काव्यप्रकाशः/सप्तमः उल्लासः

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ सप्तम उल्लासः ।।


काव्यस्वरूपं निरूप्य दोषाणां सामान्यलक्षणमाह (सूदृ 71) मुश्यार्थहतिर्दोषो रसश्व मुख्यस्तदाश्रयाद्वाच्यः। उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ।।49।। हतीरपकर्षः। शब्दाद्याः, इत्याद्यग्रहणाद्वर्णरचने। विशेषलक्षणमाह (सुदृ 72) दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्र युक्तमसमर्थम्। निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् ।।50।। संदिग्धमप्रतीतं ग्राम्यं नोयार्थमथ भवेत् क्लिष्टम्। अविमृष्टविधेयांशं विरुद्वमतिकृत्समासगतमेव ।।51।। (1) "श्रुतिकटु" परुषवर्णरूपं दुष्टं यथा अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः। आलिङ्गितः स तन्वङ्ग्या कार्ताथ्र्यं लभते कदा ।। 141 ।। अत्र कार्ताथ्र्यमिति।। (2) "च्युतसंस्कृति" व्याकरणलक्षणहीनं यथा एतन्मन्दविपव्कतिन्दुकफलश्यामोदरापाण्डड्डत्ध्;र- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते। तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ।। 142 ।। अत्रानुनाथते, इति। "सर्पिषो नाथते" इत्यादाविवाशिष्येव नाथतेरात्मनेपदं विहितम् ""आशिषि नाथः"" इति। अत्र तु याचनमर्थः। तस्मात् "अनुनाथति स्तनयुगम्" इति पठनीयम्। (3) "अप्रयुक्तं" तथा, आम्नातमपि कविभिर्नादृतम्। यथा यथायं दारुणाचारः सर्वदैव विभाव्यते। तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ।। 143 ।। अत्र दैवतशब्दो ""दैवतानि पुंसि वा" इति पुंस्याम्नातोऽपि न केनचित्प्रयुज्यते। (4) "असमर्थं" यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः। यथा तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः। सुनस्रोतस्विनीमेष हन्ति संप्रति सादरम् ।। 144 ।। अत्र हन्तीति गमनार्थम्।। (5) "निहतार्थं" यदुभयार्थमप्रसिद्धेऽर्थे प्रयुक्तम्। यथा यावकरसाद्र्रपादप्रहारशोणितकचेन दयितेन। मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ।। 145 ।। अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोञ्ज्वलीकृतत्वरूपोऽर्थो व्यवधीयते। (6) "अनुचितार्थं" यथा तपस्विभिर्या सुचिरेण लब्यते प्रयत्नतः सत्त्रिभिरिष्यते च या। प्रयान्ति तामाशु गतिं यशस्विनो रणास्वमेधे पशुतामुपागताः ।। 146 ।। अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम्।। (7) "निरर्थकं" पादपुरणमात्रप्रयोजनं चादिपदम्। यथा उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि। अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ।। 147 ।। अत्र हिशब्दः।। (8) "अवाचकं" यथा अवन्धयकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः। अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ।। 148 ।। अत्र जन्तुपदमदातर्यर्थे विवक्षितम् तत्र च नाभिधायकम्। यथा वा हाधिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम्। किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं तादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ।। 149 ।। अत्र दिनमिति प्रकाशमयमित्यर्थेऽवाचकम्। यच्चोपसर्गसंसर्गादर्थान्तरगतम्। यथा जङ्गाकाण्डड्डत्ध्;ोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः। भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डड्डत्ध्;पादो भवान्याः ।। 150 ।। अत्र दधदित्यर्थे विदधदिति।। (9) "अश्लीलम्" त्रिधेति व्रीडड्डत्ध्;ाजुगुप्सामङ्गलव्यञ्जकत्वात्। यथा साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते। तस्य धीशालिनः कोऽन्यः सहेतारालितां भ्रुवम् ।। 151 ।। (1) लीलातामरसाहतोऽन्यवनितानिःशढद्धठ्ठड़14;कदष्टाधरः कश्वित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः। मुग्धा कुड्ड्डत्ध्;मलिताननेन ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततयाथ वा नतिमृते तेनानिशं चुम्बिता ।। 152 ।। (2) मृदुपवनविभिन्नो मत्प्रियाया निनाशात् घनरुचिरकलापो निःसपत्नोऽद्य जातः। रतिविगलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बर्ही ।। 153 ।। (3) एषु साधनवायुविनाशशब्दाः, व्रीडड्डत्ध्;ादिव्यञ्जकाः।। (10) "संदिग्धं" यथा आलिङ्गितस्तत्रभवान् संपराये जयश्रिया। आशीःपरंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु ।। 154 ।। अत्र वन्द्यां किं हठहृतमहिलायाम् किं वा नमस्यामिति संदेहः।। (11) "अप्रतीतं" यत्केवले शास्त्रे प्रसिद्धम्। यथा सम्यग्ज्ञानमाहाज्योतिर्दलिताशयताजुषः। विधीयमानमप्येतन्न भवेत्कर्म बन्धनम् ।। 155 ।। अत्राशयशब्दो वासनापर्यायो योगशास्त्रादावेव प्रयुक्तः।। (12) "ग्राम्यं" यत्केवले लोके स्थितम्। यथा राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम्। तपनीयशिलाशोभा कटिश्व हरते मनः ।। 156 ।। अत्र कटिरिति।। (13) "नेयार्थं" ""निरूढा लक्षणाः काश्वित् सामथ्र्यादभिधानवत्। क्रियन्ते सांप्रतं काश्वित् काश्विन्नैव त्वशक्तितः।।"" इति यन्निषिद्धं लाक्षणिकम्। यथा शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम्। करोति ते मुखं तन्वि चपेटापातनातिथिम् ।। 157 ।। अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते।। अथ समासगतमेव दुष्टमिति संबन्धः, अन्यत् केवलं समासगतं च।। (14) "क्लिष्टं" यतः, अर्थप्रतिपत्तिव्र्यवहिता। यथा अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः। सदृशं शोभतेऽत्यर्थं भूपाल तव चेष्टितम् ।। 158 ।। अत्रात्रिलोचनसंभूतस्य चन्द्रस्य ज्योतिरुद्घमेन भासिभिः कुमुदैरित्यर्थः।। (15) "अविमृष्टविधेयांशं" अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत्। यथा मूध्र्नमुद्वृत्तकृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा- धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम्। कैलासौल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषां किमतत् फलमिह नगरीरक्षणे यत् प्रयासः ।। 159 ।। अत्र मिथ्यामहिमत्वं नानुवाद्यम् अपि तु विधेयम्। यथा वा स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाञ्चीम्। न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ।। 160 ।। अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम्। मौर्वीं द्वितीयामिति युक्तः पाठः। यथा वा वपुर्विरूपाक्षणलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु। वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ।। 161 ।। अत्र "अलक्षिता जनिः" इति वाच्यम्। यथा वा आनन्दसिन्धुरतिचापलशालिचित्तसंदाननैकसदनं क्षणमप्यमुक्ता। या सर्वदैव भवता तदुदन्तचिन्ता ताÏन्त तनोति तव संप्रति धिग्धिगस्मान् ।। 162 ।। अत्र "न मुक्ता" इति निषेधो विधेयः। यथा नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम्। अयमपि पटुर्धारासारो न बाणपरंपरा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ।। 163 ।। इत्यत्र। न त्वमुक्ततानुवादेनान्यदत्र किंचिद्विहितम्। यथा जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः। अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत् ।। 