मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ३३
← सर्गः ३२ | मोक्षोपायटीका/स्थितिप्रकरणम् भास्करकण्ठः |
सर्गः ३४ → |
मोक्षोपायटीका/स्थितिप्रकरणम् |
---|
<poem>
पुनरपि पूर्वोक्तमेवार्थं कथयति
सर्वातिशयसाफल्यात्सर्वं सर्वत्र सर्वदा ।
सम्भवत्येव तस्मात्स्वं शुभोद्योगं न सन्त्यजेत् ॥ ४,३३.१ ॥
सर्वेषामतिशयानां यत्साफल्यं सफलता । ततो हेतोः । सर्वत्र सर्वेषु देशेषु । सर्वदा सर्वेषु कालेषु । सर्वं सम्भवत्येव । यतः अतिशयप्रयुक्तानां सर्वेषां यत्नानां साफल्यमस्ति । अतः सर्वत्र सर्वदा सर्वं सम्भवत्येवेति यावत् । फलितं कथयति तस्मादिति । तस्मात्ततो हेतोः । पुरुषः स्वं शुभोद्योगं न सन्त्यजेत् ॥ ४,३३.१ ॥
विशेषेण उद्योगस्य साफल्यं कथयति
मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना ।
सरसीश्वरमाराध्य मृत्युरप्युपनिर्जितः ॥ ४,३३.२ ॥
नन्दिना नन्दिरुद्रेण ॥ ४,३३.२ ॥
सर्वोत्कर्षेण वर्तन्ते देवा अपि विमर्दिताः ।
दानवैर्दानवार्याढ्यैर्गजैः पद्माकरा इव ॥ ४,३३.३ ॥
गजैः कथम्भूतैः । दानवारिणा मदजलेनाढ्यैः युक्तैः ॥ ४,३३.३ ॥
मरुत्तनृपतेर्यज्ञे संवर्तेन महर्षिणा ।
ब्रह्मणेवापरः सर्गो रचितः ससुरासुरः ॥ ४,३३.४ ॥
स्पष्टम् ॥ ४,३३.४ ॥
महातिशययुक्तेन विश्वामित्रेण विप्रता ।
भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥ ४,३३.५ ॥
स्पष्टम् ॥ ४,३३.५ ॥
पिष्टातकाम्बु दुष्प्रापं रसायनमिवाश्नता ।
दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना ॥ ४,३३.६ ॥
पिष्टातकाम्बु । पिष्टमिश्रितं जलम् । ईदृशेन दुर्भगेन एतादृशेन दरिद्रेण । आप्तः । ईश्वराराधनयेति शेषः ॥ ४,३३.६ ॥
त्रैलोक्यमल्लांस्तृणवन्निघ्नन् विष्ण्वब्जजादिकान् ।
युक्त्यातिशयदार्ढ्येन कालः श्वेतेन कालितः ॥ ४,३३.७ ॥
युक्त्या ईश्वराराधनरूपेणोपायेन । श्वेतेन राजविशेषेण । कथम्भूतेन । अतिशये यत्नातिशये । दार्ढ्यं दृढता यस्य । तादृशेन ॥ ४,३३.७ ॥
प्रणयेन यमं जित्वा कृत्वा वचनसङ्गरम् ।
परलोकादुपानीतः सावित्र्या सत्यवान् पतिः ॥ ४,३३.८ ॥
प्रणयेन स्नेहेन । उपानीत इत्यनेन सम्बन्धः । वचनसङ्गरं वचनसङ्ग्रामम् ॥ ४,३३.८ ॥
विशेषेणोक्त्वा सामान्येन कथयति
न सोऽस्त्यतिशयो लोके यस्यास्ति न फलं स्फुटम् ।
भवितव्यं विचार्यातः सर्वातिशयशालिना ॥ ४,३३.९ ॥
अतिशयः यत्नातिशयः । फलितं कथयति भवितव्यमिति । अतः सर्वेभ्यः यः अतिशयः उद्योगाख्यः । तेन शालतीति तादृशेन पुरुषेण । विचार्य भवितव्यम् । अशुभफलसम्पादकत्वादशुभो यत्नः न कार्य इति भावः ॥ ४,३३.९ ॥
