काव्यप्रकाशः/नवम उल्लासः

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ नवम उल्लासः ।।


गुणविवेचने कृतेऽलंकाराः प्राप्तावसराः, इति संप्रति शब्दालंकारानाह (सूदृ 103) यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते। श्लेषेण काव्का वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ।।78।। तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्व। तत्र पदभङ्गश्लेषेण यथा नारीणामनुकूलमाचरसि चेज्जानासि कश्वेतनो वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान्। युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः सामथ्र्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः ।। 352 ।। अभङ्गश्लेषेण यथा अहो केनेदृशी बुद्धिर्वारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी व्कचित् ।। 353 ।। काव्का यथा गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ।। 354 ।। (सूदृ 104) वर्णसाम्यमनुप्रासः स्वरवैसादृश्येऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम्। रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः। (सूदृ 105) छेकवृत्तिगतो द्विधा। छेकाः, विदग्धाः। वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः। गत इति छेकानुप्रासो वृच्यनुप्रासश्व। किं तयोः स्वरूपम्, इत्याह-- (सूदृ 106) सोऽनेकस्य सकृत्पूर्वः अनेकस्य, अर्थात व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुप्रासः। उदाहरणम् ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी। दध्रे कामपरिक्षामकामिनीगण्डड्डत्ध्;पाण्डुड्डत्ध्;ताम् ।। 355 ।। (सूदृ 107) एकस्याप्यसकृत्परः ।।79।। एकस्य, अपिशब्दादनेकस्य व्यज्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृच्यनुप्रासः। तत्र (सूदृ 108) माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकोच्यते। (सूदृ 109) ओजःप्रकाशकैस्तैस्तु परुषा उभयत्रापि प्रागुदाहृतम्। (सूदृ 110) कोमला परैः ।।80।। परैः शेषैः। तामेव केचित् ग्राम्येति वदन्ति। उदाहरणम् अपसारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि मृणालैरिति वदति दिवानिशं बाला ।। 356 ।। (सूदृ 111) केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः। एतास्तिस्रो वृत्तयः, वामनादीनां मते वैदर्भीगौडड्डत्ध्;ीपाञ्चाल्याख्या रीतयो मताः।। (सूदृ 112) शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ।।81।। शब्दगतोऽनुप्रासः शब्दार्थयोरभेदेऽप्यन्वयमात्रभेदात् लाटजनवल्लभत्वाच्च लाटानुप्रासः। एष पदानुप्रास इत्यन्ये ।। (सूदृ 113) पदानां सः स इति लाटानुप्रासः। उदाहरणम् यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य। यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।। 357 ।। (सूदृ 114) पदस्यापि अपिशब्देन स इति समुच्चीयते। उदाहरणम् वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः। सुधाकरः व्क नु पुनः कलङ्कविकलो भवेत् ।। 358 ।। (सूदृ 115) वृत्तावन्यत्र तत्र वा। नाम्नः स वृच्यवृच्योश्व एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम्। उदाहरणम् सितकरकररुचितविभा विभाकराकार धरणिधर कीर्तिः। पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ।। 359 ।। (सूदृ 116) तदेवं पञ्चधा मतः ।।82।। (सूदृ 117) अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः। यमकम् समरसमरसोऽयमित्यादावेकेषामर्थवच्वे, अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम् इति, अर्थे सतीत्युक्तम्। सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता। (सूदृ 118) पादतद्भागवृत्ति तद्यात्यनेकताम् ।।83।। प्रथमो द्वितीयादौ द्वितीयस्तृतीयादौ तृतीयश्वतुर्थे प्रथमस्त्रिष्वपीति सप्त। प्रथमो द्वितीये तृतीयश्वतुर्थे प्रथमश्वतुर्थे द्वितीयस्तृतीये, इति द्वे। तदेवं पादजं नवभेदम्। अर्धावृत्तिः श्लोकावृत्तिश्वेति द्वे। द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, अन्तभागोऽन्तभागेष्विति विंशतिर्बेदाः श्लोकान्तरे हि नासौ भागावृत्तिः। त्रिखण्डेड्डत्ध्; तिं्रशत् चतुःखण्डेड्डत्ध्; चत्वारिंशत्। प्रथमपादादिगतान्त्यार्धादिभागो द्वितीयपादादिगते, आद्यार्धादिभागे यम्यते, इत्याद्यन्वर्थतानुसरणेनानेकभेदम् अन्तादिकम् आद्यन्तिकम् तत्समुच्चयः, मध्यांदिकम् आदिपध्यम् अन्तमध्यम् मध्यान्तिकं तेषां समुच्चयः। तथा तस्मिन्नेव पादे, आद्यादिभागानां मध्यादिभागेषु,अनियते च स्थाने, आवृत्तिरिति प्रभूततमभेदम्। तदेतत्काव्यान्तर्गडुड्डत्ध्;भूतम् इति नास्य भेदलक्षणं कृतम्। दिङ्बात्रमुदाह्रियते सन्नारीभरणोमायमाराध्य विधुशेखरम्। सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय ।। 