काव्यप्रकाशः/अष्टमः उल्लासः

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ अष्टम उल्लासः ।।


एवं दोषानुक्त्वा गुणालंकारविवेकमाह (सूदृ 87) ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः। उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ।।66।। आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम्। व्कचितु शौर्यादिसमुचितस्याकारमहच्वादेर्दर्शनात् "आकार एवास्य शूरः" इत्यादेव्र्यवहारादन्यत्राशूरेऽपि वितताकृतित्वमात्रेण "शूरः" इति व्कापि शूरेऽपि मूर्तिलाघवमात्रेण "अशूरः" इति, अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिवन्ध्या व्यवहरन्ति, अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैव्र्यज्यन्ते न तु वर्णमात्राश्रयाः। यथैषां व्यञ्जकत्वम् तथोदाहरिष्यते।। (सूदृ 88) उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित्। हारादिवदलंकारास्तेऽनुप्रासोपमादयः ।।67।। ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं संभविनमुपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणोऽपि, उपकारका हारादय इवालंकाराः । यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिनः। व्कचित्तु सन्तमपि नोपकुर्वन्ति। यथाक्रममुदाहरणानि-- अपसारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि मृणालैः इति वदति दिवानिशं बाला ।। 341 ।। इत्यादौ वाचकमुखेन मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव। हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ।। 342 ।। इत्यादौ वाच्यमुखेनालंकारौ रसमुपकुरुतः।। चित्ते विहट्टदि ण टुट्टदि सा गुणेसुं सेज्जासु लोट्टदि विसट्टदि दिम्मुहेसुं। बोलम्मि वट्टदि पवट्टदि कव्वबन्धे झाणेण टुट्टदि चिरं तरुणी तरट्टी ।। 343 ।। इत्यादौ वाचकमेव। मित्रे व्कापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् । चक्राढद्धठ्ठड़14;वेन वियोगिना बिसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ।। 344 ।। इत्यादौ वाच्यमेव न तु रसम्। अत्र बिसलता न जीवं रोद्धुं क्षमेति प्रकृताननुगुणोपमा।। एष एव च गुणालंकारप्रविभागः। एवं च ""समवायवृच्या शौर्यादयः संयोगवच्यातु हारादय इत्यस्तु गुणालंकाराणां भेदः, ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समबायवृच्या स्थितिरिति गड्ड्डत्ध्;डड्डत्ध्;लिकाप्रवाहेणैवैषां भेदः"" इत्यभिधानमसत्।। यदप्युक्तम् ""काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकाराः"" इति तदपि न युक्तम्। यतः किं समस्तैर्गुणैः काव्यव्यवहारः, उत कतिपयैः। यदि समस्तैः, तत्कथमसमस्तगुणा गौडड्डत्ध्;ी पाञ्चाली च रीतिः काव्यस्यात्मा। अत कतिपयैः, ततः अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः ।। 345 ।। इत्यादावोजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः। स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी। अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ।। 346 ।। इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ।। इदानीं गुणानां भेदमाह (सूदृ 89) माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश। एषां क्रमेण लक्षणमाह (सूदृ 90) आढद्धठ्ठड़14;लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ।।68।। शृङ्गारे अर्थात् संभोगे। द्रुतिर्गलितत्वमिव। श्रव्यत्वं पुनरोजःप्रसादयोरपि।। (सूदृ 91) करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्। अत्यन्तद्रुतिहेतुत्वात्।। (सूदृ 92) दीप्त्यात्मविस्तृतेर्हेतुरोज वीररसस्थिति ।।69।। चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः।। (सूदृ 93) बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च। वीराद्बीभत्से ततो रौद्रे सातिशयमोजः।। (सूदृ 94) शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ।।70।। (सूदृ 95) व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः। अन्यदिति। व्याप्यमिह चित्तम्। सर्वत्रेति। सर्वेषु रसेषु सर्वासु रचनासु च।। गुणवृच्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ।।71।। गुणवृच्या, उपचारेण। तेषां गुणानाम्। आकारे शौर्यस्येव।। कुतस्त्रय एव न दश इत्याह (सूदृ 96) केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः। अन्ये भजन्ति दोषत्वं कुत्रचित् न ततो दश ।।