मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ३२
← सर्गः ३१ | मोक्षोपायटीका/स्थितिप्रकरणम् भास्करकण्ठः |
सर्गः ३३ → |
मोक्षोपायटीका/स्थितिप्रकरणम् |
---|
ओम् । श्रीरामः पृच्छति
सतामप्यसतामेव बालयक्षपिशाचवत् ।
दामव्यालकटादीनां दुःखस्यान्तः कथं भवेत् ॥ ४,३२.१ ॥
दुःखस्य नानायोनिभ्रमणरूपस्य ॥ ४,३२.१ ॥
श्रीवसिष्ठ उत्तरं कथयति
दामव्यालकटार्थं तैस्तदैव यमकिङ्करैः ।
प्रार्थितेन यमेनोक्तमिदं शृणु रघूद्वह ॥ ४,३२.२ ॥
स्पष्टम् ॥ ४,३२.२ ॥
यमवाक्यं कथयति
यदा वियोगमेष्यन्ति श्रोष्यन्ति च निजां कथाम् ।
दामादयस्तदा मुक्ता भविष्यन्तीत्यसंशयम् ॥ ४,३२.३ ॥
इतिशब्दः यमवाक्यसमाप्तौ ॥ ४,३२.३ ॥
अत्र श्रीरामः पृच्छति
स्ववृत्तान्तमिमं कुत्र कदा कथय ते कथम् ।
श्रोष्यन्ति भगवन् केन वर्ण्यमानं यथाक्रमम् ॥ ४,३२.४ ॥
हे भगवन् । त्वं यथाक्रमं कथय । ते दामादयः । इमं स्ववृत्तान्तं कुत्र देशे । कदा काले । केन वर्ण्यमाणम् । कथं केन प्रकारेण । श्रोष्यन्ति ॥ ४,३२.४ ॥
श्रीवसिष्ठ उत्तरं कथयति
कश्मीरेषु महापद्मसरसीतीरपल्वले ।
भूयो भूयोऽनुभूयैते मत्स्ययोनिपरम्पराम् ॥ ४,३२.५ ॥
आलानिताशया लोलाः कालेन लयमागताः ।
तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः ॥ ४,३२.६ ॥
आलानिताशयाः बद्धमनसः ॥५६॥
तत्र कल्हारमालासु सरोजपटलीषु च ।
शेवालवरवल्लीषु तरङ्गवलनासु च ॥ ४,३२.७ ॥
ललत्कुमुददोलासु नीलोत्पललतासु च ।
शीकरौघाभ्रलेखासु शीतलावर्तवृत्तिषु ॥ ४,३२.८ ॥
सरःसारससम्भोगान् भुक्त्वा भुवनभूषणाः ।
विहृत्य सुचिरं कालमलमागतशुद्धयः ॥ ४,३२.९ ॥
ते वियुक्ता भविष्यन्ति मुक्तये लब्धयुक्तयः ।
रजःसत्त्वतमांसीव भेदप्राप्त्या यदृच्छया ॥ ४,३२.१० ॥
तरङ्गरूपाः याः वलनाः दोलाविशेषाः । तासु । सरःसारसानां सम्भोगाः । तान् । सारसोचितान् भोगानित्यर्थः । आगतशुद्धयः प्राप्तकाषायपाकाः । अत एव भुवनभूषणाः आर्षं पुंस्त्वम् । लब्धा युक्तिः वियोगरूपा युक्तिः यैः । ते । तादृशाः । यदृच्छया न तु प्रयत्नेन । ते कानीव । रजःसत्त्वतमांसीव । यथा तानि यदृच्छया सिद्धया । भेदप्राप्त्या वियुक्तानि भविष्यन्ति । तथेत्यर्थः ॥ ४,३२.७१० ॥
कश्मीरमण्डलस्यान्तर्नगरं नगशोभितम् ।
नाम्नाधिष्ठानमित्येतच्छ्रीमत्तत्र भविष्यति ॥ ४,३२.११ ॥
स्पष्टम् ॥ ४,३२.११ ॥
प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति ।
शृङ्गं लघु सरोजस्य कोशचक्रमिवोदरे ॥ ४,३२.१२ ॥
कोशचक्रं कर्णिका ॥ ४,३२.१२ ॥
तस्य मूर्ध्नि गिरेर्गेहं कोऽपि राजा करिष्यति ।
