काव्यप्रकाशः/नवम उल्लासः
।। अथ नवम उल्लासः ।।
| काव्यप्रकाशः |
|---|
| * प्रथमः उल्लासः
|
गुणविवेचने कृतेऽलङ्काराः प्राप्तावसराः, इति संप्रति शब्दालङ्कारानाह —
(सू.१०३) यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥७८॥
तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्व ।
तत्र पदभङ्गश्लेषेण यथा — नारीणामनुकूलमाचरसि चेज्जानासि कश्चेतनो वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान् । युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः ॥३५२॥
अभङ्गश्लेषेण यथा — अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता । त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥३५३॥
काक्वा यथा — गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥३५४॥
(सू.१०४) वर्णसाम्यमनुप्रासः
स्वरवैसादृश्येऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम् । रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः ।
(सू.१०५) छेकवृत्तिगतो द्विधा। छेकाः, विदग्धाः । वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः । गत इति छेकानुप्रासो वृच्यनुप्रासश्च ।
किं तयोः स्वरूपम्, इत्याह — (सू.१०६) सोऽनेकस्य सकृत्पूर्वः अनेकस्य, अर्थात् व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुप्रासः । उदाहरणम् —
ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥३५५॥
(सू.१०७) एकस्याप्यसकृत्परः ॥७९॥
एकस्य, अपिशब्दादनेकस्य व्यञ्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृत्यनुप्रासः । तत्र
(सू.१०८) माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकोच्यते ।
(सू.१०९) ओजःप्रकाशकैस्तैस्तु परुषा उभयत्रापि प्रागुदाहृतम् ।
(सू.११०) कोमला परैः ॥८०॥
परैः शेषैः । तामेव केचित् ग्राम्येति वदन्ति । उदाहरणम् —
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥३५६॥
(सू.१११) केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः । एतास्तिस्रो वृत्तयः, वामनादीनां मते वैदर्भीगौडीपाञ्चाल्याख्या रीतयो मताः ।
(सू.११२) शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥८१॥ शब्दगतोऽनुप्रासः शब्दार्थयोरभेदेऽप्यन्वयमात्रभेदात् लाटजनवल्लभत्वाच्च लाटानुप्रासः । एष पदानुप्रास इत्यन्ये ।
(सू.११३) पदानां सः स इति लाटानुप्रासः । उदाहरणम् — यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥३५७॥
(सू.११४) पदस्यापि अपिशब्देन स इति समुच्चीयते । उदाहरणम् — वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत् ॥३५८॥
(सू.११५) वृत्तावन्यत्र तत्र वा । नाम्नः स वृत्यवृत्योश्च एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम्। उदाहरणम् — सितकरकररुचितविभा विभाकराकार धरणिधर कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥३५९॥
(सू.११६) तदेवं पञ्चधा मतः ॥८२॥
(सू.११७) अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः । यमकम् समरसमरसोऽयमित्यादावेकेषामर्थवच्वे, अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम् इति, अर्थे सतीत्युक्तम् । सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता ।
(सू.११८) पादतद्भागवृत्ति तद्यात्यनेकताम् ॥८३॥ प्रथमो द्वितीयादौ द्वितीयस्तृतीयादौ तृतीयश्वतुर्थे प्रथमस्त्रिष्वपीति सप्त । प्रथमो द्वितीये तृतीयश्वतुर्थे प्रथमश्वतुर्थे द्वितीयस्तृतीये, इति द्वे । तदेवं पादजं नवभेदम् । अर्धावृत्तिः श्लोकावृत्तिश्वेति द्वे ।
द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, अन्तभागोऽन्तभागेष्विति विंशतिर्भेदाः श्लोकान्तरे हि नासौ भागावृत्तिः । त्रिखण्डे त्रिंशत् चतुःखण्डे चत्वारिंशत् । प्रथमपादादिगतान्त्यार्धादिभागो द्वितीयपादादिगते, आद्यार्धादिभागे यम्यते, इत्याद्यन्वर्थतानुसरणेनानेकभेदम् अन्तादिकम् आद्यन्तिकम् तत्समुच्चयः, मध्यादिकम् आदिमध्यम् अन्तमध्यम् मध्यान्तिकं तेषां समुच्चयः । तथा तस्मिन्नेव पादे, आद्यादिभागानां मध्यादिभागेषु, अनियते च स्थाने, आवृत्तिरिति प्रभूततमभेदम् । तदेतत्काव्यान्तर्गतभूतम् इति नास्य भेदलक्षणं कृतम् । दिङ्मात्रमुदाह्रियते —