72।। बहूनामपि पदानामेकपदवद्भासनात्मा यः श्लेषः, यश्वारोहावरोहक्रमरूपः समाधिः, या च विकटत्वलक्षणा, उदारता यश्वौजोमिश्रितशैथिल्यात्मा प्रसादः, तेषामोजस्यन्तर्भावः। पृथक्पदत्वरूपं माधुर्यं भङ्ग्या साक्षादुपात्तम्। प्रसादेनार्थव्यक्तिर्गृहीता। मार्गाभेदरूपा समताव्कचिद्दोषः। तथाहि "मातङ्गाः किमु वल्गितैः" इत्यादौ सिंहाभिधाने मसृणमार्गत्यागौ गुणः। कष्टत्वग्राम्यत्वयोर्दुष्टताभिधानात्तन्निराकरणेनापारुष्यरूपं सौकुमार्यम् औज्ज्वल्यरूपा कान्तिश्व स्वीकृता। एवं न दश शब्दगुणाः।। "पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा। प्रौढिव्र्याससमासौ च साभिप्रायत्वमस्य च।।" इति या प्रौढिः ओज इत्युक्तं तत् वैचित्र्यमात्रम् न गुणः। तदभावेऽपि काव्यव्यवहारप्रवृत्तेः। अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च साभिप्रायत्वरूपमोजः, अर्थवैमल्यात्मा प्रसादः, उक्तिवैचित्र्यरूपं माधुर्यम् अपारुष्यरुपं सौक#ुमार्यम् अग्राम्यत्वरुपा, उदारता च स्वीकृतानि। अभिधास्यमानस्वभावोक्त्यलंकारेण रसध्वनिगुणीभूतव्यढद्धठ्ठड़14;ग्याभ्यां च वस्तुस्वभावस्फुटत्वरूपा, अर्थव्यक्तिः, दीप्तरसत्वरुपा कान्तिश्व स्वीकृता। क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषोऽपि विचित्रत्वमात्रम्। अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गुणः। कः खल्वनुन्मत्तोऽन्यस्य प्रस्यावेऽन्यदभिदध्यात्। अर्थस्यायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यम् इत्यर्थदृष्टिरूपः समाधिरपि न गुणः।। (सुदृ 97) तेन नार्थगुणा वाच्याः वाच्याः वक्तव्याः।। (सूदृ 98) प्रोक्ताः शब्दगुणाश्व ये। वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ।।73।। के कस्य इत्याह (सूदृ 99) मूÐध्न वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू। अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ।।74।। टठडड्डत्ध्;ढवर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययुक्ताः, तथा रेफणकारौ ह्रस्वान्तरिताविति वर्णाः समासाभावो मध्यमः समासो वेति समासः, तथा माधुर्यवती पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका। उदाहरणम् अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः। कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ।। 347 ।। (सूदृ 100) योग आद्यतृतीयाब्यामन्त्ययो रेण तुल्ययोः। टादिः शषौ वृत्तिदैध्र्यं गुम्फ उद्धत ओजसि ।।75।। वर्गप्रथमतृतीयाभ्यामन्त्ययोः, द्वितीयचतुर्थयोः, रेफेण, अध उपरि, उभयत्र वा यस्य कस्यचित् तुल्ययोः, तेन तस्यैव संबन्धः टवर्गोऽर्थात् णकारवर्जः शकारषकारौ दीर्घसमासः, विकटा संघटना, ओजसः। उदाहरणम्--मूध्र्नामुद्वृत्तकृत्तेत्यादि ।। 348 ।। (सूदृ 101) श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत्। साधारणः समग्राणां स प्रसादो गुणो मतः ।।76।। समग्राणां रसानां संघटनानां च। उदाहरणम् परिम्लानं पीनस्तनजघनसंगादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्। इदं व्यस्तन्यासं श्र्लथभुजलताक्षेपवलनैः कृशाढद्धठ्ठड़14;ग्याः संतापं वदति बिसिनीपत्रशयनम् ।। 349 ।। यद्यपि गुणपरतन्त्राः संघटनादयस्तथापि (सूदृ 102) वक्तृवाच्यप्रबन्धानामौचित्येन व्कचित्व्कचित्। रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ।।77।। क्कचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः। यथा मन्तायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डड्डत्ध्;ः। कृष्णाक्रोधाग्रडूड्डत्ध्;तः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मÏत्सहनादप्रतिरसितसखो दुन्दुभिस्ताडिड्डत्ध्;तोऽसौ ।। 350 ।। अत्र हि न वाच्यं क्रोधादिब्यञ्जकम्। अभिनेयार्थं च काव्यमिति तत्प्रतिकूला उद्धता रचनादयः। वक्ता चात्र भीमसेनः।। व्कचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव रजनादयः। यथा प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात- त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम्। कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भांकारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाढद्धठ्ठड़14;गम् ।। 351 ।। क्कचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव ते। तथाहि--आख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः कथायां रौद्रेऽपि नात्यन्तमुद्धताः, नाटकादौ रौद्रेऽपि न दीर्घसमासादयः। एवमन्यदप्यौचित्यमनुसर्तव्यम्।। इति काव्यप्रकाशे गुणालंकारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः ।।8।।