ननु को यत्नः शुभोऽस्ति । यत्नातिशयवान् भवामीत्यपेक्षायामाह
आत्मज्ञानमशेषाणां सुखदुःखदशादृशाम् ।
मूलं कषकरं तस्माद्भाव्यं तत्रातिशायिना ॥ ४,३३.१० ॥
आत्मज्ञानं कोऽहमित्येवमात्मविचारः । अशेषाणां समस्तानाम् । सुखदुःखदशादृशाम् । मूलं कषकरं मूलतः नाशकरम् । भवति । आत्मविचारेण हि चिदात्मनि आत्मत्वेन प्राप्ते शरीरानास्थायां च जातायां शरीरानुबद्धसुखदुःखादिस्पर्शो न भवति । तस्मात्ततो हेतोः । पुरुषेण । तत्र आत्मज्ञाने । अतिशयिना अतिशययुक्तेन । भाव्यम् ॥ ४,३३.१० ॥
ननु दृश्यकृतं सुखं त्यक्त्वा किमर्थमत्यन्तभोगत्यागसाध्ये आत्मज्ञाने पुरुषो लगतीत्य् । अत्राह
नानयोपहतार्थिन्या दृश्यदृष्ट्यातिदुष्टया ।
दुःखादृते निराबाधं सुखं किञ्चिदवाप्यते ॥ ४,३३.११ ॥
उपहतः नष्टः । अर्थः पुरुषार्थः । अस्यामस्तीति तादृश्या । अत एवातिदुष्टया दृश्यरूपया दृष्ट्या दृश्यदृष्ट्या । दृश्येनेति यावत् । दुःखादृते दुःखामिश्रम् । अत एव निराबाधं बाधरहितम् । किञ्चित्सुखं न अवाप्यते । यदि किञ्चित्प्राप्यतेऽपि दुःखमिश्रमेवेत्यर्थः ॥ ४,३३.११ ॥
ननु सर्वस्य ब्रह्ममयत्वात्दृश्यदृष्टिरूपस्याशमस्य तन्नाशरूपस्य शमस्य च को भेदः येनैवं कथयसीत्य् । अत्राह
अशमः परमं ब्रह्म शमश्च परमं पदम् ।
यद्यप्येवं तथाप्येनं प्रशमं विद्धि शङ्करम् ॥ ४,३३.१२ ॥
यद्यप्येवं भवति । एवं कथम् । अशमः दृश्यक्षोभः । परमं ब्रह्म भवति । शमश्च दृश्यनाशश्च । परमं पदं भवति । तत्सारत्वात् । तथापि त्वमेनं प्रशमं दृश्यनाशम् । शङ्करं कल्याणकारिणम् । विद्धि । शमाशमरूपब्रह्मप्राप्तिं प्रत्युपायत्वात् । नन्वशमस्य ब्रह्मत्वं न सिध्यति । सत्यम् । ब्रह्मत्वं त्वया किं ज्ञातम् । सुखकारित्वमिति चेन् । न । सुखदुःखकारित्वव्यतिरिक्तस्य ब्रह्मत्वयोगात् । अतः सुखकारिवत्दुःखकारिणोऽपि स्वरूपमात्रप्राधान्येन ब्रह्मत्वानपायान्न त्वच्चोद्यावकाशः । ननु तर्हि आनन्दैकरूपत्वं कथं ब्रह्मणः कथयन्तीति चेत् । तत्रत्य आनन्दः न त्वदनुभूत[ ]त्तिरूपानन्दरूपो भवति । किं तु अपेक्षाराहित्यमात्ररूप एवासौ । सर्वं ब्रह्मेति ज्ञानेन हि सर्वत्र हेयोपादेयताव्यतिरिक्ता महानन्दरूपा तृप्त्यपरपर्याया उपेक्षा जायते । सा च सर्वत्र सम्भवतीति अलं चोद्येन ॥ ४,३३.१२ ॥
कर्तव्यमुपदिशति
अभिमानं परित्यज्य शममाश्रित्य शाश्वतम् ।
विचार्य प्रज्ञयार्यत्वं कुर्यात्सज्जनसेवनम् ॥ ४,३३.१३ ॥