360 ।। विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना। महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम् ।। 361 ।। स त्वारम्भरतोऽवश्यमबलं विततारवम्। सर्वदा रणमानैषीदवानलसमस्थितः ।। 362 ।। सच्वारम्भरतोऽवश्यमवलम्बिततारवम्। सर्वदारणमानैषी दवानलसमस्थितः ।। 363 ।। अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम्। या च मातेव भजते प्रणते मानवे दयाम् ।। 364 ।। यदानतोऽयदानतो नयात्ययं न यात्ययम्। शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ।। 365 ।। सरस्वति प्रसादं मे स्थितिं चित्तसरस्वति। सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ।। 366 ।। ससार साकं दर्पेण कंदर्पेण ससारसा। शरन्नवाना विभ्राणा नाबिभ्राणा शरन्नवा ।। 367 ।। मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम्। अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत् ।। 368 ।। एवं वैचित्र्यसहस्रैः स्थितमन्यदुन्नेयम्।। (सूदृ 119) वाच्यभेदेन भिन्ना यत् युगपद्भाषणस्पृशः। श्लिष्यन्ति शब्दाः श्लेषोऽसावक्षरादिभिरष्टधा ।।84।। "अर्थभेदेन शब्दभेदः" इति दर्शने "काव्यमार्गे स्वरो न गण्यते" इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यत् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपढद्धठ्ठड़14;नुवते स श्लेषः। स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदादष्टधा। क्रमेणोदाहरणम्-- अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विधौ वक्रे मूÐध्न स्थितवति वयं के पुनरमी ।। 369 ।। पृथुकार्तस्वरपात्रं भूषितनिः शेषपरिजनं देव। विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ।। 370 ।। भक्तिप्रढद्धठ्ठड़14;वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ।। 371 ।। एष वचनश्लेषोऽपि। महदेसुरसंधम्मे तमवसमासंगमागमाहरणे। हरबहुसरणं तं चित्तमोहमवसरउमे सहमा ।। 372 ।। अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति। सामथ्र्यकृदमित्राणां मित्राणां च नृपात्मजः ।। 373 ।। रजनिरमणमौलेः पादपझावलोकक्षणसमयपराप्तापूर्वसंपत्सहस्रम्। प्रमथनिवहमध्ये जातुचिच्वत्प्रसादादहमुचितरुचिः स्यान्नन्दिता सा तथा मे ।। 374 ।। सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः। नयोपकारसांमुख्यमायासि तनुवर्तनम् ।। 375 ।। (सूदृ 120) भेदाभावात्प्रकृत्यादेर्भेदोऽपि नवमो भवेत्। नवमोऽपीत्यपिर्भिन्नक्रमः। उदाहरणम्-- योऽसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः। शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ।। 376 ।। अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ।। ननु स्वरितादिगुणभेदात् भिन्नप्रयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धेऽलंकारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोऽर्थश्लेषश्वेति द्विविधोऽप्यर्थालंकारमध्ये परिगणितोऽन्यैरिति कथमयं शब्दालंकारः। उच्यते--इह दोषगुणालंकाराणां शब्दार्थगतत्वेन यो विभागः सः, अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते। तथाहि--कष्टत्वादिगाढत्वाद्यनुप्रासादयः, व्यर्थत्वादिप्रौढ्याद्युपमादयस्तद्भावतदभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते। स्वयं च पल्लवाताम्रभास्वत्करविरीजिता। इत्यभङ्गः प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ।। 377 ।। इति सभङ्गः इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नम् न त्वाद्यस्यार्थश्लेषत्वम्। अर्थश्लेषस्य तु स विषयः, यत्र शब्दपरिवर्तनेऽपि न श्लेषत्वखण्डड्डत्ध्;ना। यथा स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्। अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ।। 