोदेर्भिन्नशब्दवाच्यस्य कुज्जरत्वाद्यारोपे भुजस्य, आलानत्वाद्यारोपो युज्यते। अलौकिकमहालोकप्रकाशितजगत्र्रयः। स्तूयते देव सद्वंसमुक्तारत्नं न कैर्भवान् ।। 427 ।। निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम्। प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ।। 428 ।। इति च, अमालारूपकमपि परंपरितं द्रष्टव्यम्।। किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति। नलिनीनां कमलमुस्वैः मुखेन्दुभिर्योषितां मदनः ।। 429 ।। इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम्।। (सूदृ 146) प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपढद्धठ्ठड़14;नुतिः। उपमेयम् असत्यं कृत्वोपमानं सत्यतया यत् स्थाप्यते सा तु, अपढद्धठ्ठड़14;नुतिः। उदाहरणम्-- अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाढद्धठ्ठड़14;कस्य वपुषि। अमुष्येयं मन्ये विगलदमृतस्यन्तशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ।। 430 ।। इत्थं वा बत सखि कियदेतत् पश्य वैरं स्मरस्य प्रियविरहकृशेऽस्मिन् रागिलोके तथा हि। उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ।। 431 ।। अत्र हि न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इति प्रतीतिः। एवं वा अमुÏष्मल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृषुजघनभागे निपतितः। यदङ्गाङ्गाराणां प्रतमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ।। 432 ।। अत्र न रोमावलिः, धूमशिखेयमिति प्रतिपत्तिः। एवमियं भङ्ग्यन्तरैरप्यूह्या।। (सूदृ 147) श्लेषः स वाक्ये, एकस्मिन् यत्रानेकार्थता भवेत् ।।96।। एकार्थप्रतिपादकानामव शब्दानां यत्रानेकोऽर्थः स श्लेषः। उदाहरणम्-- उदयमयते दिङ्भालिन्यं निराकुरुतेतराम् नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः। रचयतितरां स्वैराचारप्रवर्तनकर्तनम् वत बत लसत्तेजःपुञ्जो विभाति विभाकरः ।। 433 ।। अत्राभिधाया अनियन्त्रणात् द्वावप्यर्कभूपौ वाच्यौ।। (सूदृ 148) परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः प्रकृतार्थप्रतिपादकवाक्येन श्लिष्टविशेषणमाहात्मयात् न तु विशेष्यस्य सामथ्र्यादपि यत् अप्रकृतस्यार्थस्याभिधानम् सा समासेन संक्षेपेणार्थद्वयकथनात् समासोक्तिः। उदाहरणम्--लहिऊण तुज्झ बाहुफ्फंसं जीए स को वि उल्लासो। जअलच्छी तुह विरहे ण हूज्जला दुब्बला णं सा ।। 434 ।। अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति।। (सूदृ 149) निदर्शना। अभवनवस्तुसंबन्द उपमापरिकल्पकः ।।97।। निदर्शनं दृष्टान्तकरणम्। उदाहरणम्-- व्कसूर्यप्रभवो वंशः व्क चाल्पविषया मतिः। तितीर्षुर्दुस्तरं मोहादुडुड्डत्ध्;पेनास्मि सागरम् ।। 435 ।। अत्र, उडुड्डत्ध्;पेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमायां पर्यवस्यति। यथा वा उदयति विततोध्र्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्। वहति गिरिरयं विलम्विघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। 436 ।। अत्र कथमन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम्। दोभ्र्यां तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कविम्बम्। मेरुं लिलङ्घयिषति ध्रुवमेष देव यस्ते गुणान् गदितुमुद्यममादधाति ।। 437 ।। इत्यादौ मालारूपापायेषा द्रष्टव्या।। (सूदृ 150) स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा। क्रिययैव स्वस्वरूपस्वकारणयोः संबन्धो यदवगम्यते सा, अपरा निदर्शना। यथा उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन्। शैलशेखरगतो दृषत्कणश्वारुमारुतधुतः पतत्यधः ।। 438 ।। अत्र पातक्रियया पतनस्य लाघवे सति, उन्नतपदप्राप्तिरूपस्य च संबन्धः ख्याप्यते।। (सूदृ 151) अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ।।98।। अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपोऽप्रस्तुतप्रशंसा। (सूदृ 152) कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति। तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ।।99।। तदन्यस्य कारणादेः। क्रमेणोदाहरणम्-- याता किं न मिलन्ति सुन्दरि पुनश्विन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि। लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ।। 439 ।। अत्र प्रस्थानात्किमिति निवृत्तोऽसीति कार्ये पृष्टे कारणमभिहितम्। राजन्तराजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते। इत्यं नाथ शुकस्तावारिभवने मुक्तोऽध्वगैः पञ्जरात् चित्रस्थानवलोक्य शून्यवलभावेकैकमाबाषते ।। 440 ।। अत्र प्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गताः, इति कारणे प्रस्तुते कार्यमुक्तम्। एतत्तस्य मुखात्कियत् कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडड्डत्ध्;ः शृण्वन्यदस्मादपि। अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्ड्डत्ध्;डड्डत्ध्;ीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ।। 441 ।। अत्रास्थाने जडड्डत्ध्;ानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः। सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः। स एव पूज्यः स पुमान्स नीतिमान्सुजीवितं तस्य स भाजनं श्रियः ।। 442 ।। अत्र "कृष्णं निहत्य नरकासुरवधूनां यदि दुःखं प्रशमयसि तत् त्वमेव श्लाघ्यः" इति विशेषे प्रकृते सामान्यममिहितम्। तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः। श्लेषः समासोक्तिः सादृश्यमात्रं वा तुल्यात् तुल्यस्य ह्याक्षेपे हेतुः। क्रमेणोदाहरणम्-- पुंस्त्वादपि प्रविचलेत् यदि यद्यधोऽपि यायात् यदि प्रणयने नमहानपि स्यात्। अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन ।। 443 ।। येनास्यभ्युदितेन चन्द्र गमितः क्लाÏन्त रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः। क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनाग् अस्त्वेनं जडड्डत्ध्;धामता तु भवतो यद् व्याम्नि विस्फूर्जसे ।। 444 ।। आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन। क्षारीकृतं च वडड्डत्ध्;वादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ।। 445 ।। इयं च काचित् वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवति। यथा अब्धेरम्भः स्थगितभुवनाबोगपातालकुक्षेः पोतोपाया इह हि बहवो लङ्घनेऽपि क्षमन्ते। आहो रिक्तः कथमपि भवेदेष दैवात् तदानीं को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ।। 446 ।। व्कचिदध्यारोपेणैव। यथा कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ।। 447 ।। व्कचिदंशेष्वध्यारोपेण। यथा सोऽपूर्वो रसनाविपर्ययविधिः तत् कर्णयोश्वापलं दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयकोक्तेन वा। सर्वं विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसौ अन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ।। 448 ।। अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः, मदः प्रत्युत सेवने निमित्तम्।। (सूदृ 153) निगीर्याध्यवसानं तु प्रकृतस्य परेण यत्। प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ।।100।। कार्यकारणयोर्यश्व पौर्वापर्यविपर्ययः। विज्ञेयातिशयोक्तिः सा उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका। यथा कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरंपरां केयम् ।। 449 ।। अत्र मुखादि कमलादिरूपतयाध्यवसितम्। यच्च तदेवान्यत्वेनाध्यवसीयते सा, अपरा। यथा अण्णं लडड्डत्ध्;हत्तणअं अण्णा विअ का वि वत्तणच्छाआ। सामा सामण्णपआवइणो रेह च्चिअ ण होई ।। 