अभ्रङ्कषमहासालं शृङ्गे शृङ्गमिवापरम् ॥ ४,३२.१३ ॥
स्पष्टम् ॥ ४,३२.१३ ॥
गृहस्येशानकोणाद्रिशिरोभित्तिव्रणोदरे ।
तस्यानिशमविश्रान्तवातोद्धूततृणाङ्किते ॥ ४,३२.१४ ॥
आलये दानवो व्यालः कलविङ्को भविष्यति ।
प्रथमाल्पश्रुतच्छात्त्र इवार्थरहितारटिः ॥ ४,३२.१५ ॥
कलविङ्कः कथम्भूतः । अर्थरहितमारटति कूजतीति अर्थरहितारटिः । क इव । प्रथममल्पश्रुतः छात्त्रः प्रथमाल्पश्रुतच्छात्त्रः । स इव । अल्पश्रुतः छात्त्रो हि अर्थरहितमेव रटति । ततः कालेन तु सार्थमपि रटतीति प्रथमग्रहणम् ॥ ४,३२.१४१५ ॥
तस्मिन्नेव तदा काले तत्र राजा भविष्यति ।
श्रीयशस्करदेवाख्यः शक्रः स्वर्ग इवापरः ॥ ४,३२.१६ ॥
स्पष्टम् ॥ ४,३२.१६ ॥
दानवो दामनामा तु मषकस्तस्य सद्मनि ।
भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः ॥ ४,३२.१७ ॥
स्पष्टम् ॥ ४,३२.१७ ॥
कटावस्थां प्रस्तौति
अधिष्ठानाभिधे तस्मिन्नेवोग्रनगरे तदा ।
रत्नावलीविहाराख्यो विहारोऽपि भविष्यति ॥ ४,३२.१८ ॥
विहारः क्रीडाप्रदेशः ॥ ४,३२.१८ ॥
तस्मिंस्तद्भूमिपामात्यो नरसिंह इति श्रुतः ।
करामलकवद्दृष्टबन्धमोक्षो भविष्यति ॥ ४,३२.१९ ॥
तस्मिन् तत्र विहारे । तस्य भूमिपस्यामात्यः तद्भूमिपामात्यः ॥ ४,३२.१९ ॥
भविष्यति गृहे तस्य क्रीडनक्रकरः खगः ।
कटो मायासुरो नाम कृतहिञ्जीरपञ्जरः ॥ ४,३२.२० ॥
कृतः हिञ्जीरपञ्जरः लोहपञ्जरः यस्य । तादृशः ॥ ४,३२.२० ॥
स नृसिंहो नृपामात्यः श्लोकैर्विरचितामिमाम् ।
दामव्यालकटादीनां कथयिष्यति सङ्कथाम् ॥ ४,३२.२१ ॥
नृसिंहः नरसिंहः । दामव्यालकटादीनां सम्बन्धिनीं कथाम् । आदिशब्देन शम्बरादीनां ग्रहणम् ॥ ४,३२.२१ ॥
स कटः क्रकरः श्रुत्वा तां कथां संस्मृतात्मभूः ।
शान्तमिथ्याहमंशोऽन्तः परं निर्वाणमेष्यति ॥ ४,३२.२२ ॥
क्रकरः पक्षविशेषरूपः । स कटः तां स्वसम्बन्धिनीं कथां श्रुत्वा । संस्मृता आत्मभूः स्वोत्पत्तिः येन । तादृशः । अत एव शान्तः मिथ्यारूपः अहमंशः यस्य । तादृशः सन् । परमुत्कृष्टम् । निर्वाणं ब्रह्मण्यात्यन्तिकं लयम् । एष्यति गमिष्यति ॥ ४,३२.२२ ॥
प्रद्युम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः ।
तथैव स्वकथां श्रुत्वा परं निर्वाणमेष्यति ॥ ४,३२.२३ ॥
तथैव कटवतेव ॥ ४,३२.२३ ॥
राजमन्दिरदार्वन्तर्व्रणवास्तव्यतां गतः ।
मषकोऽपि प्रसङ्गेन श्रुत्वा शान्तिमुपैष्यति ॥ ४,३२.२४ ॥
प्रसङ्गेन कथाप्रसङ्गेन ॥ ४,३२.२४ ॥
सङ्गृह्य कथयति
प्रद्युम्नशृङ्गाच्चटको मषको राजमन्दिरात् ।
विहारात्क्रकरश्चेति मोक्षमेष्यन्ति राघव ॥ ४,३२.२५ ॥
