मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २८

विकिस्रोतः तः
← सर्गः २७ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः २९ →
मोक्षोपायटीका/स्थितिप्रकरणम्



ब्रह्मणः अन्तर्धानं कथयति

इत्युक्त्वा भगवान् देवस्तत्रैवान्तर्धिमाययौ ।

वेलावनतटे शब्दं कृत्वेवाम्बुतरङ्गकः ॥ ४,२८.१ ॥

तत्रैव तस्मिन् स्थान एव । न त्वन्यत्र गत्वा । अन्तर्धिं व्यवधानम् ॥ ४,२८.१ ॥

 

 

 

सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुः स्वामभितो दिशम् ।

कमलामोदमादाय वनमालामिवानिलाः ॥ ४,२८.२ ॥

स्पष्टम् ॥ ४,२८.२ ॥

 

 

 

दिनानि कतिचित्स्वेषु कान्तेषु स्थिरकान्तिषु ।

द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः ॥ ४,२८.३ ॥

स्पष्टम् ॥ ४,२८.३ ॥

 

 

 

कञ्चित्कालं समासाद्य स्वात्मोदयकरं शुभम् ।

चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम् ॥ ४,२८.४ ॥

स्पष्टम् ॥ ४,२८.४ ॥

 

 

 

अथ दैत्यैः सह व्योम्नि तैः पातालतलोत्थितैः ।

कालक्षेपकरं घोरं पुनर्युद्धमवर्तत ॥ ४,२८.५ ॥

कालक्षेपकरं न तु शम्बरवधकारि । तन्मरणस्य वर्षसहस्रान्ते ब्रह्मणा प्रोक्तत्वातित्यर्थः । देवानामिति शेषः । समवर्तत समभवत् ॥ ४,२८.५ ॥

 

 

 

ववुरसिशरशक्तिमुद्गरौघा

मुसुलगदापरशूग्रचक्रसङ्घाः ।

अशनिगिरिशिलाहुताशवृक्षा

अहिगरुडादिमुखानि चायुधानि ॥ ४,२८.६ ॥

कीदृशं युद्धं समवर्ततेत्यपेक्षायामाह ववुरिति । ववुः वान्ति स्म । देवदैत्यविसृष्टा इति शेषः ॥ ४,२८.६ ॥

 

 

 

मायाकृतायुधमहाम्बुघनप्रवाहा

क्षिप्रं प्रति प्रतिदिशं परिनिर्जगाम ।

पाषाणपर्वतमहीतटवृक्षलक्ष

क्षुब्धाम्बुपूरघनघोषवती नदी द्राक् ॥ ४,२८.७ ॥

मायाकृतः राक्षसैः मायया सम्पादितः । आयुधमहाम्बुनः आयुधयुक्तस्य महाजलस्य । घनः प्रवाहः यस्याः । सा । तथा पाषाणपर्वतं क्षिप्रं प्रति क्षिप्रं क्षिप्रम् । महीतटवृक्षाणां लक्षेषु क्षुब्धः सञ्चरणशीलः । यः अम्बुपूरः आयुधयुक्तः अम्बुपूरः । तेन घनः घोषः विद्यते यस्याः । सा । तादृशी नदी आयुधमयी नदी । द्राक्शीघ्रम् । प्रतिदिशं निर्जगाम निर्गता ॥ ४,२८.७ ॥

 

 

 

केन प्रतिदिशं निर्जगामेति करणापेक्षायां सविशेषणमाह

मध्यप्रवाहवहदुल्मुकशूलशैल

प्रासासिकुन्तशरतोमरमुद्गरेण ।

गङ्गोपमाम्बुवलितामरमन्दिरेण

सर्वासु दिक्ष्वशनिवर्षणकर्षणेन ॥ ४,२८.८ ॥

अशनियुक्तं वर्षणमशनिवर्षणम् । तेन यत्कर्षणं दिशः प्रति नयनम् । तेन कृत्वा निर्जगामेति पूर्वेण सम्बन्धः । वर्षेण हि नद्यः दिशः व्याप्नुवन्ति । अशनिवर्षणकर्षणेन कथम्भूतेन । मध्ये प्रवाहेण वहन्ति उल्मुकशूलशैलप्रासासिकुन्तशरतोमरमुद्गराणि यत्र । तत् । तादृशेन । पुनः कथम्भूतेन । सर्वासु दिक्षु गङ्गोपमं यतम्बु । तेन वलितानि अमरमन्दिराणि येन । तत् । तादृशेन ॥ ४,२८.८ ॥