450 ।। "यद्यर्थस्य" यदिशब्देन चेच्छब्देन वा, उक्तौ यत् कल्पनम् (अर्थात् असंभविनोऽर्थस्य) सा तृतीया। यथा राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः। तस्या मुखं तदा साम्यपराबवमवाप्नुयात् ।। 451 ।। कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी। यथा हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन। चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ।। 452 ।। (सूदृ 154) प्रतिवस्तूपमा तु सा ।।101।। सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः। साधारणो धर्मः, उपमेयवाक्ये, उपमानवाक्ये च कथितपदस्य दुष्टतयाभिहितत्वात् शब्दभेदेन यत् उपादीयते सा वस्तुनो वाक्यार्थस्योपमानत्वात् प्रतिवस्तूपमा। यथा देवीभावं गमिता परिवारपदं कथं भजत्वेषा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ।। 453 ।। यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः। लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ।। 454 ।। इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या। एवमन्यत्राप्यनुसर्तव्यम्।। (सूदृ 155) दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ।।102।। एतेषां साधारणधर्मादीनाम दृष्टोऽन्तः निश्वयो यत्र स दृष्टान्तः। त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्। आलोके हि हिमांसोर्विकसति कुसुमं कुमुद्धत्याः ।। 455 ।। एष साधम्र्येण। वैधम्र्येण तु तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः। भटाः परेषां विशरारुतामगुः, दधत्यवाते स्थिरतां हि पांसवः ।। 456 ।। (सूदृ 156) सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्। सैव क्रियासु बढद्धठ्ठड़14;वीषु कारकस्येति दीपकम् ।।103।। प्राकरणिकाप्राकरणिकानाम अर्थात् उपमानोपमेयानाम् धर्मः क्रियादिः, एकवारमेव यत् उपादीयते तत् एकस्थस्यैव समस्तवाक्यदीपनात् दीपकम्। यथा किवणाणँ धणं णाआणं फणमणी केशराइँ सीहाणं। कुलबालिआणँ त्थणआ कुत्तो चिप्पन्ति अमुआणं ।। 457 ।। कारकस्य च बढद्धठ्ठड़14;वीषु क्रियासु सकृद्वृत्तिर्दीपकम्। यथा स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक्। अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ।। 458 ।। (सूदृ 157) मालादीपकमाद्यं चेद्यथोत्तरगुणावहम्। पूवेंण पूर्वेण वस्तुना, उत्तरमुत्तरं चेदुपक्रियते तत् मालादीपकम्। यथा संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेड्डत्ध्;न शराः शरैररिशिरस्तेनापि भूमण्डड्डत्ध्;लं तेन त्वं भवता च कीर्तिरतुला कीत्र्या च लोकत्रडड्डत्ध्;लं तेन त्वं भवता च कीर्तिरतुला कीत्र्या च लोकत्रयम् ।। 459 ।। (सूदृ 158) नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ।।104।। नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा। क्रमेणोदाहरणम्-- पाण्डुड्डत्ध्; क्षामं वदनं हृदयं सरसं तवालसं च वपुः। आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ।। 460 ।। कुमुदकमलनीलनीरजालिर्ललितविलासजुषोद्र्दशोः पुरः का। अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य ।। 461 ।। (सूदृ 159) उपमानाद्यदन्यस्य व्यतिरेकः स एव सः। अन्यस्योपमेयस्य व्यतिरेक आधिक्यम्। क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम्। विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।। 462 ।। इत्यादानुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तम् तदयुक्तम् अत्र यौवनगतास्थैर्याधिक्यं हि विवक्षितम्। (सूदृ 160) हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ।।105।। शब्दार्थाब्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत्। व्यतिरेकस्य हेतुः, उपमेयगतमुत्कर्षनिमित्तम् उपमानगतमपकर्षकारणम् तयोद्र्वयोरुक्तिः, एकतरस्य द्वयोर्वा, अनुक्तिरित्यनुक्तित्रयम् एतद्भेदचतुष्टयमुपमानोपमेयभावे शब्देन प्रतिपादिते, आर्थेन च क्रमेणोक्ताश्वत्वार एव भेदाः, आक्षिप्ते चौपम्ये तावन्त एव, एवं द्वादश। एते श्लेषेऽपि भवन्तीति चतुर्विंशतिर्भेदाः। क्रमेणोदाहरणम्-- असिमात्रसहायस्य प्रभूतारिपराभवे। अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ।। 463 ।। अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानुपादानेऽन्यत् भेदत्रयम्। एवमन्येष्वपि द्रष्टव्यम्। अत्र, इवाशब्दस्य सद्भावाच्छाब्दमौपम्यम्। असिमात्रसहायोऽपि प्रभूतारिपराभवे। नैवान्यतुच्छजनवत्सगर्वोऽयं महाधृतिः ।। 464 ।। अत्र तुल्यार्थे वतिरित्यार्थमौपम्यम्। इयं सुनयना दासीकृततामरसश्रिया। आननेनाकलङ्केन जयतीन्दुं कलङ्किनम् ।। 465 ।। अत्रेवादितुल्यादिपदविरहेण, आक्षिप्तैवोपमा। जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः। अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः ।। 466 ।। अत्रेवार्थे वतिः, गुणशब्दः श्लिष्टः शाब्दमौपम्यम्। अखण्डड्डत्ध्;मण्डड्डत्ध्;लः श्रीमान् पश्यैष पृथिवीपतिः। न निशाकरवज्जातु कलावैकल्यमागतः ।। 467 ।। अ6 तुल्यार्थे वतिः कलाशब्दः श्लिष्टः। मालाप्रतिकस्तूपमावत् मालाव्यतिरेकोऽपि संभवति। तस्यापि भेदा एवमूह्याः। दिङ्भात्रमुदाढिद्धठ्ठड़14;वयते। यथा हरवन्न विषमदृष्टिर्हरिवन्न विभो विधूतविततवृषः। रविवन्न चातिदुःसहकरतापितभूः कदाचिदसि ।। 468 ।। अत्र तुल्यार्थे वतिः विषमादयश्व शब्दाः श्लिष्टाः। नित्योदितप्रतापेन त्रियामामीलितप्रभः। भास्वतानेन भूपेन भास्वानेष विनिर्जितः ।। 469 ।। अत्र ह्याक्षिप्तैवोपमा भास्वतेति श्लिष्टः। यथा वा स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं बिम्बप्रभाधरमकृत्रिमहृद्यगन्धम्। यूनामतीव पिबतां रजनीषु यत्र तृष्णां जहार मधु नाननमङ्गनानाम् ।। 470 ।। अत्रेवादीनां तुल्यादीनां च पदानामभावेऽपि श्लिष्टविशेषणैराक्षिप्तैवोपमा प्रतीयते। एवंजातीयकाः श्लिष्टोक्तियोग्यस्य पदस्य पृथगुपादानेऽन्येऽपि भेदाः संभवन्ति। तेऽपि, अनयैव दिशा द्रष्टव्याः।। (सूदृ 161) निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ।।106।। वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः। विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य, अशक्यवक्तव्यत्वमतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्वेति द्विधा, आक्षेपः। क्रमेणोदाहरणम्-- ए एहि किंपि कीएवि कएण णिव्किव भणामि अलमह वा। अविआरिअकज्जारम्भआरिणी मरउ ण भणिस्सं ।। 471 ।। ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः। अन्यर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर- व्यापाराय भवन्ति इन्त हन्त किमनेनोक्तेन न ब्रूमहे ।। 472 ।। (सूदृ 162) क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ।।107।। हेतुरूपक्रियायाः, निषेधेऽपि तत्फलप्रकाशनं विभावना। यथा कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि। परिवर्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा ।। 473 ।। (सूदृ 163) विशेषोक्तिरखण्डेड्डत्ध्;षु कारणेषु फलावचः। मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः। अनुक्तनिमित्ता, उक्तनिमित्ता, अचिन्त्यनिमित्ता च। क्रमेणोदारहणम्-- निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं पराप्ते। श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा ।। 474 ।। कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने। नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ।। 475 ।। स एकस्त्रीणि जयति जगन्ति कुसुमायुधः। हरतापि तनुं यस्य शंभुना न बलं हृतम् ।। 