मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ८

विकिस्रोतः तः
← सर्गः ७ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः ९ →
मोक्षोपायटीका/स्थितिप्रकरणम्



इति चित्तविलासेन चिरमुत्प्रेक्षितैः प्रियैः ।

प्रणयैर्भार्गवस्यासीत्तुष्टये ससमागमः ॥ ४,८.१ ॥

ससमागमः तया अप्सरसा सह समागमः ॥ ४,८.१ ॥

 

 

 

मन्दारदामाकुलया वैबुधासवमत्तया ।

तदा तेन तया सार्धं द्वितीयेनामलेन्दुना ॥ ४,८.२ ॥

विहृतं मत्तहंसासु हेमपङ्कजिनीषु च ।

तटेष्वमरवाहिन्याः सह किन्नरचारणैः ॥ ४,८.३ ॥

वैबुधासवः अमृतम् ॥ ४,८.२३ ॥

 

 

 

पीतमिन्दुदलस्यन्दि देवैः सह रसायनम् ।

पारिजातलताजालनिलयेषु विलासिना ॥ ४,८.४ ॥

स्पष्टम् ॥ ४,८.४ ॥

 

 

 

चारुचैत्ररथोद्यानलतादोलासु लीलया ।

चिरं विलसितं व्यग्रैः सह विद्याधरीगणैः ॥ ४,८.५ ॥

स्पष्टम् ॥ ४,८.५ ॥

 

 

 

नन्दनोपवनाभोगो मन्दरेणेव वारिधिः ।

भृशमुल्लोलतां नीतः प्रमथैः सह शाम्भवैः ॥ ४,८.६ ॥

शुक्रेण शाम्भवैः शम्भुसम्बन्धिभिः । प्रमथैः रुद्रगणैः । सह । नन्दनोपवनाभोगः भृशमुल्लोलतां नीतः ॥ ४,८.६ ॥

 

 

 

बालहेमलताजालजटिलासु दरीषु च ।

भ्रान्तमुन्मत्तरागेण मैरवीष्वब्जिनीषु च ॥ ४,८.७ ॥

शुक्रेण कर्त्रा भ्रान्तं भ्रमः कृतः । शुक्रेण कथम्भूतेन । उन्मत्तरागेण उद्रिक्तरागेण ॥ ४,८.७ ॥

 

 

 

कैलासवनकुञ्जेषु तया सह विलासिना ।

हारेन्दुधवला रात्रिः क्षपिता गणगीतिभिः ॥ ४,८.८ ॥

गणगीतिभिः गन्धर्वादिगीतकृतैः विनोदैरित्यर्थः ॥ ४,८.८ ॥

 

 

 

गन्धमादनशैलस्य विश्रम्योपरि सानुषु ।

सा तेन कनकाम्भोजैरापादमभिमण्डिता ॥ ४,८.९ ॥

आपादं पादपर्यन्तम् ॥ ४,८.९ ॥

 

 

 

लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु ।

क्रीडितं कृतहासेन राम तेन तया सह ॥ ४,८.१० ॥

स्पष्टम् ॥ ४,८.१० ॥

 

 

 

मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः ।

अवसत्स समाः षष्टिं कल्पितामरमन्दिरः ॥ ४,८.११ ॥

कल्पितं कल्पनया सम्पादितम् । अमरमन्दिरं देवगृहम् । येन । सः ॥ ४,८.११ ॥

 

 

 

क्षीरार्णवतटेष्वस्य वनितासहचारिणः ।

क्षीणं कृतयुगादर्धं श्वेतद्वीपजनैः सह ॥ ४,८.१२ ॥

स्पष्टम् ॥ ४,८.१२ ॥

 

 

 

गन्धर्वनगरोद्यानलीलाविरचनैरसौ ।

सृष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः ॥ ४,८.१३ ॥

स्पष्टम् ॥ ४,८.१३ ॥

 

 

 