164 ।। इत्यत्र, अत्रस्तत्वाद्यनुवादेनात्मनो गोपनादि।। (16) "विरुद्धमतिकृत्" यथा सुधाकरकराकारविशारदविचेष्टितः। अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे ।। 165 ।। अत्र "कांर्य विना मित्रम्" इति विवक्षितम् "अकार्ये मित्रम् इति" तु प्रतीतिः। यथा वा चिरकालपरिप्राप्तलोचनानन्ददायिनः। कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ।। 166 ।। अत्र "कण्ठग्रहम्" इति वाच्यम्। यथा वा न त्रस्तं यदि नाम भूतकरुणासंतानशान्तात्मनः तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः। तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः स्कन्दः स्कन्द इव प्रियोऽहमथ वा शिष्यः कथं विस्मृतः ।। 167 ।। अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति यथा वा गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः। सविधे निरहंकारः पायाद्वः सोऽम्बिकारमणः ।। 168 ।। अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति।। "श्रुतिकटु" समासगतं यथा सा दूरे च सुधासान्द्रतरङ्गितविलोचना। बर्हिनिह्र्रादनार्होऽयं कालश्व समुपागतः ।। 169 ।। एवमन्यदपि ज्ञेयम्।। (सूदृ 47) अपास्य च्युतसंस्कारमसमर्थं निरर्थकम्। वाक्येऽपि दोषा सन्त्येते पदस्यांशेऽपि केचन ।।52।। केचन न पुनः सर्वे। क्रमेणोदाहरणम् सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पित्ट्टनताप्र्सीत्सममंस्त बन्धून्। व्यजेष्ट षड्ड्डत्ध्;वर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्व ।। 170 ।। स रातु वो दुश्व्यवनो भावुकानां परंपराम्। अनेडड्डत्ध्;मूकताद्यैश्व द्यतु दोषैरसंमतान् ।। 171 ।। अत्र दुश्व्यवन इन्द्रः, अनेडड्डत्ध्;मूको मूकबधिरः।। सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः। अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोकः ।। 172 ।। अत्र सायकादयः शब्दाः खड्ड्डत्ध्;गाब्धिभूचन्द्रयशःपर्यायाः शराद्यर्थतया प्रसिद्धाः।। कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो। शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिभ्र्रमति विगताच्छादनमिह ।। 173 ।। अत्र कुविन्दादिशब्दोऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्युनुचितार्थः। प्राभ्रभ्राड्ड्डित्ध्;वष्णुधामाप्य विषमाश्वः करोत्ययम्। निद्रां सहस्रपर्णानां पलायनपरायणाम् ।। 174 ।। अत्र प्राभ्रभ्राड्ड्डित्ध्;वष्णुधामविषमाश्वनिद्रापर्णशब्दाः प्रकृष्टजलदगगनसप्ताश्वसंकोचदलानामवाचकाः।। भूपतेरुपसर्पन्ती कम्पना वामलोचना। तत्तत्प्रहरणोत्साहवती मोहनमादधौ ।। 175 ।। अत्रोपसर्पणप्रहरणमोहनशब्दा व्रीडड्डत्ध्;ादायित्वादश्लीलाः। तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्गं च भुञ्चते। इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ।। 176 ।। अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः। पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे। भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ।। 177 ।। अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम्।। सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः। मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ।। 178 ।। अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः किं मदिराद्यर्थाः, इति संदेहः।। तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः। दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ।। 179 ।। अत्राधिमात्रोपायादयः शब्दा योगशास्त्रमात्रप्रयुक्तत्वादप्रतीताः।। ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः। करोति खादनं पानं सदैव तु यथा तथा ।। 180 ।। अत्र गल्लादयः शब्दाः ग्राम्याः।। वस्त्रवैदूर्यचरणैः क्षतसच्वरजःपरा। निष्कम्पा रचिता नेत्रयुद्धं वेदय सांप्रतम् ।। 181 ।। अत्राम्बाररत्नपादैः क्षततमा, अचला भूः कृता नेत्रद्वन्द्वं बोधयेति नेयार्थता।। धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः। रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ।। 182 ।। अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्लिष्टत्वम्।। न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहौ रावणः। धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ।। 183 ।। अत्र "अयमेव न्यक्कारः" इति वाच्यम्। उच्छूनत्वमात्रं चानुवाद्यम्, न वृथात्वविशेषितम्। अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य। यथा वा अपाङ्गसंसर्गि तरङ्गितं दृशोभ्र्रुवोररालान्तविलासि वेल्लितम्। विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ।। 184 ।। अत्र योऽसाविति पदद्वयमनुवाद्यमोत्रप्रतीतिकृत्। तथाहि--प्रक्रान्तप्रसिद्धानुभूतार्थविष्यस्तच्छब्दो यच्छब्दोपादानं नापेक्षते। क्रमेणोदाहरणम्। कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम्। अतः सिदिं्ध समेताम्यामुभाब्यामन्वियेष सः ।। 185 ।। द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः। कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ।। 186 ।। उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती। क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ।। 187 ।। यच्छब्दस्तूत्तरवाक्यानुगतत्वेनोपात्तः सामथ्र्यात्पूर्ववाक्यानुगतस्य तच्छब्दस्योपादानं नापेक्षते। यथा साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके। उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ।। 188 ।। प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः। यथा अत्रैव श्लोके, आद्यपादयोव्र्यतयासे। द्वयोरुपादाने तु निराकाङ्क्षत्वं प्रसिद्धम्। अनुपादानेऽपि सामथ्र्यात्कुत्रचिद्द्वयमपि गम्यते। यथा ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः। उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ।। 189 ।। अत्र य उत्पत्स्यते तं प्रतीति। एवं च तच्छब्दानुपादानेऽत्र साकाङ्क्षत्वम्। न चासाविति तच्छब्दार्थमाह। असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डड्डत्ध्;लाग्रणीः। वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ।। 190 ।। अत्र हि न तच्छब्दार्थप्रतीतिः। प्रतीतौ वा करकालकरालदोःसहायो युधि योऽसौ विजयार्जुनैकमल्लः। यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात् ।। 191 ।। अत्र स इत्यस्यानर्थक्यं स्यात्। अथ योऽविकल्पमिदमर्थमण्डड्डत्ध्;लं पश्यतीश निखिलं भवद्वपुः। आत्मपक्षरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ।। 192 ।। इतीदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते, इति, उच्यते। तह्र्यत्रेव वाक्यान्तरे, उपादानमर्हति न तत्रैव। यच्छब्दस्य हि निकटे स्थितः प्रसिदिं्ध परामृशति। यथा यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः। दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ।। 193 ।। इत्यत्र तच्छब्दः। ननु कथम् कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद। यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय ।। 