476 ।। (सूदृ 164) यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ।।108।। यथा एकस्त्रिधा वससि चेतसि चित्रमत्र देव द्विषां च विदुषां च मृगीदृशां च। तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च ।। 477 ।। (सूदृ 165) सामान्यं वा विशेषो वा तदन्येन समथ्र्यते। यत्तु सोऽर्थान्तरन्यासः साधम्र्येणेतरेण वा ।।109।। साधम्र्येण वैधम्र्येण वा सामान्यं विशेषेण यत् समथ्र्यते विशेषो वा सामान्येन सोऽर्थान्तरन्यासः। क्रमेणोदाहणम्-- निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्। पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ।। 478 ।। सुसितवसनालंकारायां कदाचन कौमुदी- महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः। तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का व्क नासि शुभप्रदः ।। 479 ।। गुणानामेव दौरात्म्यात् धुरि धुर्यो नियुज्यते। असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ।। 480 ।। अहो हि मे बढद्धठ्ठड़14;वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम्। त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ।। 481 ।। (सूदृ 166) विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः। वस्तुवृत्तेनाविरोधेऽपि विरुद्धयोरिव यदभिधानं स विरोधः। (सूदृ 167) जातिश्वतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणस्त्रिभिः ।।110।। क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश। क्रमेणोदाहरणम्-- अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः। सुभग कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ।। 482 ।। गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः। विश्वंभराप्यतिलघुर्नरनाथ तवान्तिके नियतम् ।। 483 ।। येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराधर- स्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च। तेषां संगरसढद्धठ्ठड़14;गसक्तमनसां राज्ञां त्वया भूपते पांसूनां पटलैः प्रशाधनविधिर्निर्वत्र्यते कौतुकम् ।। 484 ।। सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम्। अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ।। 485 ।। सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते। द्विजपत्नीनां पठिनाः सति भवति कराः सरोजसुकुमाराः ।। 486 ।। पेशलमपि खलवचनं दहतितरां मानसं सतच्वविदाम्। परुषमषि सुजनवाक्यं मलयजरसवत् प्रमोदयति ।। 487 ।। क्रौञ्चाद्रिरुद्दामदृषद्दृढोऽसौ यन्मार्गणानर्गलशातपाते। अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ।। 488 ।। परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवात्। विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जढयति च तापं च कुरुते ।। 489 ।। अयं वारामेकी निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ।। 490 ।। समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात्। क्षितितिलक त्वयि तटजुषि शंकरचूडड्डत्ध्;ापगापि कालिन्दी ।। 491 ।। (सूदृ 168) स्वभावोक्तिस्तु डिड्डत्ध्;म्भादेः स्वक्रियारूपवर्णनम् ।।111।। स्वयोस्तदेकाश्रययोः। रूपं वर्णः संस्थानं च। उदाहरणम्-- पश्वादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैः आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय। घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डड्डत्ध्;स्तुरङ्गो मन्दं शब्दायमानो विलखति शयनादुत्थितः क्ष्मां खुरेण ।। 492 ।। (सूदृ 169) व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा। व्याजरूपा व्याजेन वा स्तुतिः । क्रमेणोदाहरणम्-- हित्वा त्वामुपरोधवनध्यमनसां मन्ये न मौलिः परो लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते। यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः ।। 493 ।। हे हेलाजितबौधिसच्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः। तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो- भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ।। 494 ।। (सूदृ 170) सा सहौक्तिः सहार्थस्य बलादेकं द्विवाचकम् ।।112।। एकार्थाबिधायकमपि सहार्थबलात् यत् उभयस्याप्यवगमकं सा सहोक्तिः। यथा सह दिअहणिसाहिं दीहरा सासदण्डड्डत्ध्;ा सह मणिवलयेहिं बाप्पधारा गलन्ति। तुह सुहअ विओए तीअ उव्विग्गिरीए सह अ तणुलदाए दुब्बला जीविदासा ।। 495 ।। श्वासदण्डड्डत्ध्;ादिगतं दीर्गत्वादि शाब्दम् दिवसनिशादिगतं तु सहार्थसामथ्र्यात्प्रतिपद्यते।। (सूदृ 171) विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः। क्कचिदशोभनः व्कचिच्छोभनः। क्रमेणोदाहरणम्-- अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः। उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ।। 496 ।। मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः। अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ।। 497 ।। (सूदृ 172) परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः ।।113।। परिवृत्तिरलंकारः। उदाहरणम्-- लतानामेतासामुदितकुसुमानां मरुदयं मतं लास्यं दत्वा श्रयति भृशमामोदमसमम्। लतास्त्वध्वन्यानामहह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ।। 498 ।। अत्र प्रथमेऽर्धे समेन समस्य द्वितीये, उत्तमेन न्यूनस्य। नानाविधप्रहरणैर्नृप संप्रहारे स्वीकृत्य दारुणनिनादवतः प्रहारान्। दृपातारिवीरविसरेण वसुंधरेयं निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा ।। 499 ।। अत्र न्यूनेनोत्तमस्य।। (सूदृ 173) प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः। तद्भाविकम् भूताश्व भाविनश्वेति द्वन्द्वः। भावः कवेरभिप्रायोऽत्रास्तीति भाविकम्। उदाहरणम्-- आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ।। 500 ।। आद्ये भूतस्य द्वितीये भाविनो दर्शनम्।। (सूदृ 174) काव्यलिङ्गं हेतोर्वाक्यपदार्थता ।।114।। वाक्यार्थता यथा वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न प्रायः व्कचिदपि भवन्तं प्रणतवान्। नमन् मुक्तः संप्रत्यहमतनुरग्रेऽप्यनतिभाक् महेश क्षन्तव्यं तदिदमपराधद्वयमपि ।। 501 ।। अनेकपदार्थता यथा प्रणयिसखीसलीलपरिहासरसाधिगतै- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्। वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डड्डत्ध्;यमदण्डड्डत्ध्; इवैष भुजः ।। 502 ।। एकपदार्थता यथा भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरंपरां गिरिसुताकान्तालयालंकृतिम्। अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ।। 503 ।। एषु, अपराधद्वये पूर्वापरजन्मनोरनमनम् भुजपाते शस्त्रोपक्षेपः, महामोहे सुखावलोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः।। (सूदृ 175) पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः। वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत् प्रतिपादनं तत् पर्यायेण, भङ्ग्यन्तरेण कथनात् पर्यायोक्तम्। उदाहरणम्-- यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता। मदेनैरावणमुखे मानेन हृदये हरेः ।। 504 ।। अत्र, ऐरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि शब्देनोच्यते तेन यदेवोच्यते तदेव व्यङ्ग्यम्। यथा तु व्यङ्ग्यं न तथोच्यते। यथा गवि शुक्ले चलति दृष्टे "गौः शुक्लश्वलति" इति विकल्पः। यदेव दृष्टं तदेव विकल्पयति न तु यथा दृष्टं तथा। यतोऽभिन्नासंसृष्टत्वेनदृष्टम्। भेदसंसर्गाभ्यां विकल्पयति।। (सूदृ 176) उदात्तं वस्तुनः सपंत् संपत् समृद्धियोगः। यथा मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्ग्रिलाक्षारुणाः। दूराद्दाडिड्डत्ध्;मबीजशङ्कितधियः कर्षन्ति केलीशुकाः यद्विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ।। 