सामग्री पर जाएँ

काव्यप्रकाशः/तृतीय उल्लासः

विकिस्रोतः तः

।। अथ तृतीय उल्लासः ।।


(सूत्र ३५) अर्थाः प्रोक्ताः पुरा तेषाम्
अर्था वाच्यलक्ष्यव्यङ्ग्याः। तेषां वाचकलाक्षणिकव्यञ्जकानाम्।।
(सूत्र ३६) अर्थव्यञ्जकतोच्यते।
कीदृशीत्याह
(सूदृ 37) वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः।। 21 ।।
प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम्।
योऽर्तस्यान्यार्थधीहेतुव्र्यापारो व्यक्तितरेव सा ।। 22 ।।
बोद्धव्यः प्रतिपाद्यः। काकुध्र्वनेर्विकारः। प्रस्तावः प्रकरणम्। अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः। क्रमेणोदाहरणानि।
अइपिहुलं जलकुंभं घेत्तूण समागदढिद्धठ्ठड़14;न सहि तुरिअम्।
समसेअसलिलणीसासणीसहा वीसमामि खणम् ।।13।।
अत्र चौर्यरतगोपनं गब्यते।
ओण्णिद्दं दोब्बल्लं चिंता अलसत्तणं सणीससिअम्।
मह मंदभाइणीए केरं सहि तुह वि अहह परिहवइ ।।14।।
अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते।
तथाभूतां दृष्ट्वा नृपसदसि पाञ्जालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।।15।।
अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काव्का प्रकाश्यते। न च वाच्यसिद्धयङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्क्यम्। प्रश्र्नमात्रेणापि काकोर्विश्रान्तेः।
तइआ मह गंडड्डत्ध्;त्थलणिमिअं दिÏठ्ठ ण णेसि अण्णत्तो।
एÏण्ह सच्चेअ अहं ते अ कवाला ण सा दिठ्ठी ।।16।।
अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत् चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते, इति व्यज्यते।
उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी
कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः।
किं चैतस्मिन् सुरतसुदृदस्तन्वि दे वान्ति वाता
येषामग्रे सरति कलिताकाण्जकोपो मनोभूः ।।17।।
अत्र रतार्थं प्रविशेति व्यङ्ग्यम्।
णोल्लेइ अणोल्लमणा अत्ता मं घरभरम्मि।
खणमेत्तं जइ संझाइ होइ ण व होइ वीसामो ।।18।।
अत्र संध्या संकेतकार इति तटस्थं प्रति कयाचिद्दयोत्यते।
सुव्वह समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण।
एमे अ कित्ति चिठ्ठसि ता सहि सज्जेसु करणिज्जम् ।।19।।
अत्रोपपतिं प्रत्यभिसर्तुं प्रस्तुता न युक्तमिति कयाचिन्निवार्यते।
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ।।20।।
अत्र विविक्तोऽयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति, आश्वस्तां प्रति कयाचिन्निवेद्यते।
गुरुअणपरवस पिअ किं भणामि तुइ मंदभाइणी अहकम्।
अज्ज पवासं वच्चसि वच्च सअं जेव्व सुणसि करणिज्जम् ।।21।।
अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत् न बवामि तव तु न जानामि गतिमिति व्यज्यते। आदिग्रहणाच्चेष्टादेः। तत्र चेष्टाया यथा
द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम्।
आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने
वाचस्तत्र निवारितं प्रसरणं संकोचिते दोर्लते ।।22।।
अत्र चेष्टया प्रच्छन्नकान्तविष्य आकूतविशेषो ध्वन्यते। निराकाढद्धठ्ठड़14;क्षप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते। वत्त्कादीनां मिथःसंयोगे द्विकादिभेदेन। अनेन क्रमेण लक्ष्यव्यङ्ग्यपोश्व व्यञ्जकत्वमुदाहार्यम्।।
(सूदृ 38) शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः।
अर्थस्य व्यञ्जकत्वे तत् शब्दस्य सहकारिता ।। 23 ।।
शब्देति। नहि प्रमाणान्तरवेद्योऽर्थो व्यञ्जकः।।
इति श्रीकाव्यप्रकाशेऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः ।। 3 ।।