194 ।। अत्र यद्यदित्युक्त्वा तन्मे, इत्युक्तम्। उच्यते--यद्यदिति येन केनचिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तम् तथाभूतमेव तच्छब्देन परामृश्यते। यथा वा किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा। मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु- र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ।। 195 ।। अत्रार्यस्येति तातस्येति च वाच्यम् न त्वनयोः समासे गुणीभावः कार्यः। एवं समासान्तरेऽप्युदाहार्यम्।। विरुद्धमतिकृद्यथा श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः। विग्रहक्षपणेनाद्य शेरते ते गतासुखाः ।। 196 ।। अत्र क्षणादिगुणयुक्ताः सुखमासते, इति विवक्षिते हता इति विरुद्धा प्रतीतिः।। पदैकदेशे यथासंभवं क्रमेणोदाहरणम् अलमतिचपलत्वात्स्वप्नमायोपमत्वात् परिणतिविरसत्वात्संगमेनाङ्गनायाः। इति यदि शतकृत्वस्तच्वमालोचयाम- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ।। 197 ।। अत्र त्वादिति। यथा वा तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरलभ्य एव। अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः ।। 198 ।। अत्र द्ध्यै ब्ध्यै, इति कटु।। यश्वाप्सरोविभ्रममण्डड्डत्ध्;नानां संपादयित्रीं शिखरैर्बिभार्ति। बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ।। 199 ।। अत्र मत्ताशब्दः क्षीबार्थे निहतार्थः।। आदावञ्जनपुज्जलिप्तवपुषां श्वासानिल्लोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम्। संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ।। 200 ।। अत्र दृशामिति बहुवचनं निरर्थकम्। कुरङ्गेक्षणाया एकस्या एवोपादानात्। न चालसवलितैरित्यादिवत् व्यापारभेदाद्बहुत्वम् व्यापाराणामनुपात्तत्वात्। न च व्यापारेऽत्र दृक्शब्दो वर्तते। अत्रैव "कुरुते" इत्यात्मनेपदमप्यनर्थकम्। प्रधानक्रियाफलस्य कत्र्रसंबन्धे कर्त्रभिप्रायक्रियाफलाभावात्।। चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः। अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ।। 201 ।। अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः।। अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः। परमार्थतः सहृदयं वहति पुनः कालकूटघटितमिव ।। 202 ।। अत्र पेलवशब्दः।। यः पूयते सुरसरिन्मुखतीर्थसार्थस्नानेन शास्त्रपरिशीलनकीलनेन। सौजन्यमान्यजनिरूर्जितमूर्जितानां सोऽयं दृशोः पतति कस्यचिदेव पुंसः ।। 203 ।। अत्र पूयशब्दः।। विनयप्रणयैककेतनं सततं योऽभवदङ्ग तादृशः। कथमद्य स तद्वदीक्ष्यतां तदभिप्रेतपदं समागतः ।। 204 ।। अथ प्रेतशब्दः।। कस्मिन् कर्मणि सामथ्र्यमस्य नोत्तपतेतराम्। अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ।। 205 ।। अत्र किं पूर्वं साधुः, उत साधुषु चरतीति संदेहः।। किमुच्यतेऽस्य भूपालमौलिमालामहामणेः। सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ।। 206 ।। अत्र वचःशब्देन गीःशब्दो लक्ष्यते। अत्र खलु न केवलं पूर्वपदम्, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते। जलध्यादावुत्तरपदेमेव वडड्डत्ध्;वानलादौ पूर्वपदमेव।। यद्यप्यसमर्थस्यैवाप्रयुक्तादयः केचन भेदाः, तथाप्यन्यैरालंकारिकैर्विभागेन प्रदर्शिता इति भेदप्रदर्शनेनोदाहर्तव्या इति च विभज्योक्ताः।। (सूदृ 75) प्रतिकूलवक्तुंपहतलुप्तावेसर्गं विसंधि हतवृत्तम्। न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ।।53।। अर्धान्तरैकवाचकम भवन्मतयोगमनबिहितवाच्यम्। अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम् ।।54।। भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा। (1) रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं प्रतीकूलवर्णम्। यथा शृङ्गारे अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम्। कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ।। 207 ।। रौर्दे यथा देशः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः क्षत्र्रादेव तथाविधः परिभवस्तातस्य केशग्रहः। तान्येवाहितहेतिघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ।। 208 ।। अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम्। यथा प्रागप्राप्तनिशुम्भशांभवधनुद्र्वेधाविधानिर्भवत्- क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात्। उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि- र्येनानेन जगत्सु खण्डड्डत्ध्;परशुर्देवो हरः ख्याप्यते ।। 209 ।। यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः।। (2) उपहत उत्वं प्राप्तो (3) लुप्तो वा विसर्गो यत्र तत्। यथा धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः। यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ।। 210 ।। (4) विसंधि संधेर्वैरूप्यम् विश्लेषोऽश्लीलत्वं कष्टत्वं च। तत्राद्यं यथा राजन्विभान्ति भवतश्वरितानि तानि इन्दोद्र्युतिं दधति यानि रसातलेऽन्तः। धीयोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसंपदमेत्य भातः ।। 211 ।। यथा वा तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः।। निजवंश उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्घः ।। 212 ।। संहितां न करोमीते स्वेच्छया सकृदपि दोषः प्रगृह्यादिहेतुकत्वे त्वसकृत्।। वेगादुड्ड्डत्ध्;डड्डत्ध्;ीय गगने चलण्डड्डत्ध्;ामरचेष्टितः। अयमुत्तपते पत्त्री ततोऽत्रैव रुचिङ्कुरु ।। 213 ।। अत्र संधावश्लीलता।। उव्र्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः। नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ।। 214 ।। (4) हतं लक्षणानुसरणेऽप्यश्रव्यम् अप्राप्तगुरुभावान्तलधु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम्। क्रमेणोदाहरणम्-- अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सन् रसान्तराविज्जनो वदतु यदुहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ।। 215 ।। अत्र "यदिहान्यत्स्वादु स्यात्" इत्य श्रव्यम्। यथा वा जं परिहरिउं तीरइ मणअं पि ण सुन्दरत्तणगुणेण। अह णवरँ जस्स दोसो पडिड्डत्ध्;पक्खेहिं पि पडिड्डत्ध्;वण्णो ।। 216 ।। अत्र द्वितीयतृतीयगणौ सकारभकारौ। विकसिदसहकारतारहारिपरिमलगुञ्जितपुञ्जितद्विरेफः। नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः ।। 217 ।। अत्र हारिशब्दः। हारिप्रमुदितसौरभेति पाठो युक्तः। यथा वा अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा। श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां च ।। 218 ।। अत्र "वस्त्राण्यपि" इति पाठे लघुरपि गुरुतां भजते।। हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव। मुग्धविदग्धसभान्तररत्न व्कासि गतः व्क वयं च तवैते ।। 219 ।। हास्यरसव्यञ्जकमेतद्वृत्तम् (6) न्यूनपदं यथा तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।। 220 ।। अत्रास्माभिरिति ""खिन्ने"" इत्यस्मात्पूर्वमित्थमिति च ।। (7) अधिकं यथा स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतच्वः। अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि ।। 221 ।। अत्र, आकुतिशब्दः। यथा वा इदमनुचितमक्रमश्व पुंसां यदिह जरास्वपि मान्मथा विकाराः। यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ।। 