505 ।। (सूदृ 177) महतां चोपलक्षणम् ।।115।। उपलक्षणमङ्गभावः, अर्थादुपलक्षणीयेऽर्थे। उदाहरणम्-- तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी। निवसन् बाहुसहायश्वकार रक्षःक्षयं रामः ।। 506 ।। न चात्र वीरो रसः, तस्येहाङ्गत्वात् ।। (सूदृ 178) तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत्। समुच्चयोऽसौ तस्य प्रस्तुतस्य कार्यस्य, एकस्मिन् साधके स्थिते साधकान्तराणि यत्र संभवन्ति स समुच्चयः। उदाहरणम्-- दुर्वाराः स्महमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेण नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम्। स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमो नो सख्यश्वतुराः कथं नु विरहः सोढव्य इत्थं शठः ।। 507 ।। अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति तदुपरि प्रियतमदूरस्थित्यादि, उपात्तम्।एष एव समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च पर्यवस्यतीति न पृथक्लक्ष्यते। तथाहि-- कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डिड्डत्ध्;तम्। प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्पं राजन् त एव तवाङ्कुशाः ।। 508 ।। अत्र सतां योगः। उक्तोदाहरणे त्वसतां योगः। शशी दिवसधूसरो गलतयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः। प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ।। 509 ।। अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः। (सूदृ 179) स त्वन्यो युगपद् या गुणक्रियाः ।।116।। गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः। क्रमेणोदाहरणम्-- विदलितसगलारिकुलं तव बलमिदमभवदाशु विमलं च। प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ।। 510 ।। अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे। नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ।। 511 ।। कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः। पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ।। 512 ।। "धुनोति चासिं तनुते च कीर्तिम्" इत्यादेः "कृपाणपाणिश्व भवान् रणक्षितौ ससाधुवादाश्व सुराः सुरालये" इत्यादेश्व दर्शनात् "व्यधिकरणे" इति "एकस्मिन् देशे" इति च न वाच्यम्।। (सूदृ 180) एकं क्रमेणानेकस्मिन् पर्यायः एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः। क्रमेणोदाहरणम्-- नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा। प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।। 513 ।। बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत। अधुना हदयेऽप्येष मृगशावाक्षि लक्ष्यते ।। 514 ।। रागस्य वस्तुतो भेदेऽप्येकतया ध्यवसितत्वादेकत्वमविरुद्धम्। तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसं। बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण ।। 515 ।। (सूदृ 181) अन्यस्ततोऽन्यथा। अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सोऽन्यः। क्रमेणोदाहरणम्-- मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति। अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ।। 516 ।। तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः। स क्षुद्रो मुकलध्वनिः कलमिदं संगीतकं योषिताम् आश्वर्यं दिवसैर्द्विजोऽमियतीं भूमिं समारोपितः ।। 517 ।। अत्र, एकस्यैव हानोपादानयोरविवक्षितत्वात् न परिवृत्तिः।। (सूदृ 182) अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ।।117।। पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम्। धर्मिणि, अयोगव्यवच्छेदो व्यापकस्य साध्यत्वम्। यथा यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं यत् तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः। तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ।। 518 ।। साध्यसाधनयोः पौर्वापर्यविकल्पे न किंचिद्वैचित्र्यमिति न तथा दर्शितम्।। (सूदृ 183) विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः। अर्थाद्विशेष्यस्य। उदाहरणम्-- महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः। न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ।। 519 ।। यद्यप्यपुष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकारः कृतः, तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलंकारमध्ये गणितः।। (सूदृ 184) व्याजौक्तिश्छझनोद्भिन्नवस्तुरूपनिगूहनम् ।।118।। निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपढद्धठ्ठड़14;नूयते सा व्याजोक्तिः। न चैषापढद्धठ्ठड़14;नुतिः प्रकृताप्रकृतोभयनिष्ठस्य साम्यस्येहासंभवात्। उदाहरणम्-- शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्-- रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः। हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तःपुरमातृमण्डड्डत्ध्;लगणैर्दृष्टोऽवताद्वः शिवः ।। 520 ।। अत्र पुलकवेपथू साचिकरूपतया प्रसृतौ शैत्यकारणतया प्रकाशितत्वादपलपितस्वरूपौ व्याजोकिं्त प्रयोजयतः।। (सूदृ 185) किंचित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते। तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ।।119।। प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदृशवस्त्वन्तरव्यवच्छेदाय यत् पर्यवस्यति सा भवेत्परिसंख्या। अत्र च कथनं प्रश्नपूर्वकं तदन्यथा व परिदृष्टम्। तथा, उभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः। क्रमेणोदाहरणम#्-- किमासेव्य पुंसां सविधमनवद्यं द्युसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः। किमाराध्यं पुण्यं किमबिलषणीयं च करुणा यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभवति ।। 521 ।। किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः। किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ।। 522 ।। कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते। काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ।। 523 ।। भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे। चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ।। 524 ।। (सूदृ 186) यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता। तदा कारणमाला स्यात् उत्तरमुत्तरं प्रति यथोत्तरम्। उदाहरणम्-- जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ।। 525 ।। ""हेतुमता सह हेतोरभिधानमभेदतो हेतुः।"" इति हेत्वलंकारो न लक्षितः। आयुर्घृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात्। अविरलकमलविकासः सकलालिमदश्व कोकिलानन्दः। रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ।। 526 ।। इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलंकारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः।। (सूदृ 187) क्रियया तु परस्परम् ।।120।। वस्तुनोर्जननेऽन्योयन्यम् अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति, अन्योन्यनामा, अलंकारः। उदाहरणम्-- हंसाणं सरोहिं सिरी सारिज्जइ अह सराण हंसेहिं। अण्णोण्णं विअ एए अप्पाण्णं णवर गरुअन्ति ।। 