 

 

 

पृथ्व्यादिदारुणशरीरमयी प्रहार

दानग्रहे गगनरश्मिशरीरिकैव ।

या योपशाम्यति सुरासुरसिद्धसेना

मायाकृता पुनरुदेति रसेन सैव ॥ ४,२८.९ ॥

या या । प्रहाराणां दानग्रहे पृथ्व्यादिवत्दारुणं यत्शरीरम् । तन्मयी अपि । प्रहाराणां दाने ग्रहणे च समर्थापीति यावत् । परमार्थतः मायारूपत्वात्गगनस्य या रश्मिः । शून्यमिति यावत् । तद्रूपं शरीरं यस्याः । सा । तादृशी एव सती । उपशाम्यति म्रियते । सा सुरासुरसिद्धसेना पुनः उदेति एव । कथम्भूता । रसेन इच्छया । मायाकृता मायया कृतेति तादृशी । अर्थातिन्द्रशम्बराभ्याम् ॥ ४,२८.९ ॥

 

 

 

शैलोपमायुधविघट्टितभूधराणि

रक्ताम्बुपूरपरिपूर्णमहार्णवानि ।

देवासुरेन्द्रसुरशैलविरूढकुन्त

तालीवनानि ककुभां वदनान्यथासन् ॥ ४,२८.१० ॥

देवासुरेन्द्रा एव सुरशैलाः सुमेरवः । तेषु रूढानि । कुन्ता एव तालीवनानि । येषाम् । तानि ॥ ४,२८.१० ॥

 

 

 

उद्गीर्णकुन्तशरशक्तिगदासिचक्रा

हेलानिगीर्णसुरदानवमुक्तशैला ।

काषक्वणत्क्रकचदन्तनखोग्रमाला

जीवान्वितापतदथायससिंहवृष्टिः ॥ ४,२८.११ ॥

अथ आयससिंहवृष्टिः अयोमयानां सिंहानां वर्षणम् । अपतत् । कथम्भूता । उद्गीर्णं सहपतितम् । कुन्तशरशक्तिगदासिचक्रं यस्याः । सा । पुनः कथम्भूता । हेलया निगीर्णाः ग्रस्ताः । सुरदानवैः मुक्ताः प्रहरणभूताः । शैलाः यया । सा । काषे काषपाषाणे । क्वणन् घर्षणवशेन शब्दायमानः । यः क्रकचः । तद्वत्ये दन्तनखाः । तेषामुग्रा माला यस्याः । सा । तथा जीवान्विता जीवयुक्ता ॥ ४,२८.११ ॥

 

 

 

उज्ज्वाललोचनविषज्वलनातपोद्यद्

दिग्दाहदर्शितयुगान्तदिनेशसेना ।

उड्डीयमानपरिदीर्घमहीमहीध्रा

मत्ताब्धिवद्विषधरावलिरुल्ललास ॥ ४,२८.१२ ॥

विषधराणां सर्पाणाम् । आवलिः पङ्क्तिः । मत्ताब्धिवत्मत्तसमुद्रवत् । उल्ललास उल्लसति स्म । कथम्भूता । उज्ज्वालः उद्गतज्वालः । यः लोचनविषज्वलनः । तस्य यः आतपः । तेनोद्यन् । यः दिग्दाहः । तेन दर्शिता युगान्तदिनेशानां कल्पान्तसूर्याणाम् । सेना पङ्क्तिः । यया । सा । उड्डीयमानाः उड्डयनशीलाः । परिदीर्घाः । मह्याः सम्बन्धिनः महीध्राः पर्वताः । यस्याः । सा ॥ ४,२८.१२ ॥

 

 

 

उन्नादवज्रमकरोत्करकर्करान्तर्

इक्षाब्धिवीचिवलयैर्वलिताचलेन्द्रैः ।

आसीज्जगत्सकलमेव सुसङ्कटाङ्गम्

आवर्तिभिर्विविधहेतिनदीप्रवाहैः ॥ ४,२८.१३ ॥

उन्नादानि यानि वज्राणि । तान्येव मकराः । तेषां य उत्करः । तेन कर्करः कर्कराख्यः शब्दविशेषः यस्य । तत् । तादृशं यतन्तरिक्षम् । तदेवाब्धिः समुद्रः । तस्य वीचिवलयैः वीचिमण्डलरूपैः । तथा वलिताः आवृताः । अचलेन्द्राः यैः । ते । तादृशैः । तथा आवर्तिभिः भ्रमयुक्तैः । विविधहेतयः एव नदीप्रवाहाः । तैः । सुसङ्कटाङ्गमत्यन्तपूर्णस्वरूपम् । सकलमेव जगतासीत् ॥ ४,२८.१३ ॥