अभिमानं मयेदृशः शमः कृत इत्येवंरूपं दर्पम् । शमं दृश्यक्षोभराहित्यम् । आर्यत्वं साधुत्वम् । विचार्य केनेदं सिध्यतीति विचारविषयं कृत्वा ॥ ४,३३.१३ ॥
ननु आर्यत्वसाधनं प्रसिद्धं तपस्तीर्थादिकं त्यक्त्वा किमित्यप्रसिद्धं सज्जनसेवनं कर्तव्यत्वेनोपदिशसीत्य् । अत्राह
न तपांसि न तीर्थानि न शास्त्राणि जयन्ति वः ।
संसारसागरोत्तारे सज्जनासेवनं यथा ॥ ४,३३.१४ ॥
संसारसागरात्यः आर्यत्वकरणद्वारेण उत्तारः । तस्मिन्न जयन्ति न प्रभवन्ति ॥ ४,३३.१४ ॥
ननु किंलक्षणोऽसौ सज्जनः यस्य सेवनं कर्तव्यत्वेनोपदिशसीत्य् । अत्राह
लोभमोहरुषां यस्य तनुतानुदिनं भवेत् ।
यथाशास्त्रं विहरतः स्वकर्मसु स सज्जनः ॥ ४,३३.१५ ॥
यथाशास्त्रं स्वकर्मसु शरीरयात्रानिमित्तेषु निजेषु कर्मसु । विहरतः क्रीडया यत्नं कुर्वतः । यस्य पुरुषस्य । अनुदिनं लोभमोहरुषां तनुता भवेत् । सः सज्जनः भवति ॥ ४,३३.१५ ॥
ननु मूर्खश्रोत्रिया अपि लोभादितानवयुक्ता दृश्यन्ते । तेषां सङ्गेनापि किञ्चित्सेत्स्यत्यथ वा नेत्य् । अत्राह
अध्यात्मविदुषः सङ्गात्तस्य सा धीः प्रवर्तते ।
अत्यन्ताभाव एवास्य यया दृश्यस्य दृश्यते ॥ ४,३३.१६ ॥
अध्यात्मविदुषः अध्यात्मशास्त्रज्ञस्य । तस्य लोभादितानववतः सज्जनस्य । सङ्गात् । पुरुषस्य सा धीः प्रवर्तते । सा का । यया धिया कारणभूतया । पुरुषेण । अस्य पुरःस्फुरतः । दृश्यस्यात्यन्ताभावः त्रैकालिकः अभावः । दृश्यते । अत इन्द्रियासामर्थ्यादिना लोभादितानववतोऽपि मूर्खस्य सङ्गान्न किञ्चिदपि सेत्स्यतीति भावः ॥ ४,३३.१६ ॥
ननु दृश्यात्यन्ताभावदर्शनेन किं सेत्स्यतीत्य् । अत्राह
दृश्यात्यन्ताभावतस्तु परमेवावशिष्यते ।
अन्याभाववशादाशु जीवस्तत्रैव लीयते ॥ ४,३३.१७ ॥
तु निश्चये । दृश्यात्यन्ताभावतः लक्षणया दृश्यात्यन्ताभावदर्शनाद्धेतोः । परं दृश्याधिष्ठानत्वान्मुक्तमुत्तीर्णं चिन्मात्राख्यं वस्तु । एव । अवशिष्यते अवशेषत्वेन दृश्यते । ननु ततोऽपि किं स्यादित्य् । अत्राहान्याभावेति । ततः अन्यस्य परवस्तुव्यतिरिक्तस्य । अभावात् । जीवः द्रष्टृत्वेन स्थितः जीवः । तत्रैव परस्मिन् वस्तुन्येव । लीयते । सोऽपि तद्रूपत्वेन दृश्यते इति यावत् । जीवन्मुक्ताभिप्रायेणैवमर्थः कृतः । विदेहमुक्ताभिप्रायेण तु दृश्यात्यन्ताभावः जीवलयः च[ ]शेनोपाधिमुक्त एव ज्ञेयः ॥ ४,३३.१७ ॥
अत्यन्ताभावस्वरूपं कथयति
न चोत्पन्नं न चैवासीद्दृश्यं न च भविष्यति ।
वर्तमानेऽपि नैवास्ति परमेवास्त्यवेदितम् ॥ ४,३३.१८ ॥