527 ।। अत्रोभयेषामपि परस्परजनकता मिथःश्रीसारतासंपादनद्वारेण।। (सूदृ 188) उत्तरश्रुतिमात्रतः। प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ।।121।। असकृद् यद् असंभाव्यमुत्तरं स्यात् तदुत्तरम्। प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तदेकं तावदुत्तरम्। उदाहरणम्-- वाणिअअ हत्थिदन्ता कुत्तो अम्हाण वग्घकित्ती अ। जाव लुलिआलअमुही घरम्मि परिसक्कए सोण्हा ।। 528 ।। हस्तिदन्तव्याध्रकृत्तीनामहमर्थी ताः, मूल्येन प्रयच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयते। न चैतत् काव्यलिङ्गम् उत्तरस्य ताद्रूप्यानुपपत्तेः। नहि प्रश्नस्य प्रतिवचनं जनको हेतुः। नापीदमनुमानम् एकधर्मिनिष्ठतया साध्यसाधनयोरनिर्देशादित्यलंकारान्तरामेवोत्तरं साधीयः। प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यत् असंभाव्यरूपं प्रतिवजनं स्यात् तत् अपरमुत्तरम्। अनयोश्व सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम्। उदाहरणम्-- का विसमा देव्वगई किं लद्धं जं जणो गुणग्गाही। किं सोख्खं सुकलत्तं किं दुक्खं जं खलो लोओ ।। 529 ।। प्रश्नपरिसंख्यायामन्यव्यपोहे, एव तात्पर्यम्। इह तु वाच्ये, एव विश्रान्तिरित्यनयोर्विवेकः।। (सूदृ 189) कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते ।।122।। धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते। कुतोऽपि, आकारादिङ्गिताद्वा सूक्ष्मस्तीक्ष्णमतिसंवेद्यः। उदाहरणम्-- वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि पण्ठे। पुंस्त्वं तन्व्या व्यज्जयन्ती वयस्या स्मित्वा पाणौ खड्ड्डत्ध्;गलेखां लिलेख ।। 530 ।। अत्र, आकृतिमवलोक्य कयापि वितर्कितं पुरुषायितम् असिलतालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीतम्। पुंसामेव कृपाणपाणिता योग्यत्वात्। यथा वा संकेतकालमनसं विटं ज्ञात्वा विदग्धया। ईषन्नेत्रार्पिताकूतं लीलापझं निमीलितम् ।। 531 ।। अत्र जिज्ञासितः संकेतकालः कयाचिदिङ्गितमात्रेण विदितो निशासमयशंसिना कमलनिमीलनेन लीलया प्रतीपादितः।। (सूदृ 190) उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ।।123।। परः पर्यन्तभागः, अवधिर्यस्य धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः। उदाहरणम्-- राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ।। 532 ।। (सूदृ 191) भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः। युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ।।124।। इह यद्देशं करणम् तद्देशमेव कार्यमुत्पद्यमानं दृष्टम् यथा धूमादि। यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम् सा तयोः स्वभावोत्पन्नपरस्परसंगतित्यागात् असंगतिः। उदाहरणम्-- जस्सेअ वणो तस्सेअ वेअणा भणइ तं जणो अलिअं। दन्तक्खअं अवोले बहूए वेअणा सवत्तीणं ।। 533 ।। एषा च विरोधबाधिनी न विरोधःष भिन्नाधारतयैव द्वयोरिह विरोधितायाः प्रतिभासात्। विरोधे तु विरोधित्वम् एकाश्रयनिष्ठमनुक्तमपि पर्यवसितम् अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः। तथा चैवं निदर्शितम्।। (सूदृ 192) समाधिः सुकरं कार्यं कारणान्तरयोगतः। साधनान्तरोपकृतेन कत्र्रा यद् अक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम। उदाहरणम्-- मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः। उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ।। 534 ।। (सूदृ 193) समं योग्यतया योगो यदि संभावितः व्कचित् ।।125।। इदमनयोः श्लाघ्यमिति योग्यतया संबन्धस्य नियतविषयमध्यवसानं चेत्तदा समम् तत् सद्योगेऽसद्योगे च। उदाहरणम्-- धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्ययमनुपमो दत्तपत्रः स्मरस्य। जातं दैवात्सदृशमनयोः संगतं यत् तदेत- च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ।। 535 ।। चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता। यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ।। 536 ।। (सूदृ 194) व्कचिद्यदतिवैधम्र्यान्न श्लेषो घटनामियात्। कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्व यद्भवेत् ।।126।। गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये। क्रमेण च विरुद्धे यत् स एष विषमो मतः ।।127।। द्वयोरत्यन्तविलक्षणतया यत् अनुपपद्यमानतयैव योगः प्रतीयतेझ्र्1ट यच्च किंचिदारभमाणः कर्ता क्रियायाः प्रणाशात् न केवलमभीष्टं यत् फलं न लभेत यावदप्रार्थितमप्यनर्थं विषयमासादयेत् झ्र्2ट तथा सत्यपि कार्यस्य कारणरूपानुकारे तत् तयोर्गुणौ क्रिये च परस्परं विरुद्धतां व्रजतः झ्र्3क्ष्4ट स समविपयर्यात्मा चतूरूषो विषमः। क्रमेणोदाहरणम्-- शिरीषादपि मृद्वङ्गी व्केयमायतलोचना। अयं व्क च कुकूलाग्निकर्कशो मदनानलः ।। 537 ।। सिंहिकासुतसंत्रस्तः शशः शीताशुमाश्रितः। जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः ।। 538 ।। सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्डुड्डत्ध्; यशस्त्रिलोक्याभरणं प्रसूतै ।। 539 ।। आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम्। विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।। 540 ।। अत्रानन्ददानं शलीलतापेन विरुध्यते। एवम् विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये। मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।। 541 ।। इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम्।। (सूदृ 195) महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात्। आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्याधिकं तु तत् ।।128।। आश्रितम् आधेयम् आश्रयस्तदाधारः, तयोर्महतोरपि विषये तदपेक्षया तनू, अप्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविवक्षया यथाक्रमं यत् अधिकतरतां व्रजतः, तदिदं द्विविधम् अधिकं नाम। क्रमेणोदाहरणम्-- अहो विशालं भूपाल भुवनत्रितयोदरम्। माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ।। 542 ।। युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ।। 543 ।। (सूदृ 196) प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया। या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ।।129।। न्यक्कृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत् तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणम् तत् अनीकप्रतिनिधितुल्यत्वात् प्रत्यनीकमभिधीयते। यथा, अनीके, अभियोज्ये तत्प्रतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयते, इत्यर्थः। उदाहरणम्-- त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता। पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ।। 544 ।। यथा वा यस्य किंचिदपकर्तुमक्षमः कायनिग्रहकृहीतविग्रहः। कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ।। 545 ।। इन्देरत्र तदीयता संबन्धिसंबन्धात् ।। (सूदृ 197) समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते। निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ।।130।। सहजम् आगन्तुकं वा किमपि साधारणं यत् लक्षणम् तद्द्वारेण यत् किंचित् केनचिद्वस्तु वस्तुस्थित्यैव बलीयस्ताया तिरोधीयते तत् मीलितमिति द्विधा स्मरन्ति। क्रमेणोदाहरणम्-- अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्गके मृगदृशः स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ।। 546 ।। अत्र दृक्तरलतादिकमङ्गस्य लिङ्गं स्वाभाविकम् साधारणं च महोदयेन तत्राप्येतस्य दर्शनात्। ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते। अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः ।। 