अथावसदसौ शुक्रः पुरन्दरपुरे पुनः ।

सुखं चतुर्युगान्यष्टौ हरिणेक्षणया सह ॥ ४,८.१४ ॥

स्पष्टम् ॥ ४,८.१४ ॥

 

 

 

पुण्यक्षयानुसन्धानात्ततश्चावनिमण्डले ।

तयैव सह मानिन्या पपातापहृताकृतिः ॥ ४,८.१५ ॥

स्पष्टम् ॥ ४,८.१५ ॥

 

 

 

परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः ।

चिन्तापरवशो ध्वस्तः समितीवाहतो भटः ॥ ४,८.१६ ॥

हृते स्यन्दननन्दने रथनन्दनोपवने यस्य । सः । भटपक्षे हृतः स्यन्दननन्दनः प्रशस्तरथः यस्य । सः ॥ ४,८.१६ ॥

 

 

 

पतितस्यावनौ तस्य चिन्तया सह दीर्घया ।

शरीरं शतधा यातं शिलापातीव निर्झरः ॥ ४,८.१७ ॥

स्पष्टम् ॥ ४,८.१७ ॥

 

 

 

संशीर्णयोर्देहकयोश्चित्ते ते वासनावृते ।

विचेरतुस्तयोर्व्योम्नि निर्नीडौ विहगौ यथा ॥ ४,८.१८ ॥

स्पष्टम् ॥ ४,८.१८ ॥

 

 

 

तत्राविविशतुश्चान्द्रं ते चित्ते रश्मिजालकम् ।

प्रालेयतामुपेत्याशु शालितामथ जग्मतुः ॥ ४,८.१९ ॥

प्रालेयतामवश्यायभावम् ॥ ४,८.१९ ॥

 

 

 

शालींस्तान् भुक्तवान् पक्वान् दशार्णेषु द्विजोत्तमः ।

शौक्राञ्शुक्राङ्गनागर्भान्मालवेषु च भूपतिः ॥ ४,८.२० ॥

शौक्रान् शुक्रसम्बन्धिनः । तदुपादानबीजनिमित्तानीति यावत् । शुक्राङ्गना गर्भे येषाम् । तान् ॥ ४,८.२० ॥

 

 

 

अजायतोशनाः पूर्वं दशार्णेषु द्विजोत्तमात् ।

नृपादुत्तमसौभाग्यान्मालवेषु तदङ्गना ॥ ४,८.२१ ॥

तदङ्गना शुक्राङ्गना । अप्सराः इति यावत् ॥ ४,८.२१ ॥

 

 

 

स तत्र ववृधे बालः सा तत्र ववृधेऽङ्गना ।

तौ पूर्वदम्पती जातौ स्वर्भ्रष्टाविव भूतले ॥ ४,८.२२ ॥

स्पष्टम् ॥ ४,८.२२ ॥

 

 

 

अथ षोडशवर्षोऽभूच्छुक्रः सारङ्गनामभृत् ।

पितुर्गृहे यौवनवाञ्श्रीमान् विप्रकुमारकः ॥ ४,८.२३ ॥

सारङ्गेति नाम बिभर्तीति सारङ्गनामभृत् ॥ ४,८.२३ ॥

 

 

 

मालानामसुरस्त्री सा कुमारी राजसद्मनि ।

भृङ्गेक्षणा गता वृद्धिं लता वरवने यथा ॥ ४,८.२४ ॥

स्पष्टम् ॥ ४,८.२४ ॥

 

 

 

राजपुत्री ततो माला पूजयामास शङ्करम् ।

लभेयं प्राक्तनं सिद्धं पतिमित्यनिशं शुभा ॥ ४,८.२५ ॥

स्पष्टम् ॥ ४,८.२५ ॥

 

 

 

अथ मालवभूपस्य यज्ञे द्विजसभागतम् ।

माला ददर्श सारङ्गं पित्रा सह समागतम् ॥ ४,८.२६ ॥

स्पष्टम् ॥ ४,८.२६ ॥

 