222 ।। अत्र कृतमिति। कृतं प्रत्युत प्रक्रमभङ्गमावहति। तथा च "यदपि च न कुरङ्गलोचनानाम्" इति पाठे निराकाङ्क्षैव प्रतीतिः।। (8) कथितपदं यथा अधिकरतलतल्पं कल्पितस्वापलीला- परिमिलननिमीलत्पाण्डिड्डत्ध्;मा गण्डड्डत्ध्;पाली। सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ।। 223 ।। अत्र लीलेति।। (9) पतत्प्रकर्षं यथा कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः। के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ।। 224 ।। (10) समाप्तपुनरात्तं यथा क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडड्डत्ध्;ापिकीनां रवः झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः। तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण- व्काणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ।। 225 ।। (11) द्वितीयार्धगतैकवाचकशेषप्रथमांर्ध यथा मसृणचरणपातं गम्यतां भूः सदर्भा विरचय सिचयान्तं मूÐध्न घर्मः कठोरः। तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ।। 226 ।। (12) अभवन् मतः (इष्टः) योगः (संबन्धः) यत्र तत्। यथा येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि- र्लीलापानभुवश्व नन्दनवनच्छायासु यैः कल्पिताः। येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोष्कारि विहितं किंचित्प्रवादोचितम् ।। 227 ।। अत्र ""गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्"" इत्युक्तनयेन यच्छब्दनिर्देश्यानामर्थानां परस्परमसमन्वयेन यैरित्यत्र विशेषस्याप्रतीतिरिति। "क्षपाचारिभिः" इति पाठे युज्यते समन्वयः। यथा वा त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः। अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वाम् अतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ।। 228 ।। अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति। "चेत्स्यात्" इति युक्तः पाठः। यथा वा संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेड्डत्ध्;न शराः शरैररिशिरस्तेनापि भूमण्डड्डत्ध्;लं तेन त्वं भवता च कीर्तिरतुला कीत्र्या च लोकत्रयम् ।। 229 ।। अत्राकर्णनक्रियाकर्मत्वे कोदण्डंड्डत्ध्; शरानित्यादि वाक्यार्थस्य कर्मत्वे कोदण्डड्डत्ध्;ः शरा इति प्राप्तम्। न च यच्छब्दार्थस्ताद्विशेषणं वा कोदण्डड्डत्ध्;ादि। न च केन केनेत्यादि प्रश्नः। यथा वा ""चापाचार्यस्त्रिपुरविजयीदृ"" ।। 230 ।। इत्यादौ भार्गवस्य निन्दायां तात्पर्यम्। कृतवतेति परशौ सा प्रतीयते। "कृतवतः" इति तु पाठे मतयोगो भवति। यथा वा चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता। कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं राजयन्योपनिमन्त्रणाय रसति स्फीतं हतो दुन्दुभिः ।। 231 ।। अत्राध्वरशब्दः समासे गुणीभूत इति न तदर्थः सवैः संयुज्यते। यथा वा जङ्गाकाण्डड्डत्ध्;ोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः। भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डड्डत्ध्;पादो भवान्याः ।। 232 ।। अत्र दण्डड्डत्ध्;पादगता निजतनुः प्रतीयते भवान्याः संबन्धिनी तु विवक्षिता।। (13) अवश्यवक्तव्यमनुक्तं यत्र। यथा अप्राकृतस्य चरितातिशयैश्व दृष्टैरत्यद्भुतैरपहृतस्य तथापि नास्था। कोऽप्येष वीरशिशुकाकृतिरप्रमेयसौन्दर्यसारसमुदायमयः पदार्थः ।। 233 ।। अत्र "अपहृतोऽस्मि" इत्यपहृतत्वस्य विधिर्वाच्यः, तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः। यता वा एषोऽहमद्रितनयामुखपझजन्मा प्राप्तः सुरासुरमनोरथदूरबतीं। स्वप्नेऽनिरुद्धघटनाधिगताभिरूपलक्ष्भीफलामसुरराजसुतां विधाय ।। 234 ।। अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः। यथा वा त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्भुखचेतसः। कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ।। 235 ।। अत्र "अपराधस्य लवमपि" इति वाच्यम्।। (14) अस्थानस्थपदं यथा प्रियेण संग्रथ्य विपक्षसंनिधानुपाहितां वक्षसि पीवरस्तने। स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुषु ।। 236 ।। अत्र "काचिन्न विजहौ" इति वाच्यम्। यथा वा लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तः कपोलस्थलम्। पार्वत्या नखलक्ष्मशढिद्धठ्ठड़14;कतसखीनर्मस्मितह्रीतया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः ।। 237 ।। अत्र नखलक्ष्मेत्यतः पूर्वं "कुटिलताम्रदृ" इति वाच्यम्।। (15) अस्थानस्थसमासं यथा अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः। प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात् फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ।। 238 ।। अत्र क्रुद्धस्योक्तौ समासो न कृतः कवेरुक्तौ तु कृतः।। (16) संकीर्णम् यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति। यथा किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम्। ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ।। 239 ।। अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पस्यसि, इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुञ्चेति। एकवाक्यतायां तु क्लिष्टमिति भेदः।। (17) गार्भितम् यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति। यथा परापकारनिरतैर्दुर्जनैः सह संगतिः। वदामि भवतस्तच्वं न विधेया कदाचन ।। 240 ।। अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः। यथा वा लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्यारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती। तत्सक्तोऽयं न किंचिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ।। 241 ।। अत्र "विदितं तेऽस्तु" इति एतत्कृतम्। प्रत्युत लक्ष्मीस्ततोऽपसरतीति विरुद्धमतिकृत्।। (18) ""मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति। स्तनितभणितादि सुरते मेघादिषु गर्जितप्रमुखम्।।"" इति प्रसिद्धिमतिक्रान्तम्। यथा महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डड्डत्ध्;घनगर्जितप्रतिरुतानुकारी मुहुः। रवःश्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ।। 242 ।। अत्र रवो मण्डूड्डत्ध्;कादिषु प्रसिद्धो न तूक्तविशेषे सिंहनादे।। (19) भग्नः प्रक्रमः प्रस्तावः, यत्र। यथा नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता। कुलाङ्गनानां हि दशानुरूपं नातः परं भद्रतरं समस्ति ।। 243 ।। अत्र "गते" इति प्रक्रान्ते "याता" इति प्रकृतेः। "गता निशापि" इति तु युक्तम्। ननु "नैकं पदं द्विः प्रयोज्यं प्रायेण" इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम्। तत्कथमेकस्य पदस्य द्विःप्रयोगः,। उच्यते। उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकपदप्रयोगनिषेधस्य तद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोगं विना दोषः। तथाहि--उदेति सविता ताम्रस्ताम्र एवास्तमेति च। संपत्तौ च विपत्तौ च महतामेकरूपता ।। 244 ।। अत्र रक्त एवास्तमेतीति यदि क्रियेत तदा पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति।। यथा वा यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा। निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ।। 245 ।। अत्र प्रत्ययस्य। "सुखमीहितुं वा" इति युक्तः पाठः। ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ।। 246 ।। अत्र सर्वनाम्नः। "अनेन विसृष्टाः" इति तु वाच्यम्। महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपबत्ये न जगाम तृप्तिम्। अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ।। 247 ।। अत्र पर्यायस्य। "महीभृतोऽपत्यवतोऽपि" इति युक्तम्। "अत्र सत्यपि पुत्रे कन्यारूपेऽप्यपत्ये स्नेहोऽभूत्" इति केचित्समर्थयन्ते। विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः। नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ।। 248 ।। अत्रोपसर्गस्य पर्ययस्य च। "तदभिभवः कुरुते निरायतिम्। लघुतां भजते निरायतिर्लघुतावान्न पदं नृपश्रियः।।" इति युक्तम्। काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मी- रश्रीकाः काश्विदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसच्वाः। भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसः ।। 249 ।। अत्र वचनस्य। "काश्वित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्त्रेनदुशोभा निःश्रीकाः" इति "कम्पमानाः" इत्यत्र "कम्पमापुः" इति च पठनीयम्। गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडिड्डत्ध्;तं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यताम्। विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विक्षाÏन्त लभतामिदं च शिथिलझ्याबन्धमस्मद्धनुः ।। 250 ।। अत्र कारकस्य। " विश्रब्धा रचयन्तु सूकरवरा मुस्ताक्षतिम्" इत्यदुष्टम्। अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा- ववितथमदाध्माते रोषान्मुनावभिगच्छति। अमिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ।। 251 ।। अत्र क्रमस्य। पादोपसंग्रहणायेति पूर्वं वाच्यम्। एवमन्यदप्यनुसर्तव्यम्।। (20) अविद्यमानः क्रमो यत्र। यथा द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः। कला च सा कान्तिमती कलावतः तव्मस्य लोकस्य च नेत्रकौमुदू ।। 252 ।। अत्र त्वंशब्दानन्तरं चकारो युक्तः। यथा वा शक्तिर्निस्त्रिशजेयं तव भुजयुगले नाथ दोषाकरश्री- र्वक्त्रे पाश्र्वे तथैषा प्रतिवसति महाकुट्टनी खढद्धठ्ठड़14;गयष्टिः। आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीत्र्या प्रयातम् ।। 253 ।। अत्र "इत्थं प्रोच्येव" इति न्याय्यम्। तथा "लग्नं रागावृताढद्धठ्ठड़14;ग्यादृ।।" 253 (क) ।। इत्यादौ "इति श्रीनियोगात्" इति वाच्यम् ।। (21) अमतः प्रकृतविरुद्धः परार्थो यत्र। यथा राममन्मथशरेण ताडिड्डत्ध्;ता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ।। 254 ।। अत्र प्रकृते रसे वलिरुद्धस्य शृङ्गारस्य व्यज्जकोऽपरोऽर्थः। अर्थदोषानाह (सूदृ 76) अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ।।55।। संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्व। अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्ताः ।।56।। साकाढद्धठ्ठड़14;क्षोऽपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्वः। विध्यनुवादायुक्तस्त्यक्तपुनः स्वीकृतोऽश्लीलः ।।57।। दुष्ट इति संबध्यते। क्रमेणोदाहरणम्-- (1) अतिविततगगनसरणिप्रसरणपरिमुक्तविक्षमानन्दः। मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ।। 255 ।। अत्रातिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थं न बाधन्त इत्यपुष्टाः, न त्वसंगताः पुनरुक्ता वा।। (2) सदा मध्ये यासामियममृतनिस्यन्दसुरसा सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्। प्रसादं ता एता घनपरिचिताः केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ।। 256 ।। अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः, गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत् प्रसन्ना भवन्तु। यासामादित्यप्रभाणां मध्ये त्रिपथगा वहतिताः, मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः।। (3) जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये। मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ।। 257 ।। अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वमुत्कर्षार्थमारोपयतीति व्याहतत्वम्।। (4) कृतमनुमतमित्यादि ।। 258 ।। अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः। यथा वा अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम्। कर्णालं कंभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ।। 259 ।। अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः।। (5) भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव। विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ।। 260 ।। अत्र मातढद्धठ्ठड़14;गस्य प्राङ्निर्देशो युक्तः। (6) स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते। तदयि सांप्रतमाहर कूर्परं त्वरितमूरुमुदञ्चय कुञ्चितम् ।। 261 ।। एषोऽविदग्धः।। (7) मात्सर्यमुत्सार्येत्यादि ।। 262 ।। अत्र प्रकरणाद्यभावे संदेहः शान्तशृङ्गार्यन्यतराभिधाने तु निश्वयः।। (8) गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्विन्न विषयः। परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ।। 263 ।। अत्र शस्त्रमोचने हेतुर्नोपात्तः।। (9) इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम्। इदं तद्दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ।। 264 ।। अत्र कामस्य चक्र लोकेऽप्रसिद्धम् । यथा वा (9 अ) उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवाद्भिरिहेक्ष्यताम्। इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ।। 265 ।। अत्र पादाघातेनाशोकस्य पुष्पोद्घमः कविषु प्रसिद्धो न पुनरङ्कुरोद्गमः। (सुसितवसनालंकारायां कदायन कौमुदी- महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः। तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का व्क नासि शुभप्रदः ।। 266 ।। अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न दुप्टम् ।।) (10) सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः। नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ।। 267 ।। ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रेण विरुद्धम्। (10 अ) अनन्यसदृशं यस्य बलं बाढद्धठ्ठड़14;वोः समीक्ष्यते। षाड्ड्डत्ध्;गुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना ।। 268 ।। एतत् अर्थशास्त्रेण। (10 आ) विधाय दूरे केयूरमनङ्गाङ्गणमढद्धठ्ठड़14;गना। बभार कान्तेन कृतां करजोल्लेखमालिकाम् ।। 269 ।। अत्र केयूरपदे नखक्षतं न विहितमिति, एतत्कामशास्त्रेण। (10 इ) अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद्विदूरे। आसादयन्नभिमतामधुना विवेकख्यातिं समाधिधनमौलिमणिर्विमुक्तः ।। 270 ।। अत्र विवेकख्यातिस्ततः संप्रज्ञातसमाधिः पश्वादसंप्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ एतत् योगशास्त्रेण। एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम्।। (11) प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम्। संतर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ।। 