547 ।। अत्र तु सामथ्र्यादवसितस्य शैत्यस्य, आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्ताद्रूप्यं समानता च भयेष्वपि तयोरुपलक्षितत्वात्।। (सूदृ 198) स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम्। विशेषणतया यत्र वस्तु सैकावली द्विधा ।।131।। पूर्व पूर्वं प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत् स्थापनं निषेधो वा संभवति सा द्विधा बुधैरेकावली भण्यते। क्रमेणोदाहरणम्-- पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपूरस्कृताङ्ग्यः। रूपं समुन्मीलितसद्विलासम् अस्त्रं विलासः कुसुमायुधस्य ।। 548 ।। न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तत् यदलीनषट्पदम्। न षट्मदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ।। 549 ।। पूर्वत्र पुराणां वराङ्गनाः तासामङ्गविशेषणमुखेन रूपम् तस्य विलासाः, तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते। उत्तरत्र प्रतिषेधेऽप्येवं योज्यम्।। (सूदृ 199) यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः। स्मरणम् यः पदार्थः केनचिदाकारेण नियतः, यदा कदाचित् अनुभूतोऽभूत् स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति यत् तथैव स्मर्यते तत् भवेत् स्मरणम्। उदाहरणम्-- निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः। तद्भवैः कुहरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम् ।। 550 ।। यथा वा करजुअगहिअजसोआत्थणमुहविणिवेसिआहरपुडड्डत्ध्;स्स। समरिअपञ्चजण्णस्स णमह कण्हस्स रोमाञ्चं ।। 551 ।। (सूदृ 200) भ्रान्तिमान् अन्यसंवित्तत्तुल्यदर्शने ।132।। तदिति अन्यत् अप्राकरणिकं निर्दिश्यते। तेन समानम् अर्थादिह प्राकरणिकम् आश्रीयते। तस्य तथाविधस्य दृष्टौ सत्यां यत् अप्राकरणिकतया संवेदनम् स भ्रान्तिमान्। न चेष रुपकं प्रथमातिशयोक्तिर्वा तत्र वस्तुतो भ्रमस्याभावात् इह च, अर्थानुगमनेन संज्ञायाः प्रवृत्तेः तस्य स्पष्टमेव प्रतिपन्नत्वात् । उदाहरणम्-- कपाले मार्जारः पय इति करान् लेढि शशिन- स्तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति। रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्वन्द्रो जगदिदमहो विप्लवयति ।। 552 ।। (सूदृ 201) आक्षेप उपमानस्य प्रतीपमुपमेयता। तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ।।133।। अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमथ्र्येन यत् उपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य, उपमानान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते तत् उपमेयस्योपमानप्रतिकूलवर्तित्वात् उभयरूपं प्रतीपम्। क्रमेणोदाहरणम्-- लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा। इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ।। 553 ।। ए एहि दाव सुन्दरि कण्णं दाऊण सुणसू वअणिज्जं। तुज्झ मुहेण किसोअरि चंदो उभमिज्जइ जणेण ।। 554 ।। अत्र मुखेनोपमीयमानस्य शशिनः स्व्पतरगुणत्वात् उपमित्यनिष्पच्या "वअणिज्जम्" इति वचनीयपदाभिव्यङ्ग्यस्तिरस्कारः। व्कचित्तु निष्पन्नैवोपमितिक्रिया, अनादरनिबन्धनम्। यथा गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि मुग्धे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।। 555 ।। इहोपमेयीकरणमेवोत्पलानामनादरः। अनयैव रीत्या यत् असामान्यगुणयोगात् नोपमानभावमपि, अनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम्। यथा अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः। ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ।। 556 ।। अत्र हालाहतस्योपमानत्वमसंभाव्यमेवोपनिबद्धम् ।। (सूदृ 202) प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया। ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ।।134।। अतादृशमपि तादृशतया विवक्षितुं यत् अप्रस्तुतार्थेन संपृक्तमपरित्यक्रनिजगुणमेव तदेकात्मतया निबध्यते तत् समानगुणनिबन्धनात् सामान्यम्। उदाहरणम्-- मलयजरसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः। शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः। प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ।। 557 ।। अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः, अत एव पृथग्भावेन न तयोरुपलक्षणम्। यथा वा वेत्रत्वचा तुल्यरुचां वधुनां कर्णाग्रतो गण्डड्डत्ध्;तलागतानि। भृङ्गा सहेलं यदि नापतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि ।। 558 ।। अत्र निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते प्रतीतत्वात्तस्य प्रतीतेश्व बादायोगात्।। (सूदृ 203) विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः। एकात्मा युगपद्वृत्तिरेकस्यानेकगोचरा ।।135।। अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः। तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ।।136।। प्रसिद्धाधारपरिहारेण यत् आधेयस्य विशिष्टा स्थितिरभिधीयते स प्रथमो विशेषः। उदाहरणम्-- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ।। 559 ।। एकमपि वस्तु यत् एकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः। उदाहरणम्-- सा वसइ तुज्झ हिअए सा च्चिअ अच्छीसु सा अ वअणेशु। अढद्धठ्ठड़14;नारिसाण सुन्दर ओसासो कत्थ पावाणं ।। 560 ।। यदपि किंचिद्रभसेत, आरभमाणस्तेनैव यत्नेनाशक्यपरि कार्यान्तरमारभते सोऽपरो विशेषः। उदाहरणम्-- स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्व ।। 561 ।। यथा वा गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हृनम् ।। 562 ।। सर्वत्र, एवंविधविषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते तां विना प्रायेणालंकारत्वायोगात्। अत एवोक्तम् ""सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते। यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना ।।"" इति।। (सूदृ 204) स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत्। वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ।।137।। वस्तु तिरस्कतनिजरूपं केनापि समीपगतेन प्रगुणया स्वगुणसंपदोपरक्तं तत्प्रतिभासमेवयत्समासादयति स तद्गुणः, तस्याप्रकृतस्य गुणोऽत्रास्तीति। उदाहरणम्-- विमिन्नवर्णा गरुडड्डत्ध्;ाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ।। 563 ।। अत्र रवितुरगापेक्षया गरुडड्डत्ध्;ाग्रजस्य तदपेक्षया च हरिन्मणीनां प्रगुणवर्णता।। (सूदृ 205) तद्रूपाननुहारश्वेदस्य तत् स्यादतदागुणः। यदि तु तदीयं वर्णं संभन्त्यामपि योग्यतायाम् इदं न्यूनगुणं न गृढद्धठ्ठड़14;णीयात् तदा भवेदतद्गुणो नाम। उदाहरणम्-- धवलोसि जह वि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअं। राअभरपिए वि हिअए सुहअ णिहित्तो ण रत्तोसि ।। 564 ।। अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद्गुणः। किंच तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते। तेन यत् अप्रकृतस्य रूपं प्रकृतेन कुतोऽपि निमित्तात् नानुविधीयते सोऽतद्गुण इत्यपि प्रतिपत्तव्यम्। यथा गाङ्गमम्बु सिदमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः। राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ।। 565 ।। (सूदृ 206) यद्यथा साधितं केनाप्यपरेण तदन्यथा ।। 131 ।। तथैव यद्विधीयेत स व्याघात इति स्मृतः। येनोपायेन यत् एकेनोपकल्पितम् तस्यान्येन जिगीषुतया तदुपायकमेब यत् अन्यथाकरणम् स साधितवस्तुव्याहतिहेतुत्वात् व्याघातः। उदाहरणम्-- दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ।। 