 

 

तं दृष्ट्वा सानवद्याङ्गी प्राक्तनस्नेहभाविता ।

दृष्टचन्द्रेन्दुमणिवत्स्नेहस्विन्नाङ्गिका बभौ ॥ ४,८.२७ ॥

प्राक्तनस्नेहेन पूर्वजन्मस्नेहेन । भाविता वासिता ॥ ४,८.२७ ॥

 

 

 

ततो यज्ञसभामध्ये दाशार्णद्विजदारकम् ।

भर्तृत्वे वरयामास सा माला मालवात्मजा ॥ ४,८.२८ ॥

स्पष्टम् ॥ ४,८.२८ ॥

 

 

 

क्रमात्कृतविवाहाय तस्मै वार्धकजर्जरः ।

मालवेशोऽखिलं राज्यं प्रतिपाद्य वनं ययौ ॥ ४,८.२९ ॥

वार्धकजर्जरः जराजर्जरः । प्रतिपाद्य दत्त्वा ॥ ४,८.२९ ॥

 

 

 

स सारङ्गस्तया सार्धं तस्मिन्मालवमण्डपे ।

चकारातिसुखी राज्यं शक्रवच्छरदां शतम् ॥ ४,८.३० ॥

स्पष्टम् ॥ ४,८.३० ॥

 

 

 

अथ कालेन महता चञ्चलत्वाच्च चेतसः ।

अप्रियत्वं मिथो यातौ दम्पती तौ विधेर्वशात् ॥ ४,८.३१ ॥

स्पष्टम् ॥ ४,८.३१ ॥

 

 

 

सारङ्गस्तु जराजीर्णः पातसज्जकलेवरः ।

दध्रे श्वसनशैथिल्याज्जीर्णपर्णसवर्णताम् ॥ ४,८.३२ ॥

श्वसनशैथिल्यात्वातशैथिल्यात् ॥ ४,८.३२ ॥

 

 

 

जायाजनविरागेण वार्धकातिशयेन च ।

मरणं मन्दमन्देहो निरीहोऽभिननन्द सः ॥ ४,८.३३ ॥

स्पष्टम् ॥ ४,८.३३ ॥

 

 

 

अथ नीरसराज्यस्य दुःखातिशयशंसिनः ।

अरण्य इव वेतालो मोहोऽतिघनतां गतः ॥ ४,८.३४ ॥

स्पष्टम् ॥ ४,८.३४ ॥

 

 

 

मोहान्धकूपपतितं भोगासङ्गादनारतम् ।

अविवेकिनमज्ञानमसज्जनपरायणम् ॥ ४,८.३५ ॥

स्पष्टम् ॥ ४,८.३५ ॥

 

 

 

जहारैनं ततो मृत्युस्तृष्णाकवलिताशयम् ।

पतङ्गमिव मण्डूकः कृताक्रन्दमकिञ्चनम् ॥ ४,८.३६ ॥

अकिञ्चनमसमर्थम् ॥ ४,८.३६ ॥

 

 

 

ततः कर्मफलं भुक्त्वा स्वं परत्र शुभाशुभम् ।

अङ्गेषु धीवरो जातः स दुर्भाववशात्तदा ॥ ४,८.३७ ॥

दुर्भाववशात्दुर्वासनावशात् ॥ ४,८.३७ ॥

 

 

 

तत्र धीवरकर्माणि कुर्वन् स शरदां शतम् ।

दुःखजर्जरचेतस्त्वाद्वैराग्यं समुपाययौ ॥ ४,८.३८ ॥

स्पष्टम् ॥ ४,८.३८ ॥

 

 

 

दुःखं संसार इत्येवं चिन्तयन् भास्करं ततः ।

सम्पतंस्तेन सञ्जातः सूर्यवंशे महानृपः ॥ ४,८.३९ ॥

सम्पतन् शरणं गच्छन् ॥ ४,८.३९ ॥

 