वर्तमाने वर्तमानकाले । ननु यदि दृश्यं नासीत्नास्ति न भविष्यति तर्हि किमस्ति । न हि अभावस्य एतादृक्प्रपञ्चाधिष्ठानत्वं युक्तमित्य् । अत्राह परमेवेति । परं साक्षित्वेन स्थितत्वात्सर्वोत्तीर्णं चिन्मात्रम् । एव । अस्ति । स्वप्ने तस्यैव प्रपञ्चाधिष्ठानत्वेन दृष्टत्वात् । तत्कथम्भूतम् । अवेदितं वेद्यरहितम् । अवेदितमिति कर्मणि क्तः ॥ ४,३३.१८ ॥
ननु कथमेतदस्तीत्य् । अत्राह
एतद्युक्तिसहस्रेण दर्शितं दर्श्यतेऽपि च ।
सर्वैरेवानुभूतं हि दर्शयिष्यामि चाधुना ॥ ४,३३.१९ ॥
एतत्दृश्यं नासीत्नास्ति न भविष्यतीत्येतत् । ननु कथमप्रसिद्धमेतत्दर्शितं दर्श्यते दर्शयिष्यसि चेत्य् । अत्राह सर्वैरिति । हि यस्मात् । एतत्सर्वैरनुभूतं वर्तमाने क्तः । अनुभूयते इत्यर्थः । सुषुप्ताविति शेषः । सुषुप्तौ हि सर्वे दृश्यात्यन्ताभावमनुभवन्ति ॥ ४,३३.१९ ॥
अभ्यासार्थं पुनः एतदेव कथयति
यथेदमखिलं शान्तं त्रिजगत्संविदम्बरम् ।
इदं तत्त्वं त्वसत्त्वादि कुतोऽत्र स्यात्कथञ्चन ॥ ४,३३.२० ॥
इदमनुभूयमानम् । अखिलं त्रिजगत् । शान्तं संवेद्याख्यक्षोभरहितम् । संविदम्बरं चिदाकाशं भवतीति यथा इति यत्भवति । इदं तत् । तत्त्वं परमार्थः भवति । तु व्यतिरेके । अत्र संविदाकाशरूपे जगति । असत्त्वादि । असत्त्वमचिन्मयत्वं चेत्येवमादि । कथञ्चन कुतः स्यात्कथञ्चनापि न स्यादित्यर्थः । दृष्टं च स्वप्नजगतः संविदाकाशात्मकत्वमिति न विरोधः ॥ ४,३३.२० ॥
ननु तर्हि जगदिति शब्दप्रत्ययौ कथं रूढिं गतावित्य् । अत्राह
चिच्चमत्कुरुते चारु चञ्चलाचञ्चलात्मनि ।
यत्तयैव तदेवेदं जगदित्यवबुध्यते ॥ ४,३३.२१ ॥
चञ्चला बाह्योन्मुखत्वे स्पन्दानुविद्धा । चित् । अचञ्चलात्मनि परमार्थतः तथास्थितत्वातचञ्चले स्वस्वरूपे । चारु सम्यक् । यत्चमत्कुरुते स्वरूपामर्शरूपमास्वादं करोति । तया एव न त्वन्येन । तदेव चमत्करणमेव । जगदिति अवबुध्यते ज्ञायते । न जगन्नाम किञ्चिदपरं वस्तु अस्ति । चिदाश्रयविषयस्य स्वात्मपरामर्शस्यैव जगत्त्वादिति भावः ॥ ४,३३.२१ ॥
ननु तथापि कथं भेद इव दृश्यत इत्य् । अत्राह
त्रैलोक्यरूपोऽनुभवश्चिदादित्यांशुमण्डलम् ।
क्व वेन्द्वंशुमतोर्भेदो निर्विकत्थन कथ्यताम् ॥ ४,३३.२२ ॥
त्रैलोक्यरूपः त्रैलोक्याकारः । अनुभवः । त्रैलोक्यमिति यावत् । चिदेवादित्यः । तस्यांशुमण्डलम् । भवति । हे निर्विकत्थन हे अमृषावादिन् । त्वया कथ्यताम् । किमित्यपेक्षायामाह । क्वेति । इन्द्वंशुमतोः जलमण्डलप्रतिबिम्बितसूर्यांशुमण्डलरूपस्य इन्दोः सूर्यस्य च । भेदः क्व भवति । कस्मिन् काले देशे वा भवति । यथा जलप्रतिबिम्बितसूर्यांशुमण्डलरूपस्य चन्द्रस्य सूर्यस्य च भासमानोऽपि भेदः परमार्थतः नास्ति । तथा बाह्यान्तःकरणप्रतिबिम्बितचिदादित्यांशुमण्डलरूपस्य जगतः चिदादित्यस्य च भासमानोऽपि भेदः नास्त्येवेत्यर्थः ॥ ४,३३.२२ ॥