 

 

 

शैलास्त्रशस्त्रगरुडाचलमालितोच्च

नागाङ्गनासुरगणाङ्गनमन्तरिक्षम् ।

आसीत्क्षणं जलधिभिः क्षणमग्निपूरैः

पूर्णं क्षणं दिनकरैः क्षणमन्धकारैः ॥ ४,२८.१४ ॥

क्षणं क्षणमित्यनेन जलध्यादीनां मायाकृतत्वमुक्तम् । अन्तरिक्षं कथम्भूतम् । शैलरूपाणि अस्त्रशस्त्राणि शैलास्त्रशस्त्राणि । तेषां मध्ये ये गरुडाचलाः माणिक्यपर्वताः । तैः मालिताः धृताः । उच्चा नागाङ्गनाश्चासुरगणाङ्गनाश्च येन । तत् । सुराङ्गनानां तु साक्षादेवाकाशे स्थितिरिति तासामकथनम् । गरुडेति गकारस्य दीर्घाभावः आर्षः । मन्त्रोद्भावितास्तु शैलाः अस्त्ररूपाः साक्षात्प्रहिताः शस्त्ररूपाः ॥ ४,२८.१४ ॥

 

 

 

गरुडगुडगुडाकुलान्तरिक्ष

प्रविसृतहेतिहुताशपर्वतौघैः ।

जगदभवदसह्यकल्पकाल

ज्वलितसुरालयभूतलान्तरालम् ॥ ४,२८.१५ ॥

गरुडानां यः गुडगुडः गुडगुडाशब्दः । तेनाकुलं यदन्तरिक्षम् । तत्र प्रविसृताः ये हेतिहुताशपर्वतौघाः । तैः कृत्वा । जगत् । असह्यः यः कल्पकालः प्रलयकालः । तत्रैव ज्वलितानि सुरालयभूतलान्तराणि यस्य । तत् । तादृशमभवत् ॥ ४,२८.१५ ॥

 

 

 

उदपतन् वसुधातलतोऽसुरा

गगनमद्रितटादिव पक्षिणः ।

अतिबलादपतन् विबुधा भुवि

प्रलयचालितशैलशिला इव ॥ ४,२८.१६ ॥

अतिबलादित्यस्य पूर्वार्धेन सम्बन्धः ॥ ४,२८.१६ ॥

 

 

 

शरीररूढोन्नतहेतिवृक्ष

वनावलीलग्नमहाग्निदाहाः ।

सुरासुराः प्रापुरथाम्बरान्तः

कल्पानिलान्दोलितशैलशोभाम् ॥ ४,२८.१७ ॥

अथ सुरासुराः अम्बरान्तः आकाशमध्ये । कल्पानिलेनान्दोलिताः ये शैलाः । तेषां शोभां प्रापुः । कथम्भूताः । शरीररूढाः याः उन्नतहेतयः । ता एव वृक्षवनावली । तस्यां लग्नाः । महाग्नेः तत्सङ्घट्टोत्थस्य महतः अग्नेः । दाहः येषाम् । ते । तादृशाः ॥ ४,२८.१७ ॥

 

 

 

सुरासुराद्रीन्द्रशरीरमुक्तै

रक्तप्रवाहैरभितो भ्रमद्भिः ।

बभार पूर्णं परितोऽम्बराब्धिः

सन्ध्यारुणोद्यच्छतगङ्गमङ्गम् ॥ ४,२८.१८ ॥

सुरासुरा एवाद्रीन्द्राः । तेषां यानि शरीराणि । तेभ्यः मुक्तैः । अत एवाभितः भ्रमद्भिः रक्तप्रवाहैः कृत्वा । अम्बराब्धिः आकाशाख्यः समुद्रः । सन्ध्यारुणाः उद्यत्यः शतं गङ्गा यस्य । तादृशमङ्गं पूर्णं सम्यक् । बभार ॥ ४,२८.१८ ॥

 

 

 