सन्नारीभरणोमायमाराध्य विधुशेखरम् । सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय ॥३६०॥
विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना । महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम् ॥३६१॥
स त्वारम्भरतोऽवश्यमबलं विततारवम् । सर्वदा रणमानैषीदवानलसमस्थितः ॥३६२॥ सत्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्वदारणमानैषी दवानलसमस्थितः ॥३६३॥
अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥३६४॥
यदानतोऽयदानतो नयात्ययं न यात्ययम् । शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ॥३६५॥
सरस्वति प्रसादं मे स्थितिं चित्तसरस्वति । सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥३६६॥
ससार साकं दर्पेण कंदर्पेण ससारसा । शरन्नवाना विभ्राणा नाबिभ्राणा शरन्नवा ॥३६७॥
मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम् । अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत् ॥३६८॥ एवं वैचित्र्यसहस्रैः स्थितमन्यदुन्नेयम् ॥
(सू.११९) वाच्यभेदेन भिन्ना यत् युगपद्भाषणस्पृशः । श्लिष्यन्ति शब्दाः श्लेषोऽसावक्षरादिभिरष्टधा ॥८४॥ "अर्थभेदेन शब्दभेदः" इति दर्शने "काव्यमार्गे स्वरो न गण्यते" इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यत् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपनुवते स श्लेषः । स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदादष्टधा । क्रमेणोदाहरणम् -
अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥३६९॥
पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥३७०॥
भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥३७१॥
एष वचनश्लेषोऽपि। महदेसुरसंधम्मे तमवसमासंगमागमाहरणे । हरबहुसरणं तं चित्तमोहमवसरउमे सहमा ॥३७२॥
अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति । सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥३७३॥
रजनिरमणमौलेः पादपद्मावलोकक्षणसमयपराप्तापूर्वसंपत्सहस्रम् । प्रमथनिवहमध्ये जातुचित्त्वत्प्रसादादहमुचितरुचिः स्यान्नन्दिता सा तथा मे ॥३७४॥
सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः । नयोपकारसांमुख्यमायासि तनुवर्तनम् ॥३७५॥
(सू.१२०) भेदाभावात्प्रकृत्यादेर्भेदोऽपि नवमो भवेत् । नवमोऽपीत्यपिर्भिन्नक्रमः । उदाहरणम् -
योऽसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः । शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ॥३७६॥ अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ ॥
ननु स्वरितादिगुणभेदात् भिन्नप्रयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धेऽलंकारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोऽर्थश्लेषश्चेति द्विविधोऽप्यर्थालङ्कारमध्ये परिगणितोऽन्यैरिति कथमयं शब्दालंकारः ।
उच्यते - इह दोषगुणालंकाराणां शब्दार्थगतत्वेन यो विभागः सः, अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते । तथाहि - कष्टत्वादिगाढत्वाद्यनुप्रासादयः, व्यर्थत्वादिप्रौढ्याद्युपमादयस्तद्भावतदभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते ।
स्वयं च पल्लवाताम्रभास्वत्करविराजिता । इत्यभङ्गः
प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ॥३७७॥ इति सभङ्गः
इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नम् न त्वाद्यस्यार्थश्लेषत्वम् । अर्थश्लेषस्य तु स विषयः, यत्र शब्दपरिवर्तनेऽपि न श्लेषत्व खण्डना । यथा
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥३७८॥
न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा । तथाहि - यथा "कमलमिव मुखं मनोज्ञमेतत्कचतितराम्" इत्यादौ गुणसाम्ये क्रियासाम्ये, उभयसाम्ये वा, उपमा । तथा "सकलकलं पुरमेतञ्जातं संप्रति सुधाशुबिम्बमिव" इत्यादौ शब्दमात्रसाम्येऽपि सायुक्तैव। तथा ह्युक्तं रुद्रटेन