271 ।। अत्र ततः किमिति न नवीकृतम्। (तत्तु यथा यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः। लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ।। 272 ।।) (12) यत्रानुल्लिखितार्थमेव निखिलं निर्माणमेतद्विधे- रुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा। याताः प्राणभृतां मनोरथगतीरुल्लढद्धठ्ठड़14;घ्य यत्संपद- स्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ।। 273 ।। अत्र "छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता" इति सनियमत्वं वाच्यम्।। (13) वक्त्राम्भोजं सरस्वत्य धिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः। वाहिन्यः पाश्र्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मानसेऽस्मिन् कथमवनिपते तेऽम्बुपानाभिलाषः ।। 274 ।। अत्र "शोण एव" इति नियमो न वाच्यः।। (14) श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकै- र्मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम्। चन्द्रं चूर्णयत श्रणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्र्मुद्राङ्किताः ।। 275 ।। अत्र "ज्यौत्स्नीम्" इति श्यामाविशेषो वाच्यः।। (15) क्ललोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः। किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ।। 276 ।। अत्र "एकेन किं न विहितो भवतः स नाम" इति सामान्यं वाच्यम्। (16) अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया। उत्कर्फं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ।। 277 ।। अत्र स्त्रीरत्नम् "उपेक्षितुम्" इत्याकाङ्क्षति। नहि परस्येत्यनेन संबन्धो योग्यः।। (17) आज्ञा शक्रशिखामणिप्रणयिनी शास्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी। उत्पत्तिद्र्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः व्क नु पुनः सर्वत्र सर्वे गुणाः ।। 278 ।। अत्र "स्याच्चेदेष न रावणः" इत्यत्र, एव समाप्यम्। (18) श्रुतेन बुद्धिव्र्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ।। 279 ।। अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैव्र्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम्। (19) लग्नं रागावृताङ्ग्यादृ ।। 280 ।। इत्यत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते।। (20) प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा- मकेशवमपाण्डड्डत्ध्;वं भुबनमद्य निःसोमकम्। इयं परिसमाप्यते रणकथाद्य दोऽशालिना- मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ।। 281 ।। अत्र "शयितः प्रयत्नेन बोध्यसे" इति विधेयम्। यथा वा वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं तेग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः। तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै- र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ।। 282 ।। अत्र वाताहारादित्रयं व्युत्क्रमे वाच्यम्। (21) अरे रामाहस्ताभरण भसलश्रेणिशरण स्मारक्रीडड्डत्ध्;ाव्रीडड्डत्ध्;ाशमन विरहिप्राणदमन। सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्लथय कथय व्केन्दुवदना ।। 283 ।। अत्र "विरहिप्राणदमन" इति नानुवाद्यम्।। (22) लग्नं रागावृताङ्ग्येत्यादि ।। 284 ।। अत्र "विदितं तेऽस्तु" इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः।। (23) हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः। यथास्य जायते पातो न तता पुनरुन्नतिः ।। 285 ।। अत्र पुंव्यज्जनस्यापि प्रतीतिः। यत्रैको दोषः प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम्।। (सूदृ 77) कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः। संनिधानादिबोधार्थम् अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये। यथा अस्याः कर्णावतंसेन जितं सर्वं विभूषणम्। तथैव शोभतेऽत्यर्थमस्याः श्रवणकुण्डड्डत्ध्;लम् ।। 286 ।। अपूर्वमधुरामोदप्रमोदितदिशस्ततः। आययुर्भृङ्गमुखराः शिरःशेखरशालिनः ।। 287 ।। अत्र कर्णश्रवणशिरःशब्दाः संनिधानप्रतीत्यर्थाः।। विदीर्णाभिमुखारातिकराले संगरान्तरे। धनुज्र्याकिणचिढद्धठ्ठड़14;वेन दोष्णा विस्फुरितं तव ।। 288 ।। अत्र धनुःशब्द आरूढत्वावगतये। अन्यत्र तु ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वत्त्कपरंपरेण। कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ।। 289 ।। इत्यत्र केवलो ज्याशब्दः। प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः। मुक्ताहारेण लसता हसतीव स्तनद्वयम् ।। 290 ।। अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधनाय मुक्ताशब्दः। सौन्दर्यसंपत् तारुण्यं यस्यास्ते ते च विभ्रमाः। षट्पदान् पुष्पमालेव कान् नाकर्षति सा सखे ।। 291 ।। अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः। निरुपपदो हि मालाशब्दः पुष्पस्रजमेवाभिधत्ते।। (सूदृ 78) स्थितेष्वेतत्समर्थनम् ।।58।। न खलु कर्णावतंसादिवज्जघनकाञ्चीत्यादि क्रियते। जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।। 292 ।। इत्यादौ क्रियाविशेषणत्वेऽपि विवक्षितार्थप्रतीतिसिद्धौ ""गतार्थस्यापि विशेष्यस्य विशेषणदानांर्थ व्कचित्प्रयोगः कार्यः"" इति न युक्तम्। युक्तत्वे वा चरणत्रपरित्राणरहिताभ्यामपि द्रुतम्। पादाभ्यां दूरमध्वानं ब्रजन्नेष न खिद्यते ।। 293 ।। इत्युदाहार्यम्।। (सूदृ 79) ख्यातेऽर्थे निर्हेतोरदुष्टता यथा चन्द्रं गता पझगुणान्न भुढद्धठ्ठड़14;क्ते पझाश्रिता चान्द्रमसीमभिख्याम्। उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।। 294 ।। अत्र रात्रौ पझस्य संकोचः, दिवा चन्दरमसश्व निष्प्रभत्वं लोकप्रसिद्धमिति "न भुङ्क्ते" इति हेतुं नापेक्षते।। (सुदृ 80) (अ)नुकरणे तु सर्वेषाम्।। सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम्। यथा मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम्। पश्यैष च गवित्याह सुत्रामाणं यजेति च ।। 295 ।। (सूदृ 81) वक्त्राद्यौचित्यवशाद्दोषोऽपि गुणः व्कचित्व्कचिन्नोभौ ।।49।। वक्तृप्रतिपाद्यव्यङ्ग्यवाच्यप्रकरणादीनां महिम्ना दोषोऽपि व्कचिद्गुणः व्कचिन्न दोषो न गुणः। तत्र वैयाकरणादौ वक्तरि प्रतिपाद्ये च रौद्रादौ च रसे व्यङ्ग्ये कष्टत्वं गुणः। क्रमेणोदाहरणम्-- दीधीङ्वेवीङ्समः कश्विद्गुणवृद्ध्योरभाजनम्। व्किप्प्रत्ययनिभः कश्विद्यत्र संनिहिते न ते ।। 296 ।। यदा त्वामहमद्राक्षं पदविद्याविशारदम्। उपाध्यायं तदास्मार्षं समस्प्राक्षं च संमदम् ।। 297 ।। अन्त्रप्रोतबृहत्कपालनलकक्रूरव्कणत्कङ्कण- प्रायप्रेढिद्धठ्ठड़14;खतभूरिभूषणरवैराघोषयन्त्यम्बरम्। पीतच्छर्दितरक्तकर्दमघनप्राग्मारघोरोल्लस- द्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ।। 298 ।। वाच्यवशाद्यथा मातङ्गाः किमु वल्गितैः किमफलैराडड्डत्ध्;म्बरैर्जम्बुकाः सारङ्गा महिषा मदं व्रजथ किं शून्येषु शूरा न के। कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुरः सिन्धुध्वानिनि हुङ्कृते स्फुरति यत् तद्गर्जितं गर्जितम् ।। 299 ।। अत्र सिंहे वाच्ये परुषाः शब्दाः।। प्रकरणवशाद्यथा रक्ताशोक कृशोदही क्क नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः। उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद- स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्घमोऽयं कुतः ।। 