गिरिवर्षणमम्बुवर्षणं

विविधोग्रायुधवर्षणं तथा ।

विषमाशनिवर्षणं च ते

शममन्योऽन्यमथाग्निवर्षणम् ॥ ४,२८.१९ ॥

अनयन्नयमार्गकोविदा

दलिताशेषगिरीन्द्रभित्तयः ।

ससृजुश्च समं समन्ततः

ककुबङ्गेष्विव पुष्पवर्षणम् ॥ ४,२८.२० ॥

अथ नये अस्त्रशान्तिशास्त्रे । कोविदाः निपुणाः । ते देवासुराः । एतानि वर्षणानि समन्ततः शममनयन् । एतानि कानि । गिरिवर्षणमित्यादि । न केवलं शममनयन् । किं तु ककुबङ्गेषु ससृजुश्च । किमिव । पुष्पवर्षणमिव । ते कथम्भूताः । दलिता अशेषगिरीन्द्राणां भित्तयः यैः । ते । तादृशाः । युग्मम् ॥ ४,२८.१९२० ॥

 

 

देवासुराः सरससङ्गरसम्भ्रमार्ता

अन्योऽन्यमङ्गदलनाकुलहेतिहस्ताः ।

दामेन्द्रडिम्बदहनाः पृथुपीठपीठैः

कीर्णासृजो नभसि बभ्रमुराक्षिपन्तः ॥ ४,२८.२१ ॥

देवासुराः नभसि बभ्रमुः । कथम्भूताः । सरसं वीररससहितम् । यत्सङ्गरं सङ्ग्रामः । तत्र यः संरम्भः उद्योगः । तेनार्ताः व्याकुलाः । अन्योऽन्यमङ्गदलनार्थमाकुलहेतयः हस्ताः येषाम् । ते । तादृशाः । दामेन्द्रयोः डिम्बदहनाः मनःसन्तापकारित्वात्चञ्चलाग्नयः । तत्रापि दाम्नः देवाः इन्द्रस्यासुराः इति विभागः । पृथुपीठाः पृथुसंस्थानाः । ये पीठाः अंसादिपीठाः । तैः कीर्णासृजः विक्षिप्तरुधिराः । तथा आक्षिपन्तः अन्योऽन्यमाक्षेपं कुर्वन्तः ॥ ४,२८.२१ ॥

 

 

 

छिन्नैः शिरःकरभुजोरुभरैर्भ्रमद्भिर्

आकाशकोशशलभैरशिवैस्तदानीम् ।

आसीज्जगज्जठरमभ्रवरैरिवोग्रैर्

आभास्करं स्थगितदिक्तटशैलजालम् ॥ ४,२८.२२ ॥

छिन्नैः । अत एव भ्रमद्भिः । अत एव च आकाशे शलभैः शलभरूपैः । अशिवैः अमङ्गलकारिभिः । शिरःकरभुजोरुभरैः । जगज्जठरमाभास्करं सूर्यं तावत् । स्थगितानि दिक्तटानि शैलजालानि च यस्य । तत् । तादृशमासीत् । तैः कैरिव । अभ्रवरैरिव उत्तममेघैरिव ॥ ४,२८.२२ ॥

 

 

 

मत्तानलं क्षुब्धजलानिलार्कं

दलद्वनं शीर्णसुरासुरौघम् ।

ब्रह्माण्डमाखण्डितकुड्यकोणम्

अकालकल्पान्तकरालमासीत् ॥ ४,२८.२३ ॥

आ समन्तात् । खण्डिताः कुड्यकोणाः यस्य । तत् । तादृशम् ॥ ४,२८.२३ ॥

 

 

 

भ्रान्तं भृशं भ्रमितदिक्तटमद्रिकूटैर्

आत्मप्रमाणघनहेतिहतै रणद्भिः ।

कूजद्भिरार्तिभिरिवाग्रगुहौघवातैः

क्रन्दद्भिरापतितसिंहरवैरदभ्रैः ॥ ४,२८.२४ ॥

अद्रिकूटैः कर्तृभिः । भृशं भ्रान्तं भ्रमयुक्तैः ज्ञातम् । कथं भ्रान्तम् । भ्रमितानि भ्रमयुक्तानि कृतानि । दिक्तटानि यत्र । तत् । अद्रिकूटैः कथम्भूतैः । आत्मप्रमाणा अद्रिकूटप्रमाणाः । याः घनहेतयः । ताभिः हताः । तैः । अत एव रणद्भिः । पुनः कथम्भूतैः । गुहौघाग्राणां वाताः अग्रगुहौघवाताः । तैः । तद्व्याजेनेति यावत् । आर्तिभिरिव कूजद्भिः । आर्त्या युक्तो हि कूजति । पुनः कथम्भूतैः । आपतिताः ये सिंहाः । तेषां ये रवाः । तैः । तद्व्याजेनेति यावत् । क्रन्दद्भिः रवैः कथम्भूतैः । अदभ्रैः उत्कटैः ॥ ४,२८.२४ ॥