""स्फुटमर्थालंकारावेतावुतावुपमासमुच्चयौ किं तु । आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ॥"" इति ।
न च "कमलमिव मुखम्" इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तम् पूर्णोपमाया निर्विषयत्वापत्तेः ।
देव त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥३७९॥
इत्यादिः श्लेषस्य चोपमाद्यलंकारविविक्तोऽस्ति विषय इति । द्वयोर्योगे, संकर एव । उपपत्तिपर्यालोचने तु, उपमाया एवायं युक्तो विषयः। अन्यथा विषयापहार एव पूर्णोपमायाः स्यात् ।
न च "अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका" इत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोधः। न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः, द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात्। न च विरोधाबास इव विरोधः श्लेषाभासः श्लेषः । तदेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलंकारान्तरमेव । तथा च
सद्वंशमुक्तामणिः ॥३८०॥
नाल्पः कविरिव स्वल्पश्लोको देव महान् भवान् ॥३८१॥
अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्वित्रा तथापि न समागमः ॥३८२॥
आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः । यश्वित्रमच्युतशरो लक्ष्यमबाङ्क्षीन्नमस्तस्मै ॥३८३॥
इत्यादावेकदेशविवर्तिरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्वमुचितम् न तु श्लेषत्वम् ॥
शब्द श्लेष इति चोच्यते, अर्थालंकारमध्ये च लक्ष्यते, इति कोऽयं नयः । किं च वैचित्र्यमलंकार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रता, इति सैवालंकारभूमिः। अर्थमुस्वप्रेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति तेऽप्यर्थालंकाराः किं न#ोच्यन्ते। रसादिव्यज्जकस्वरूपवाच्यविशेषसव्यपेक्षत्वेऽपि ह्यनुप्रासादीनामलंकारता। शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता। अर्थगुणदोषालंकाराणां शब्दापेक्षयैव व्यवस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम्। "विधौ वक्रे मूÐध्न" इत्यादौ च वर्णादिश्लेषे, एकप्रयत्नोच्चार्यत्वेऽर्थश्लेषत्वं शब्दभेदेऽपि प्रसज्यतामित्येवमादि स्वयं विचार्यम् ॥
(सू.१२१) तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥८५॥
संनिवेशविशेषेण यत्र न्यस्ता वर्णाः खड्गमुरजपद्माद्याकारमुल्लासयन्ति तच्चित्रं काव्यम् । कष्टं काव्यमेतदिति दिङ्भात्रं प्रदर्श्यते । उदाहरणम् -
मारारिशक्ररामेभमुखैरासाररंहसा । सारारब्धस्तवा नित्यं तदार्तिहरणक्षणा ॥३८४॥
माता नतानां संघट्टः श्रियां बाधितसंभ्रमा । मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ॥३८५॥ (खड्गबन्धः)
सरला बहुलारम्भतरलालिबलारवा । वारलाबहुलामन्दकरलाबहुलामला ॥३८६॥ (मुरजबन्धः)
भासते प्रतिभासार रसाभाताहताविभा । भावितात्मा शुभा वादे देवाभा बत ते सभा ॥३८७॥ (पद्मबन्धः)
रसासार रसा सारसायताक्ष क्षतायसा । सातावात तवातासा रक्षतस्त्वस्त्वतंक्षर ॥३८८॥ (सर्वतोभद्रम्)
संभविनोऽप्यन्ते प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदर्श्यन्ते ॥
(सू.१२२) पुनरुक्तवदाभासो विभिन्नाकारशब्दगा ॥ एकार्थतेव
भिन्नरूपसार्थकानर्थकश्ब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः । स च
(सू.१२३) शब्दस्य
सभङ्गाभङ्गरूपकेवलशब्दनिष्ठः । उदाहरणम् -
अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः । भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥३८९॥
चकासत्यङ्गनारामाः कौतुकानन्दहेतवः । तस्य राज्ञः सुमनसो विबुधाः पाश्र्ववर्तिनः ॥३९०॥
(सू.१२४) तथा शब्दार्थयोरयम् ॥८६॥
उदाहरणम् - तनुवपुरजघन्योऽसौ करिकुञ्जररुधिररक्तखरनखरः । तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः ॥३९१॥
अत्रैकस्मिन् पदे परिवर्तिंते नालंकार इति शब्दाश्रयः, अपरस्मिंस्तु परिवर्तितेऽपि स न हीयते, इत्यर्थनिष्ठ इत्युभयालंकारोऽयम् ॥
॥ इति काव्यप्रकाशे शब्दालंकारनिर्णयो नाम नवम उल्लासः ॥