 

 

शुभभाववशात्सोऽथ किञ्चिज्ज्ञानमवाप्तवान् ।

जज्ञे नृपतनुं त्यक्त्वा गुरुः सर्वोपदेशकः ॥ ४,८.४० ॥

स्पष्टम् ॥ ४,८.४० ॥

 

 

 

मन्त्रासाधितसिद्धिर्हि सोऽथ विद्याधरोऽभवत् ।

कल्पमेकं तु बुभुजे ततो वैद्याधरीं पुरीम् ॥ ४,८.४१ ॥

स्पष्टम् ॥ ४,८.४१ ॥

 

 

कल्पावसानसमयं नीत्वा पवनरूपया ।

तन्वा सृष्टौ प्रवृत्तायां भूयो जातो मुनेः सुतः ॥ ४,८.४२ ॥

स्पष्टम् ॥ ४,८.४२ ॥

 

 

 

ततो मुनीनां सम्पर्कात्तपस्युग्रे व्यवस्थितः ।

अवसन्मेरुगहने मन्वन्तरमनिन्दितः ॥ ४,८.४३ ॥

स्पष्टम् ॥ ४,८.४३ ॥

 

 

 

तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः ।

तत्स्नेहेन परं मोहं पुनरभ्याययौ क्षणात् ॥ ४,८.४४ ॥

मृग्याः मृगीसकाशात् ॥ ४,८.४४ ॥

 

 

 

पुत्रस्यास्य धनं मेऽस्तु गुणाश्चायुश्च शाश्वतम् ।

इत्यनारतचिन्ताभिर्जहौ सत्यामवस्थितिम् ॥ ४,८.४५ ॥

सत्यामवस्थितिं सत्यभूतं धर्मपरत्वम् ॥ ४,८.४५ ॥

 

 

 

धर्मचिन्तापरिभ्रंशात्पुत्रार्थं भोगचिन्तनात् ।

क्षीणायुषं तमहरन्मृत्युः सर्प इवानिलम् ॥ ४,८.४६ ॥

स्पष्टम् ॥ ४,८.४६ ॥

 

 

 

भोगैकचिन्तया सार्धं स समुत्क्रान्तचेतनः ।

प्राप्य मद्रेशपुत्रत्वमासीन्मद्रमहीपतिः ॥ ४,८.४७ ॥

मद्रेशपुत्रत्वं मद्रदेशभूपसुतत्वम् ॥ ४,८.४७ ॥

 

 

 

मद्रदेशे चिरं कृत्वा राज्यमुच्छिन्नशात्रवः ।

जरामभ्याजगामात्र हिमाशनिमिवाम्बुजः ॥ ४,८.४८ ॥

स्पष्टम् ॥ ४,८.४८ ॥

 

 

 

मद्रराजतनुं तं तु तपोवासनया सह ।

तत्याज तेन जातोऽसौ तपस्वी तापसात्मजः ॥ ४,८.४९ ॥

सः मद्रराजतनुं तत्याजेति सम्बन्धः । तेन तनुत्यागेन ॥ ४,८.४९ ॥

 

 

 

समङ्गाया महानद्यास्तटमासाद्य तापसः ।

तपस्तेपे महाबुद्धिः स राम विगतज्वरः ॥ ४,८.५० ॥

समङ्गा नदीभेदः ॥ ४,८.५० ॥

 

 

 

सर्गान्तश्लोकेन शुक्रस्य सुखावस्थानं कथयति

विविधजन्मदशाविवशाशयः

समनुसृत्य शरीरपरम्पराम् ।

सुखमतिष्ठदसौ भृगुनन्दनो

वरनदीसुतटे दृढवृक्षवत् ॥ ४,८.५१ ॥

वरनदीसुतटे समङ्गाख्यायाः उत्कृष्टायाः नद्याः शोभने तीरे । इति शिवम् ॥ ४,८.५१ ॥

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे अष्टमः सर्गः ॥८॥