 

 

 

मायानदीजलधियोधघनाग्निदाहैर्

वृक्षैः सुरासुरशवैरचलैः शिलौघैः ।

भ्रान्तं शिरस्त्रशरशक्तिगदास्त्रवर्षैर्

वातावकीर्णवनपर्णवदम्बरान्तः ॥ ४,२८.२५ ॥

अम्बरान्तः आकाशमध्यम् । वातेनावकीर्णं वलितम् । यत्वनपर्णम् । तद्वत् । भ्रान्तं भ्रमयुक्तमासीत् । कैः भ्रान्तमासीत् । न हि अम्बरमध्यस्य भ्रमो युक्त इत्यपेक्षायामाह मायानदीत्यादि । अम्बरान्तश्चारिणां मायानद्यादीनामेव भ्रमः अम्बरान्तः भ्रमत्वेनारोपितः ॥ ४,२८.२५ ॥

 

 

 

अद्रीन्द्रपक्षपरिमाणगमागमैक

दुर्वारहस्ततलदारुणताडनैर्द्राक् ।

आसीत्पतद्भटशरीरगिरीन्द्रघात

विभ्रष्टदेवपुरपूर्णजलार्णवौघः ॥ ४,२८.२६ ॥

अद्रीन्द्रपक्षपरिमाणाश्च ते गमागमैकदुर्वाराश्च । तादृशाः ये हस्ताः । तेषां यानि तलानि । तैः यानि ताडनानि । तैः कृत्वा । द्राक्शीघ्रम् । पतन्तः ये भटशरीराण्येव गिरीन्द्राः । तेषां ये घाताः । तैः भ्रष्टानि यानि देवपुराणि । तैः पूर्णजलश्चासौ अर्णवौघः समुद्रसप्तकम् । सः । आसीत्जात इत्यर्थः ॥ ४,२८.२६ ॥

 

 

 

घनघुङ्घुमपूरितान्तरिक्षा

क्षतजाक्षालितभूधरान्तराला ।

रुधिरह्रदवृत्तिवर्तिनी वा

भुवनाभोगगुहा तदाकुलाभूत् ॥ ४,२८.२७ ॥

भुवनाभोगः भुवनविस्तारः । स एव गुहा । तदा तस्मिन् समये । आकुला अभूत् । कथम्भूता । घनः यः घुङ्घुमः युद्धकोलाहलः । तेनापूरितमन्तरिक्षं यस्याः । सा । तादृशी । क्षतजैः रुधिरैः । आ समन्तात् । क्षालितानि भूधरान्तरालानि यस्याः । सा । रुधिरह्रदरूपा या वृत्तिः स्थानम् । तत्र वर्तत इति तादृशी । स्थितौ स्थितिमतीतिवत्प्रयोगः । गुहा च मषकघुङ्घुमपूरितान्तरिक्षा वृष्टिक्षालितभूधरान्तराला ह्रदवर्तिनी च भवति ॥ ४,२८.२७ ॥

 

 

 

सर्गान्तश्लोकेन अस्य रणस्य संसारसाम्यं कथयति

अनन्तदिक्प्रसरविकारकारिणी

क्षयोदयोन्मुखसुखदुःखदायिनी ।

रणक्रियासुरसुरसङ्घसङ्कटा

तदाभवत्खलु सदृशीह संसृतेः ॥ ४,२८.२८ ॥

खलु निश्चये । सा रणक्रिया इह सम्सृतिसदृशी अभवत् । कथम्भूता । अनन्तदिक्षु यः प्रसरः । तेन विकारं हिंसाख्यं विकारम् । करोतीति तादृशी । क्षयोदयोन्मुखे ये सुखदुःखे । ते ददातीति तादृशी । असुरसुरसङ्घेन सङ्कटा सम्बाधा । संसृतिरपि प्रसरेण बन्धाख्यं विकारं करोति । सुखदुःखदायिनी नानापदार्थसङ्कटा च भवति । इति शिवम् ॥ ४,२८.२८ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे अष्टाविंशः सर्गः ॥२८॥