सर्वथा भेदाभावं कथयति
स्वभावतोऽस्याश्चिद्दृष्टेर्ये उन्मेषनिमेषणे ।
जगद्रूपानुभूतेस्तावेतावस्तमयोदयौ ॥ ४,३३.२३ ॥
स्वभावतः यत्नरहितम् । अस्याः आत्मत्वेन पुरःस्थायाः । चिद्दृष्टेः चिदाख्यायाः दृष्टेः । ये उन्मेषणनिमेषणे स्वव्यतिरिक्तपरामर्शरूपमुन्मेषणं स्वमात्रपरामर्शरूपं निमेषणं च भवतः । तौ एव उन्मेषनिमेषौ एव । जगद्रूपा या अनुभूतिः । जगदिति यावत् । तस्याः अस्तमयोदयौ भवतः । निमेषणमस्तमयः । उन्मेषणमुदयः । अथ वा उन्मेषणं स्वरूपप्रसारः । निमेषणं स्वरूपसङ्कोचः । इति कृत्वा उन्मेषणमस्तमयः । निमेषणमुदय इति योज्यम् । तथा च भेदगन्धोऽपि नास्ति । न हि उन्मेषनिमेषवतः उन्मेषनिमेषौ भिन्नौ इति भावः । एतच्च स्वप्ने सुषुप्तौ च सर्वप्रतीतिसाक्षिकमेवेति नात्रायस्तम् ॥ ४,३३.२३ ॥
कारणत्वेन समस्तजगत्प्रधानभूताहङ्कारवर्णनं प्रस्तौति
अहमर्थोऽपरिज्ञातः परमार्थाम्बरे मलः ।
परिज्ञातोऽहमर्थस्तु परमार्थाम्बरं भवेत् ॥ ४,३३.२४ ॥
अहमर्थः अहमिति शब्दाभिधेयं वस्तु । अपरिज्ञातः परमार्थतः किंरूपोऽयमित्यज्ञातः सन् । परमार्थाम्बरे चिन्मात्राकाशे । मलः भवति । देहरूपतयावस्थानेन तदाच्छादकत्वात् । आच्छादकत्वमेव हि मलस्य स्वरूपम् । तु व्यतिरेके । परिज्ञातः परमार्थतः एवंरूपोऽसाविति ज्ञातः सन् । परमार्थाम्बरं चिन्मात्राकाश एव भवति । तद्रूपतायामेव विश्रामात् ॥ ४,३३.२४ ॥
अभ्यासार्थं पुनः पुनः एतदेव कथयति
अहम्भावः परिज्ञातो नाहम्भावे भवत्यलम् ।
एकतामम्बुनेवाम्बु याति चिन्नभसात्मना ॥ ४,३३.२५ ॥
परिज्ञातः परमार्थतः किंनिष्ठोऽयमिति ज्ञातः । अहम्भावः अहङ्कारः । अहम्भावे निमित्तसप्तमी । स्थूलाहम्भावनिमित्तं न भवति । कुत एतदित्य् । अत्राहैकतामिति । यतः सः अहम्भावः चिन्नभसा चिदाकाशरूपेण । आत्मना एकतां याति । किमिव । अम्बु इव । यथाम्बु अम्बुना एकतां याति । तथेत्यर्थः । परमार्थतः किंनिष्ठोऽयमिति अहङ्कारपरमार्थस्वरूपे ज्ञाते सति अहङ्कारः परमात्मनिष्ठो भवति । ततः शरीरनिष्ठतारूपां परिमिततां नायातीति भावः ॥ ४,३३.२५ ॥
ननु कथं परिज्ञातः अहम्भावः चिदात्मना एकत्वं याति इत्य् । अत्राह
अहमादिजगद्दृश्यं किल नास्त्येव वस्तुतः ।
अवश्यमेव तत्कस्माच्छिष्यतेऽहंविचारिणः ॥ ४,३३.२६ ॥
किल निश्चये । अहमादि