300 ।। अत्र शिरोधूननेन कुपितस्य वचसि।। क्कचिन्नीरसे न गुणो न दोषः। यथा शीर्णग्राणाङ्ग्रिपाणीन् व्रणिभिरपघनैर्घर्घराव्यक्तघोषान् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः। घर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते- र्दत्तार्घाः सिद्धसंघर्विदधतु घृणयः शीघ्रमंहोविघातम् ।। 301 ।। अप्रयुक्तनिहतार्थौ श्लेषादावदुष्टौ। यथा येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यश्वोद्वृत्तभुजङ्गहारवलयोगङ्गां च योऽधारयत्। यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामाराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।। 302 ।। अत्र माधवपक्षे शशिमदन्धकक्षयशब्दावप्रयुक्तनिहतार्थौ। अश्लीलं क्कचिद्गुणः। यथा सुरतारम्भगोष्ट्याम् ""व्द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु"" इति कामशास्त्रस्थितौ करिहस्तेन संबाधे संबाधे प्रविश्यान्तर्विलोडिड्डत्ध्;ते। उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ।। 303 ।। शमकथासु उत्तानोच्छूनमण्डूड्डत्ध्;कपाटितोदरसंनिभे। क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ।। 304 ।। निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुड्डत्ध्;तनयाः सह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्व स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ।। 305 ।। अत्र भाव्यमङ्गलसूचकम् ।। संदिग्धमपि वाच्यमहिम्ना क्कचिन्नियतार्थप्रतीतिकृच्वेन व्याजस्तुतिपर्यवसायित्वे गुणः। यथा पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव। विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ।। 306 ।। प्रतिपाद्यप्रतिपादकयोज्र्ञत्वे सत्यप्रतीतं गुणः। यथा आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सच्वनिष्ठाः। यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता- त्तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ।। 307 ।। स्वयं वा परामर्शे। यथा षडड्डत्ध्;धिकदशनाडड्डत्ध्;ीचक्रमध्यस्थितात्मा हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः। अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः ।। 308 ।। अधमप्रकृत्युक्तिषु ग्राम्यो गुणः। यथा फुल्लुक्करं कलमकूरणिहं वहन्ति जे सिन्धुवारविडड्डत्ध्;वा मह वल्लहा दे। जे गालिदस्स महिसीदहिणो सरिच्छा दे किं च मुद्धविअइल्लपसूणपुञ्जा ।। 309 ।। अत्र कलमभक्तमहिषीदधिशब्दा ग्रम्या अपि विदूषकोक्तौ।। न्यूनपदं क्कचिद्गुणः। यथा गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा। मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ।। 310 ।। क्कचिन्न गुणो न दोषः। यथा तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावाद्र्रमस्या मनः। तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ।। 311 ।। अत्र पिहितेत्यतोऽनन्तरं "नैतद्यतः" इत्येतैन्र्यूनैः पदैर्विंशेषबुद्धेरकरणान्न गुणः। उत्तरा प्रतिपत्तिः पूर्वां प्रतिपतिं्त बाधते, इति न दोषः। अधिकपदं व्कचिद्गुणः। यथा यद्वञ्चनाहितमतिर्बहु चाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति। तत्साधवो न न विदन्ति विदन्ति किंतु कर्तुं वृथा प्रणयमस्य न पारयन्ति ।। 312 ।। अत्र "विदन्ति" इति द्वितीयमन्ययोगव्यवच्छेदपरम्। यथा वा वद वद जितः स शत्रुर्न हतो जल्पंश्व तव तवास्मीति। चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे ।। 313 ।। इत्येवमादौ हर्षभयादियुक्ते वक्तरि।। कथितपदं व्कचिद्गुणः, लाटानुप्रासे, अर्थान्तरसंक्रमितवाच्ये विहितस्यानुवाद्यत्वे च। क्रमेणोदाहरणम्-- सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः। पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ।। 314 ।। ताला जाअंति गुणा जाला दे सहिअएहिं धेप्पन्ति। रइकिरणाणुग्गहिआइँ होन्ति कमलाइँ कमलाइँ ।। 315 ।। जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ।। 316 ।। पतत्प्रकर्षमपि क्कचिद्गुणः। यथा, उदाहृते प्रागप्राप्तेत्यादौ ।। 317 ।। समाप्तपुनरात्तं व्कचिन्न गुणो न दोषः। यत्र न विशेषणमात्रदानार्थं पुनग्र्रहणम् अपि तु वाक्यान्तरमेव क्रियते। यथा, अत्रैव प्रागप्राप्तेत्यादौ ।। 318 ।। अपदस्थसमासं व्कचिद्गुणः यथा, उदाहृते रक्ताशेकेत्यादौ ।। 319 ।। गर्भितं तथैव । यथा हुमि अवहत्थिअरेहो णिरंकुसो अह विवेअरहिओ वि। सिविणे वि तुमम्मि पुणो पत्तिहि भतिं्त ण पसुमरामि ।। 320 ।। अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय। एवमन्यदपि लक्ष्याल्लक्ष्यम्।। (सूदृ 82) व्यभिचारिरसस्थायिबावानां शब्दवाच्यता। कष्टकल्पनया व्यत्त्किरनुबावविभावयोः ।।60।। प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः। अकाण्डेड्डत्ध्; प्रथनच्छेदौ अङ्गस्याप्यतिविस्तृतिः ।।61।। अङ्गिनोऽननुसंधानं प्रकृतीनां विपर्ययः। अनढद्धठ्ठड़14;गस्याभिधानं च रसे दोषाः स्युरीदृशाः ।।62।। (1) स्वशब्दोपादानं व्यभिचारिणो यथा सव्रीडड्डत्ध्;ा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भूजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि। सेष्र्या जढद्धठ्ठड़14;नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ।। 321 ।। अत्र व्रीजादीनाम्। "व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि। मीलद्भ्रूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे" इत्यादि तु युक्तम्।। (2) रसस्य स्वशप्देन वा वाच्यत्वम्। क्रमेणोदाहरणम्-- तामनढद्धठ्ठड़14;गजयमङ्गलश्रियं किंचिदुच्चभूजमूललोकिताम्। नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः।। 322 ।। आलोक्य कोमलकपोलतलाभिषिक्तव्यक्तानुरागसुभगामभिराममूर्तिम्। पश्यैष बाल्यमतिष्त्य विवर्तमानः शृढद्धठ्ठड़14;गारसीमनि तरङ्गितमातनोति ।। 323 ।। (3) स्थायिनो यथा संप्रहारे प्रहरणैः प्रहाराणा परसपरम् ठणत्कारैः श्रुतिकतैरुत्साहस्तस्त कोऽप्यभूत् ।। 324 ।। अत्रोत्माहस्य।। (4) कर्पूरधूलिधवलद्युतिपूरधौतदिङ्नण्डड्डत्ध्;ले शिशिररोचिषि तस्य यूनः। लीलाशिरोंऽगुकनिवेशविशेषक्लृप्तिव्यक्तससस्तनोन्नतिरभून्नयानपो सा ।। 325 ।। अत्रोद्दीपनालम्बनरूपाः सृङ्गायोग्या विभावा अनुभावपरलपसाचयिनः स्थिता इति पष्टकल्पना।। (5) परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूयः। इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ।। 326 ।। अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावो यत्नतः प्रतिपाद्यः।। (6) प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चति वचः। निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ।। 327 ।। अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्व व्यभिचारी, उपात्तः।। णिहुअरमणम्मि लोअणपहम्मि पडिड्डत्ध्;ए गुरुअणमज्झम्मि। सअलपरिहारहिअआ वणगमणं एव्व महइ वहू ।। 