378 ।। न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा। तथाहि--यथा "कमलमिव मुखं मनोज्ञमेतत्कचतितराम्" इत्यादौ गुणसाम्ये क्रियासाम्ये, उभयसाम्ये वा, उपमा। तथा "सकलकलं पुरमेतञ्जातं संप्रति सुधाशुबिम्बमिव" इत्यादौ शब्दमात्रसाम्येऽपि सायुक्तैव। तथा ह्युक्तं रुद्रटेन ""स्फुटमर्थालंकारावेतावुतावुपमासमुच्चयौ किं तु। आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः।।"" इति। न च "कमलमिव मुखम्" इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तम् पूर्णोपमाया निर्विषयत्वापत्तेः ।। देव त्वमेव पातालमाशानां त्वं निबन्धनम्। त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः।। 379 ।। इत्यादिः श्लेषस्य चोपमाद्यलंकारविविक्तोऽस्ति विषय इति। द्वयोर्योगे, संकर एव। उपपत्तिपर्यालोचने तु, उपमाया एवायं युक्तो विषयः। अन्यथा विषयापहार एव पूर्णोपमायाः स्यात्। न च "अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका" इत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोधः। न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः, द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात्। न च विरोधाबास इव विरोधः श्लेषाभासः श्लेष#ः। तदेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलंकारान्तरमेव। तथा च सद्वंशमुक्तामणिः ।। 380 ।। नाल्पः कविरिव स्वल्पश्लोको देव महान् भवान् ।। 381 ।। अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्वित्रा तथापि न समागमः ।। 382 ।। आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः। यश्वित्रमच्युतशरो लक्ष्यमबाङ्क्षीन्नमस्तस्मै ।। 383 ।। इत्यादौविलष्टपरम्परिनरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्वमुचितम् न तु श्लेषत्वम्।। शब्द श्लेष इति चोच्यते, अर्थालंकारमध्ये च लक्ष्यते, इति कोऽयं नयः । किं च वैचित्र्यमलंकार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रता, इति सैवालंकारभूमिः। अर्थमुस्वप्रेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति तेऽप्यर्थालंकाराः किं न#ोच्यन्ते। रसादिव्यज्जकस्वरूपवाच्यविशेषसव्यपेक्षत्वेऽपि ह्यनुप्रासादीनामलंकारता। शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता। अर्थगुणदोषालंकाराणां शब्दापेक्षयैव व्यवस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम्। "विधौ वक्रे मूÐध्न" इत्यादौ च वर्णादिश्लेषे, एकप्रयत्नोच्चार्यत्वेऽर्थश्लेषत्वं शब्दभेदेऽपि प्रसज्यतामित्येवमादि स्वयं विचार्यम्।। (सूदृ 121) तच्चित्रं यत्र वर्णानां खढ्गाद्याकृतिहेतुता।।85।। संनिवेशविशेषेण यत्र न्यस्ता वर्णाः खड्ड्डत्ध्;गमुरजपझाद्याकारमुल्लासयन्ति तच्चित्रं काव्यम्। कष्टं काव्यमेतदिति दिङ्भात्रं प्रदश्र्यंते। उदाहरणम्-- मारारिशक्ररामेभमुखैरासाररंहसा। सारारब्धस्तवा नित्यं तदार्तिहरणक्षणा ।। 384 ।। माता नतानां संघट्टः श्रियां बाधितसंभ्रमा। मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ।। 385 ।। (खड्ड्डत्ध्;गबन्धः) सरला बहुलारम्भतरलालिबलारवा। वारलाबहुलामन्दकरलाबहुलामला ।। 386 ।। (मुरजबन्धः) भासते प्रतिभासार रसाभाताहताविभा। भावितात्मा शुभा वादे देवाभा बत ते सभा ।। 387 ।। (पझबन्धः) रसासार रसा सारसायताक्ष क्षतायसा। सातावात तवातासा रक्षतस्त्वस्त्वतंक्षर ।। 388 ।। (सर्वतोभद्रम्) संभविनोऽप्यन्ते प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदश्र्यन्ते।। (सूदृ 122) पुनरुक्तवदाभासो विभिन्नाकारशब्दगा।। एकार्थतेव भिन्नरूपसार्थकानर्थकश्ब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः। स च (सूदृ 123) शब्दस्य सभढद्धठ्ठड़14;गाभङ्गरूपकेवलशब्दनिष्ठः। उदाहरणम्-- अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः। भाति सदानत्यागः स्थिरतायामवनितलतिलकः ।। 389 ।। चकासत्यङ्गनारामाः कौतुकानन्दहेतवः। तस्य राज्ञः सुमनसो विबुधाः पाश्र्ववर्तिनः ।। 390 ।। (सूदृ 124) तथा शब्दार्थयोरयम् ।।86।। उदाहरणम्-- तनुवपुरजघन्योऽसौ करिकुञ्जररुधिररक्तखरनखरः। तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः ।। 391 ।। अत्रैक्समिन् पदे परिवर्तिंते नालंकार इति शब्दाश्रयः, अपरस्मिस्तु परिवर्तितेऽपि स न हीयते, इत्यर्थनिष्ठ इत्युभयालंकारोऽयम्।। इति काव्यप्रकाशे शब्दालंकारनिर्णयो नाम नवम उल्लासः।।