मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ६
← सर्गः ५ | मोक्षोपायटीका/स्थितिप्रकरणम् भास्करकण्ठः |
सर्गः ७ → |
मोक्षोपायटीका/स्थितिप्रकरणम् |
---|
अथ तां मनसा ध्यायंस्तत्रैवामीलितेक्षणः ।
आरब्धवान्मनोराज्यमिदमेकः किलोशनाः ॥ ४,६.१ ॥
उशनाः शुक्रः ॥ ४,६.१ ॥
एषा हि ललना व्योम्नि सहस्रनयनालये ।
सम्प्राप्तोऽयमहं स्वर्गमालोलसुरसुन्दरम् ॥ ४,६.२ ॥
सहस्रनयनालये स्वर्गे ॥ ४,६.२ ॥
इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः ।
द्रवत्कनकनिःष्यन्दविलासिवपुषः सुराः ॥ ४,६.३ ॥
स्पष्टम् ॥ ४,६.३ ॥
इमास्ता लोचनोल्लाससृष्टनीलाब्जवृष्टयः ।
मुग्धा हासविलासिन्यः कान्ता हरिणदृष्टयः ॥ ४,६.४ ॥
स्पष्टम् ॥ ४,६.४ ॥
इमे ते कौस्तुभोद्द्योता अन्योऽन्यप्रतिबिम्बिताः ।
विश्वरूपोपमाकारा मरुतो मत्तकाशिनः ॥ ४,६.५ ॥
विश्वरूपस्य विष्णोः । समः आकारः येषाम् । ते । मरुतो देवविशेषाः ॥ ४,६.५ ॥
ऐरावणकटामोदविरक्तमधुपश्रुताः ।
इमास्ताः काकलीगीता गीर्वाणगणगीतयः ॥ ४,६.६ ॥
काकलीगीताः काकलीगीताख्याः ॥ ४,६.६ ॥
इयं सा कनकाम्भोजचरद्वैरिञ्चसारसा ।
मन्दाकिनीतटोद्यानविश्रान्तसुरनायिका ॥ ४,६.७ ॥
स्पष्टम् ॥ ४,६.७ ॥
एते ते यमचन्द्रेन्द्रसूर्यानिलजलानलाः ।
लोकपालास्तनूद्द्योतकीर्णदीप्तोज्ज्वलार्चिषः ॥ ४,६.८ ॥
स्पष्टम् ॥ ४,६.८ ॥
अयं स सुरविक्रान्तहेतिकण्डूयिताननः ।
ऐरावणो रणद्दन्तप्रोतदैत्येन्द्रमण्डलः ॥ ४,६.९ ॥
सुरैः देवैः । विक्रान्तहेतिभिः कण्डूयितमाननं यस्य । सः ॥ ४,६.९ ॥
इमे ते भूतलस्थाना व्योमतारकतां गताः ।
वैमानिकाश्चलच्चारुहारचामरकुण्डलाः ॥ ४,६.१० ॥
भूतले स्थानं येषाम् । ते भूतलस्थानाः ॥ ४,६.१० ॥
इमास्ता विविधोद्यानमणिमन्दिरमण्डिताः ।
विमानपङ्क्तयश्चारुचामीकरमयातपाः ॥ ४,६.११ ॥
चारुचामीकरमयः आतपः उद्द्योतः यासाम् । ताः ॥ ४,६.११ ॥
मेरूपलतलास्फालशीकराकीर्णदेवताः ।
एतास्ताः कीर्णमन्दारा गङ्गासलिलवीचयः ॥ ४,६.१२ ॥
मेरूपलतलेषु यः आस्फालः विघट्टनम् । तेन ये शीकराः । तैः आकीर्णाः देवताः याभिस्। ताः ॥ ४,६.१२ ॥
एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः ।
दोलालोलाप्सरःश्रेण्यः शक्रोपवनवीथयः ॥ ४,६.१३ ॥
स्पष्टम् ॥ ४,६.१३ ॥
इमे ते कुन्दमन्दारमकरन्दसुगन्धयः ।
चन्द्रांशुनिकराकाराः पारिजातसमीरणाः ॥ ४,६.१४ ॥
स्पष्टम् ॥ ४,६.१४ ॥
पुष्पकेसरनीहारपटवासेरणोत्सुकैः ।
लताङ्गनागणैर्व्याप्तमिदं तन्नन्दनं वनम् ॥ ४,६.१५ ॥
पुष्पकेसरमेव नीहारः । स एव पटवासः । तस्य यतीरणं चालनम् । तत्रौत्सुकैः ॥ ४,६.१५ ॥
कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ ।
इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू ॥ ४,६.१६ ॥
स्पष्टम् ॥ ४,६.१६ ॥
इमे ते पुण्यकर्तारो भूरिभूषनभूषिताः ।
व्योमन्युड्डयमानेषु विमानेषु सुखं स्थिताः ॥ ४,६.१७ ॥
स्पष्टम् ॥ ४,६.१७ ॥
मदमन्मथमत्ताङ्ग्य इमास्ताः सुरयोषितः ।
देवेश्वरं निषेवन्ते वनं वनलता इव ॥ ४,६.१८ ॥
स्पष्टम् ॥ ४,६.१८ ॥
चन्द्रांशुजालकुसुमाश्चिन्तामणिगुलुच्छकाः ।
कल्पवृक्ष इमे पक्वरत्नस्तवकदन्तुराः ॥ ४,६.१९ ॥
स्पष्टम् ॥ ४,६.१९ ॥
इह तावदिमं शक्रमहमासनसंस्थितम् ।
द्वितीयमिव देवेशं पूजयैवाभिवादये ॥ ४,६.२० ॥
देवेशं महादेवम् ॥ ४,६.२० ॥
इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः ।
तेनाभिवादितस्तत्र द्वितीय इव वै भृगुः ॥ ४,६.२१ ॥
मनसा एव न तु कायेन ॥ ४,६.२१ ॥
अथ सादरमुत्थाय शुक्रः शक्रेण पूजितः ।
गृहीतहस्तमानीय समीप उपवेशितः ॥ ४,६.२२ ॥
स्पष्टम् ॥ ४,६.२२ ॥
धन्यस्त्वदागमेनाद्य स्वर्गोऽयं शुक्र शोभते ।
उष्यतां चिरमेवेह शक्र इत्थमुवाच तम् ॥ ४,६.२३ ॥
स्पष्टम् ॥ ४,६.२३ ॥
अथ तत्रोपविश्यासौ भार्गवः शोभिताननः ।
श्रियं जहार शशिनः सकलस्यामलस्य च ॥ ४,६.२४ ॥
स्पष्टम् ॥ ४,६.२४ ॥
सर्गान्तश्लोकेनास्य नरत्वत्यागं कथयति
सकलसुरगणाभिवन्दितोऽसौ
भृगुतनयः शतमन्युपार्श्वसंस्थः ।
चिरतरमतुलामवाप तुष्टिं
नरमतिमुज्झितवानलं बभूव ॥ ४,६.२५ ॥
असौ शुक्रः । नरमतिं नरोऽहमिति बुद्धिम् । अलमतिशयेन । उज्झितवान् बभूव सम्पन्नः । देवत्वमेव स्वस्मिन् ज्ञातवानिति भावः । इति शिवम् ॥ ४,६.२५ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षष्ठः सर्गः ॥६॥