328 ।। अत्र सकलपरिहारवनगमने शान्तानुभावौ। इन्धनाद्यानयनव्याजेनोपभोगार्थं वनगमनं चेत् न दोषः।। (7) दीप्तिः पुनःपुनर्यथा कुमारसंभवे रतिविलापे।। (8) अकाण्डेड्डत्ध्; प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्केऽनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुयार्धेनस्य शृङ्गारवर्णनम्।। (9) अकाण्डेड्डत्ध्; छेदो यथा वीरचरिते द्वितीयेऽङ्के राघवभार्गवयोर्धाराधिरूढं वीररसे "कङ्कणमोजनाय गच्छामि" इति राघवस्योक्तौ ।। (10) अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम्। यथा हयग्रीववधे हयग्रीवस्य।। (11) अङ्गिनोऽननुसंधानम्। यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः।। (12) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्व वीररौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ताः, उत्तमाधममध्ममाश्व। तत्र रतिहासशोकाद्भुतानि, अदिव्यात्तमप्रकृतिवत् दिव्येष्वपि। किं तु रतिः संभोगशृङ्गाररूपां, उत्तमदेवताविषया न वर्णनीया। तद#्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्। क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत्स वढिद्धठ्ठड़14;नर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ।। 329 ।। इत्युक्तवत् भ्रुकुठ्यादिविकारवर्जितः क्रोधः सद्यःफलदः स्वर्गपातालगगनसमुद्रोल्लङ्घनाद्युत्साहश्व दिव्येष्वेव। अदिव्येषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेवोपनिबन्द्धव्यम्। अधिकं निबध्यमानमसत्यप्रतिभासेन "नायकवद्वर्तितव्यं न प्रतिनायकवत्" इत्युपदेशे न पर#्यवस्येत्। दिव्यादिव्येषु, उभयथापि। एवमुक्तस्यौचित्यस्य दिव्यादीनामिव दीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः। तत्रभवन् भगवन्नित्युत्तमेन न, अधमेन मुनिप्रभृतौ न राजादौ भट्टारकेति नोत्तमेति नोत्तमेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम्। एवं देशकालवयोजात्यादीनां वेषव्यवहारादिकमुचितमेवोपनिबन्द्धव्यम्।। (13) अनढद्धठ्ठड़14;गस्य रसानुपकारकस्य वर्णनम्। यथा कर्पूरमञ्जर्यां नायिकया स्वात्मना च कृतं वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य राज्ञा प्रशंसनम्।। ""ईदृशाः"" इति। नायिकापादप्रहारादिना नायककोपादिवर्णनम्। उक्तं हि ध्वनिकृता ""अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम्। औचित्योपनिबन्धस्तु रसस्योपनिषत्परा।।"" इति।। इदानीं क्कचिददोषा अप्येते, इत्युच्यन्ते। (सूदृ 83) न दोषः स्वपदेनोक्तावपि संचारिणः व्कचित्। यथा औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः। दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ।। 330 ।। अत्रौत्सुक्यशब्द इव तदनुभावो न तथाप्रतीतिकृत्। अत एव "दूरादुत्सुकम्" इत्यादौ व्रीडड्डत्ध्;ाप्रेमाद्यनुभावानां विवलितत्वादीनामिवपोत्सुकत्वानुभावस्य सहसाप्रसरणादिरूपस्य तथा- प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ।। (सूदृ 84) संचार्यादोर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ।।63।। बाध्यत्वेनोक्तिर्न परमदोषः, यावत् प्रकृतरसपरिपोषकृत्। यथा "व्काकार्यं शशलक्ष्मणः व्क च कुलम्" इत्यादौ ।। 331 ।। अत्र वितर्कादिषु, उद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोषः।। पाण्डुड्डत्ध्; क्षामं वदनं हृदयं सरसं तवालसं च वपुः। आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ।। 332 ।। इत्यादौ साधारणत्वं पाण्डुड्डत्ध्;तादीनामिति न विरुद्धम् ।। सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः। किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ।। 333 ।। इत्यत्राद्यमर्धं बाध्यत्वेनैवोक्तम्। जीवितादपि, अधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभढद्धठ्ठड़14;गुरोपमानतयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेः। न तु विनेयोन्मुखीकरणमत्र परिहारः शान्तशृङ्गारयोर्नैरन्तर्यस्याभावात्। नापि काव#्यशोभाकरणम् रसान्तरादनुप्रासमात्राद्वा तथाभावात्।। (सूदृ 85) आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः। रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ।।64।। वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिपक्षगतत्वेन भयानको निवेशयितव्यः। शान्तशृङ्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् यथा नागानन्दे शान्तस्य जीमूतवाहनस्य "अहो गीतम् अहो वादित्रम्" इत्यद्भुतमन्तर्निवेश्य मलयवतीं प्रतिशृढद्धठ्ठड़14;गारो निबद्धः। न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते। यथा भूरेणुदिग्धान् नवपारिजातमालारजोवासितबाहुमध्याः। गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ।। 334 ।। सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान्। संवीजिताश्वन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ।। 334 (अ) ।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम्। निर्दिश्यमानान् ललन्ढद्धठ्ठड़14;गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ।। 335 ।। अत्र बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशितः। (सूदृ 86) स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः। अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ।।65।। अयं स रशनोत्कर्षी पीनस्तनविमर्दनः। नाभ्यूरुजधनस्पर्शी नीवीविस्रंसनः करः ।। 336 ।। एतत् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदधौ। अत्र पूर्वावस्थास्मरणं षृङ्गाराङ्गमपि करुणं परिपोषयति।। दन्तक्षतानि करजैश्व विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे। दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ।। 337 ।। अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जिनस्य। यथा वा परः शृङ्गारी तदवलोकनात्सस्पृहस्तद्वत् एतद्दृशो मुनय इति साम्यविवक्षा।। क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव गलद्बाष्पाम्बुधौतानना। भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योऽधुना दावागिं्र परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ।। 338 ।। अत्र चाटुके राजविषया रतिः प्रतीयते। तत्र करुण इव शङ्गारोऽप्यङ्गमिति तयोर्न विरोधः। यथा एहि गच्छ पतोत्तिष्ट वद मौनं समाचर। एवमाशाग्रहग्रस्तैः क्रीडड्डत्ध्;न्ति धनिनोऽर्थिभिः ।। 339 ।। इत्यत्र, एहीति क्रीढन्ति गच्छेति क्रीडड्डत्ध्;न्तीति क्रीडड्डत्ध्;नापेक्षयोरागमनगमनयोर्न विरोधः। क्षिप्तो हस्तावलग्रः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृढद्धठ्ठड़14;णन् केशेष्वपास्तश्वरणनिपतितो नेक्षितः संभ्रमेण। आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवाद्र्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ।। 340 ।। इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम् तस्य तु शृङ्गारः, तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव। अथवा प्राक् यथा कामुक आचरति स्म तथा शराग्निरिति शृङ्गारपोषितेन करुणेन मुख्य एवार्थ उपोद्बल्यते। उक्तं हि "गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते। प्रधानस्योपकारे हि तथा भूयसि वर्तते।।" इति।। प्राक् प्रतिपादितस्य रसस्य रसान्तरेण न विरोधः, नाप्यङ्गाङ्गिभावो भवति, इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते।। इति काव्यप्रकाशे दोषदर्शनो नाम सप्तम उल्लासः ।।7।।