566 ।। (सूदृ 207) सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।।139।। एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासंभवमन्योन्यनिरपेक्षतया यत् एकत्र शब्दभागे एव, अर्थविषये, एव, उभयत्रापि वा, अवस्थानम् सा, एकार्थसमवायस्वभावा संसृष्टिः। तत्र शब्दालंकारसंसृष्टिर्यथा वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया। चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ।। 567 ।। अर्थालंकारसंसृष्टिस्तु लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। असत्पुरुषसेवेव दृष्टिर्विफलतां गता ।। 568 ।। पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृÏष्ट प्रयोजयतः, उत्तरत्र तु तथाविधे, उपमोत्प्रेक्षे। शब्दार्थालंकारयोस्तु संसृष्टिः। सो णत्थि एत्थ गामे जो एअं महमहन्तलाअण्णं। तरुणाण हिअअलूडिंड्डत्ध्; परिसक्कन्तीं णिवारेइ ।। 569 ।। अत्रानुप्रासो रूपकं चान्योन्यानपेक्षे। संसर्गश्व तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात्।। (सूदृ 208) अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः। एते, एव यत्रात्मनि, अनासादितस्वतन्त्रभावाः परस्परम् अनुग्राह्यानुग्राहकतां दधति स एषां संकीर्यमाणस्वरूपत्वात् संकरः। उदाहरणम्-- आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते। शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ।। 570 ।। अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतम् तदाश्रयेण च तद्गुणः सचेतसां प्रभूतचमत्कृतिनिमित्तमित्यनयोरङ्गाङ्गिभावः। यथा वा जटाभाभिर्माभिः करधृतकलङ्काक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः। परिप्रेङ्खत्तारापरिकरकपालाङ्किततले शशी भस्मापाण्डुड्डत्ध्;ः पितृवन इव व्योम्नि चरति ।। 571 ।। उपमा रूपकम् उत्प्रेक्षा श्लेषश्वेति चत्वारोऽत्र पूर्ववत् अङ्गाङ्गितया प्रतीयन्ते। कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते। अस्य हि रूपकत्वे तिरोहितकलङ्करूपम् अक्षवलयमेव मुख्यतयावगम्यते तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धिः। श्लेषच्छायया तु कलङ्कस्य करधारणम् असदेव प्रत्यासच्या, उपचर्य योज्यतेशशाङ्केन केवलं कलङ्कस्य मूत्र्यैव, उद्वहनात्। कलङ्कोऽक्षवलयमिवेति तु, अपमायां कलङ्कस्य, उत्कटतया प्रतिपत्तिः। न चास्य करधृतत्वं तच्वतोऽस्तीति मुख्येऽप्युपचार एव शरणं स्यात्। एवंरूपश्व संकरः शब्दालंकारयोरपि परिदृश्यते। यथा राजति तटीयमभिहतदानवरासातिपातिसारावनदाः गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ।। 572 ।। अत्र यमकमनुलोमप्रतिलोमश्व चित्रभेदः पादद्वयगते परस्परापेक्षे। (सूदृ 209) एकस्य च ग्रहे न्यायदोषाभावादनिश्वयः ।।140।। द्वयोर्बहूनां वा, अलंकाराणामेकत्र कमावेशेऽपि विरोधात् न यत्र युगपदवस्थानम् न चैकतरस्य परिग्रहे साधकम् तदितरस्य वा परिहारे बाधकमस्ति यैनैकतर एव परिगृह्येत स निश्वयाभावरूपो द्वितीयः संकरः समुच्चयेन संकरस्यैवाक्षेपात्। उदाहरणम्-- जह गहिरो जह रअणणिब्भरो जह अ णिम्मलच्छाओ। तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ ।। 573 ।। अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः किम् अब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीतेः, इयमप्रस्तुतप्रशंसा, इति संदेहः। यथा वा नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति। अधुनापि निरुद्धाशमविघीर्णमिदं तमः ।। 574 ।। अत्र किं कामस्योद्दीपकः कालो वर्तते, इति भढद्धठ्ठड़14;ग्यन्तरेणाभिधानात् पर्यायोक्तम् उत वदन्स्येन्दुबिम्बतया, अध्यवसानात् अतिशयोक्तिः किं वा, एतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशात् रूपकम् अथ वा तयोः समुच्चयविवक्षायां दीपकम् अथ वा तुल्ययोगिता किमुप्रदेषसमये विशेषणसाम्यादाननस्यावगतौ समाकोक्तिः, आहोस्वित् मुखनैर्मल्यप्रस्तावात् अप्रस्तुतप्रशंसा, इति बहूनां संदेहादयमेव संकरः। यत्र तु न्यायदोषयोरन्यतरस्यावतारः, तत्र, एकतरस्य निश्वयात् न संशयः। न्यायश्व साधकत्वम् अनुकूलता दोषोऽपि बाधकत्वं प्रतिकूलता। तत्र सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासद्युतिः ।। 575 ।। इत्यत्र मुख्यतया, अवगम्यमाना हासद्युतिर्वक्त्रे, एवानुकूल्य भजते, इत्यूपमायाः साधकम् शशिना तु न तथा प्रतिकूलेति रूपकं प्रति तस्या अबाधकता। वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः ।। 576 ।। इत्यात्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकतां प्रतिपद्यते न तूपमाया बाधकताम्। राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ।। 577 ।। इत्यत्र पुनरालिङ्गनमुपमां निरस्यति सदृशं प्रति परप्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवात्। पादाम्बुजं भवतु नो विजयाय मञ्जु- मज्जीरशिज्जितमनोहरमम्बिकायाः ।। 578 ।। इत्यत्र मञ्जीरशिञ्जितम् अम्बुजे प्रतिकूलम् असंभवादिति रूपकस्य बाधकम् न तु पादेऽनुकूलमित्युपमायाः साधकममिधीयते विध्युपमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः। एवमन्यत्रापि सुधीभिः परीक्ष्यम्।। (सूदृ 210) स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयम्। व्यवस्थितं च अभिन्ने, एव पदे स्फुटतया यत् उभावपि शब्दार्थालंकारौ व्यवस्थां समासादयतः सोऽप्यपरः संकरः। उदाहरणम्-- स्पष्टोल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम्। श्लिष्टाष्टदिग्दलकलापमुखावतारबद्धान्धकारमधुपावलि संचुकोच ।। 579 ।। अत्र, एकापदानुप्रविष्टौ रूपकानुप्रासौ।। (सूदृ 211) तेनासौ त्रिरूपः परिकीर्तितः ।।141।। तदयमनुग्राह्यानुग्राहकतया संदेहेन, एकपदप्रतिपाद्यतया च व्यवस्थितत्वात्त्रिप्रकतार एव संकरो व्याकृतः। प्रकारान्तरेण तु न शक्यो व्याकर्तुम् आनन्त्यात्तत्प्रभेदानामिति प्रतिपादिताः शब्दार्थोमयगतत्वेन त्रैविध्यजुषोऽलंकाराः।। कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशयहेतुत्वे कश्विदलंकारः शब्दस्य कश्विदर्थस्य कश्विच्चोभयस्य, इति चेत् उक्तमत्र यथा काव्ये दोषगुणालंकाराणां शब्दार्थोभयगतत्वेन व्यवक्थायामन्वयव्यतिरेकावेव प्रभवतः, निमित्तान्तरस्याभावात् ततश्व योऽलंकारो यद#ीयान्वयव्यतिरेकावनुविधत्ते स तदलंकारो वियवस्थाप्यते, इति। एवं च यथा पुनरुक्तवदाभासः परंपरितरूपकं चोभयोर्भावाभावानुविधायितया, उभयालंकारौ तथा शब्दहेतुकार्थान्तरन्यासप्रभृतयोऽपि द्रष्टव्याः। अर्थस्य तु तत्र वैचित्र्यम् उत्कटतया प्रतिभासते, इति वाच्यालंकारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः। योऽलंकारो यदाश्रितः स तदलंकार इत्यपि कल्पनायाम् अन्वयव्यतिरेकावेव समाश्रयितव्यौ। तदाश्रयणमन्तरेण विशिष्टस्याश्रयाश्रयिभावस्याभावादित्यलंकाराणां यथोक्तनिमित्त। एव परस्परव्यतिरेको ज्यायान्।। (सूदृ 212) एषां दोषा यथायोगं संभवन्तोऽपि केचन। उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ।।142।। तथाहि--अनुप्रासस्य प्रसिद्ध्यभावो वैफल्यं वृत्तिविरोध इति ये त्रयो दोषाः, ते प्रसिद्धिविरुद्धताम् अपुष्टार्थत्वम् प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति तत्स्वभावत्वात् क्रमेणोदाहरणम्-- चक्री चक्रारपÏङ्क्त हरिरपि च हरन् धूर्जटिर्धूध्र्वजाग्रा- नक्षं नक्षत्रनाथोऽरूणमपि वरुणः कूबराग्रं कुबेरः। रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ।। 580 ।। अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः, अनुप्रासानुरोधेनैव कृता न पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः।। भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि। यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयं मे ।। 581 ।। अनणुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम्। परिसरणमरणे रणरणकमकारणं कुरुते ।। 582 ।। अत्र वाच्यस्य विचिन्त्यमानं न किंचिदपि चारुत्वं प्रतीयते, इत्यपुष्टार्थतैवानुप्रासस्य वैकल्यम्।। अकुण्ठोत्कण्ठया (582 अ) इति। अत्र शृङ्गारे परुषवर्णाडड्डत्ध्;म्बरः पूर्वोक्तरीत्या विरुध्यते, इति परुषानुप्रासोऽत्र प्रतिकूलवर्णतैव वृत्तिविरोधः।। यमकस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोषः।। यथा भुजङ्गमस्येव मणिः सदम्भा ग्राहावकीर्णेव नदी सदम्भाः। दुरन्ततां निर्णयतोऽपि जन्तोः कर्षन्ति चेतः प्रसभं सदम्भाः ।। 583 ।। उपमायाम् उपमानस्य जातिप्रमाणगतन्यूनत्वम् अधिकता वा तादृशी, अनुचितार्थत्वं दोषः, धर्णाश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः।। क्रमेणोदाहरणम्-- चण्डड्डत्ध्;ालैरिव युष्माभिः साहसं परमं कृतम् ।। 584 ।। वढिद्धठ्ठड़14;नस्फुलिङ्ग इव भानुरयं चकास्ति ।। 585 ।। अयं पझासनासीनश्वक्रवाको विराजते। युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ।। 586 ।। पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ। वेणीदण्डड्डत्ध्;ः पुनरयं कालिन्दीपातसंनिभः ।। 587 ।। अत्र चण्डड्डत्ध्;ालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यर्थमेव कदर्थित इत्यनुचितार्थता।। स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन्। व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ।। 588 ।। अत्रोपमानस्य मौञ्जीस्थानीयस्तडिड्डत्ध्;ल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम्।। स पीतवासाः प्रगृहीतशाङ्र्गो मनोज्ञमीमं वपुराप कृष्णः। शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ।। 589 ।। अत्रोपमेयस्य शङ्खादेरनिर्देशे शशिनो ग्रहणमितिरिच्यते, इत्यधिकपदत्वम्।। लिङ्गवचनभेदोऽपि, उपमानोपमेययोः साधारणं चेत् धर्ममन्यरूपं कुर्यात् तदा, एकतरस्यैव तद्धर्मसमन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीयमानेन धर्मेण प्रतीयते, इति प्रक्रान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम्। यथा-- चिन्तारत्नमिव चयुतोऽसि करतो धिङ्भन्दभाग्यस्य मे ।। 590 ।। सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ।। 591 ।। यत्र तु नानात्वेऽपि लिङ्गवचनयोः सामान्याभिधायि पदं स्वरुपभेदं नापद्यते न तत्रैतद्दूषणावतारः, उभयथापि, अस्य, अनुगमक्षमस्वभावत्वात्। यथा गुणैरनघ्र्यैः प्रथितो रत्नैरिव महार्णवः ।। 592 ।। तद्वेषोऽसदृशोऽन्याबिः स्त्रीबिर्मधुरताभृतः। दधते स्म परां शोभां तदीया विभ्रमा इव ।। 593 ।। कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयतीत्यसावपि भग्नप्रक्रमतयैव व्याप्तः। यथा अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती। पश्विमात् यामिनीयामात् प्रसादमिव चेतना ।। 594 ।। अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः। प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता। विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ।। 595 ।। अत्र लता विभ्राजते न तु विभ्राजसे, इति संबोध्यमाननिष्ठस्य परभागस्य, असंबोध्यमानविषयतया व्यत्यासात् पुरुषभेदः। गङ्गेव प्रवहतु ते सदैव कीर्तिः ।। 596 ।। इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु, इति, अप्रवृत्तप्रवर्तनात्मनो विधेः। एवंजातीयकस्य चान्यस्यार्थस्य, उपमानगतस्यासंभवाद्विध्यादिभेदः।। ननु समानम् उच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायाम् उपमायाम् उपमेयस्य प्रकृतधमाबिसंबन्धान्न कश्वित्कालादिभेदोऽस्ति। यत्राप्युपात्तेनैव सामान्यधर्मेण, उपमा, अवगम्यते यथा "युधिष्ठिर इवायं सत्यं वदति" इति तत्र युधिष्ठिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे। सत्यावादी सत्यं वदतीति च न पौनरुक्तयम् आशङ्कनीयम् रैपोषं पुष्णातीतिवत् युधिष्ठिर इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात्। सत्यमेतत् किं तु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यम् प्रस्तुतवस्तुप्रतीतिव्याघातादिति सचेतस एव#ात्र प्रमाणम्।। असादृश्यासंबवावप्युपमायाम् अनुचितार्थतायामेव पर्यवस्यतः। यथा ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।। 597 ।। अत्र काव्स्य शशिना, अर्थानां च रश्मिभिः साधम्र्यं कुत्रापि न प्रतीतमित्यनुचितार्थत्वम्। निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डड्डत्ध्;लमध्यभाजः। जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ।। 598 ।। अत्रापि ज्वलन्त्योऽम्बुधाराः सूर्यमण्डड्डत्ध्;लात् निष्पतन्त्यो न संभवन्तीत्युपनिबध्यमानोऽर्थोऽनौचित्यमेव पुष्णाति।। उत्प्रेक्षायामपि संभावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दोऽपि केवलस्यास्य साधम्र्यमेव प्रतिपादयितुं पर्याप्तत्वात् तस्य चास्यामविवक्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोषः। यथा उद्ययौ दीर्घिकागर्भात् मुकुलं मेचकोत्पलम्। नारीलोचनचातुर्यश्ङ्कासंकुचितं यथा ।। 599 ।। उत्प्रेक्षितमपि ताच्विकेन रुपेण परिवर्जितत्वात् निरुपाख्यप्रख्यम् तत्समर्थनाय यत् अर्थान्तरन्यासोपादानम् तत् आलोख्यमिव गगनतलेऽत्यन्तमसमीचीनमिति निर्विषयत्वमेतस्य, अनुचितार्थतैव दौषः। यथा दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्। क्षुद्रेऽपि नूनं शरणं प्रपन्ने प्रपन्ने ममत्वमुच्चैः शिरसामतीव ।। 600 ।। अत्राचेतनस्य तमसो दिवाकरात्त्रास एव न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम्। संभावितेन तु रूतेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्नः। साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि, उपमानविशेषं प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत् तत् अपुष्टार्थत्वं पुनरुक्तं वा दोषः। यथा स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया। अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ।। 601 ।। अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया नायिकात्वेन च व्यक्तिः, तथा ग्रीष्मदिवसश्रियोऽपि प्रतीनायिकात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन।। श्लेषोपमायास्तु स विषयः, यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः। यथा स्वयं च पल्लवाताम्रभास्वत्करविराजिता। प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ।। 602 ।। इति।। अप्रस्तुतप्रशंसायामपि उपमेयम् अनयैव रीत्या प्रतीतं न पुनः प्रयोगेण कदर्थतां नेयम्। यथा आहूतेषु विहंगमेषु मशको नायान् पुरो वार्यते मध्येवारिधि वावसंस्तृणमणिर्धत्ते मणीनां रुचम्। खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतच्वान्तरम् ।। 603 ।। अ6, अचेतनस्य प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तौ न युक्तमेव पुनः कथनम्।। तदेतेऽलंकारदोषाः, यथासंभविनोऽन्येऽप्येवंजातीयकाः पूर्वोक्तयैव दोषजात्या, अन्तर्भाविताः, न पृथक् प्रतिपादनमर्हन्तीति संपूर्णमिदं काव्यलक्षणम्।। इत्येष मार्गो विदुषां विभिन्नोऽप्यभिन्नरूपः प्रतिमासते यत्। न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता संघटनैव हेतुः ।।1।। इति काव्यप्रकाशेऽर्थालंकारनिर्णयो नाम दशम उल्लासः।।
।। समाप्तश्वायं काव्यप्रकाशः ।।