स्पष्टम् ॥ ४,३२.२५ ॥
उपसंहारं करोति
एष ते कथितः सर्वो दामव्यालकटक्रमः ।
मायेयमेव सांसारी शून्यैवात्यन्तभासुरा ॥ ४,३२.२६ ॥
भ्रमयत्यपरिज्ञाता मृगतृष्णाम्बुधीरिव ।
संशाम्यति परिज्ञाता मृगतृष्णाम्बुधीरिव ॥ ४,३२.२७ ॥
एवं दामादिवत् । अपरिज्ञाता किंरूपेयमित्यविचारिता ॥ ४,३२.२६२७ ॥
महतोऽपि पदादेवं रामाज्ञानवशादधः ।
पतन्ति मोहिता मूढा दामव्यालकटा इव ॥ ४,३२.२८ ॥
एवं दामादिवत् ॥ ४,३२.२८ ॥
पदादधःपातमेव कथयति
क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसह्यता ।
क्व राजगृहदार्वन्तर्व्रणे मषकरूपता ॥ ४,३२.२९ ॥
स्पष्टम् ॥ ४,३२.२९ ॥
क्व चपेटच्छटामात्रपातितार्केन्दुबिम्बता ।
क्व प्रद्युम्नगिरौ गेहे भित्तिव्रणविहङ्गता ॥ ४,३२.३० ॥
स्पष्टम् ॥ ४,३२.३० ॥
क्व पुष्पलीलयालोलकरतोलितमेरुता ।
क्वार्ष्यशृङ्गे नृसिंहस्य गृहे क्रकरपोतता ॥ ४,३२.३१ ॥
अर्ष्यशृङ्गे प्रद्युम्नशृङ्गे ॥ ४,३२.३१ ॥
ननु कथमापततः सत्यभूतस्याधःपातस्य निवृत्तिः शक्यक्रियेत्य् । अत्राह
चिदाकाशो हि मिथ्यैव रजसारञ्जितप्रभः ।
स्वरूपमत्यजन्नेव विरूपमिव बुध्यते ॥ ४,३२.३२ ॥
हि यस्मात् । चिदाकाशः मिथ्या रजसा रजोगुणाख्यदूल्या । आरञ्जितप्रभः रूषितप्रकाशः । स्वरूपं चित्त्वाख्यं स्वरूपम् । अत्यजन्नेव । विरूपमिव । भावप्रधाने निर्देशः । विरूपत्वमिव । स्वरूपविरुद्धं जडत्वमिव । बुध्यते अनुभवति । परमार्थतस्तु न बुध्यते इतीवशब्दोपादानम् । अतः रज्जुसर्पापातवत्विरूपत्वापरपर्यायाधःच्युत्यापातः न दुर्वार इति भावः ॥ ४,३२.३२ ॥
पुनरप्येतदेव कथयति
स्वयैव वासनाभ्रान्त्या सत्ययेवाप्यसत्यया ।
मृगतृष्णाम्बुबुद्ध्येव याति जन्तुरवान्तरम् ॥ ४,३२.३३ ॥
जन्तुः चिदेकसारः देहाभिमानी जीवः । स्वया स्वाव्यतिरिक्तया । वासनाभ्रान्त्या शरीरे आत्मत्ववासनारूपेण भ्रमेण । अवान्तरं विश्रान्तिप्रदेशाद्भिन्नं शरीराहम्भावाख्यमवान्तरं प्रदेशम् । याति । कथम्भूतया । परमार्थतः असत्ययापि भासमानत्वात्सत्यया । अयं भावः । यथा पुरुषः कञ्चिद्देशं गन्तुकामः तद्देशवासनाकृतया भ्रान्त्यावान्तरप्रदेशान् याति । तथा जीवः चित्स्वरूपं स्वात्मानं गन्तुकामः तद्वासनाकृतया भ्रान्त्या देहरूपे आत्मनि तिष्ठतीति । अतः वासनाकृत एवाधःपातोऽस्तीति । वासनया कयेव । मृगतृष्णाम्बुबुद्ध्या इव । यथा मृगः विश्रान्तिस्थानभूतं जलदेशं गन्तुकामः मृगतृष्णाम्बुबुद्ध्या मरुदेशे तिष्ठति । तथेत्यर्थः ॥ ४,३२.३३ ॥
ननु केनोपायेनाधःपातो निवर्तते इत्य् । अत्राह
तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये ।
शास्त्रेणासदिदं दृश्यमिति निर्वासनं स्थिताः ॥ ४,३२.३४ ॥
ते पुरुषाः । स्वप्रवाहबुद्ध्या एव स्वप्रवाहेन स्थिताः । न तु गुर्वादिप्रेरिता या बुद्धिः । तया एव । भवाम्भोधिं तरन्ति ते । के ये । शास्त्रेणोपायभूतेनाध्यात्मशास्त्रेण इति । निर्वासनं दृश्यसंस्काररहितम् । स्थिता इति । किमिति । इदमनुभूयमानम् । दृश्यम् । असत्सत्तारहितम् । भवति । प्रतीतिमात्रसारत्वातित्यर्थः । अतः शास्त्रस्यैवात्र मुख्यमुपायत्वमिति भावः ॥ ४,३२.३४ ॥
शुष्कतर्काणामेतदुपायत्वं निर्वारयति
तारारावविकारीणि शुष्कतर्कमतानि ये ।
यान्ति श्वभ्रजलान्याशु नाशुभं नाशयन्ति ते ॥ ४,३२.३५ ॥
ये पुरुषाः । तारः उद्भटः । यः आरावः कथनम् । स एव विकारः । तद्युक्तानि तारारावविकारीणि । शुष्काः परमात्मतत्त्वनिर्णयाख्यरसराहित्येन मुखशोषकारिघटपटादिनिर्णयाख्यपारुष्येण च शुष्कतुल्याः । ये तर्काः तर्काभासाः । तद्युक्तानि मतानि शुष्कतर्कमतानि । यान्ति । तान्येवोपायत्वेनाश्रयम् । ते पुरुषाः । अशुभं संसाराख्यमनर्थम् । न नाशयन्ति । अपि तु नानाविकल्पग्रस्तत्वाद्वर्धयन्त्येवेति भावः । शुष्कतर्कमतानि कानि । श्वभ्रजलानि श्वभ्रजलतुल्यानीति यावत् । श्वभ्रजलान्यपि तारारावविकारीणि शुष्कानि दुष्प्रापत्वात्मलानाशकानि च भवन्ति ॥ ४,३२.३५ ॥
ननु तर्हि केषामशुभनाशः सम्पद्यत इत्य् । अत्राह
स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना ।
न विनाशो भवत्यङ्ग गच्छतां पततामिव ॥ ४,३२.३६ ॥
हे अङ्ग । स्वा निजा । या अनुभूतिः अनुभवः । तेन प्रसिद्धेन स्वानुभवसिद्धेनेति यावत् । तथा आगमं सच्छास्त्रम् । अनुगच्छतीति तादृशेन मार्गेण गच्छतां विनाशः अशुभनाशरूपः विनाशः । न भवति । तेषामशुभं न नश्यतीत्यर्थः । तेषां केषामिव । पततामिव । यथा पततां कुमार्गलुठितानाम् । विनाशो भवति । तथैषां न भवतीति व्यतिरेकदृष्टान्तः । स्वमतविरुद्धनिवर्तनाय स्वानुभूतिप्रसिद्धेनेत्युक्तम् [...] ॥ ४,३२.३६ ॥
ननु यदि तर्कमताश्रयणेनानर्थप्राप्तिः स्यात्तर्हि तदपेक्षया सांसारिको व्यवहार एव श्रेयानित्य् । अत्राह
इदं मे स्यादिदं मे स्यादिति बुद्धिमतां मतिः ।
स्वेन दौर्भाग्यदैन्येन न भस्माप्युपतिष्ठते ॥ ४,३२.३७ ॥
इदं वस्तु । मे मम । स्यात्भवतु । इदं मे स्यादिति एवम् । बुद्धिमतां बुद्धियुक्तानाम् । मतिः बुद्धिः । स्वेन दौर्भाग्यदैन्येन निजेन ममताख्यदारिद्र्यकृतेन दीनत्वेन । भस्मापि नोपतिष्ठते न प्राप्नोति । अनेकार्थत्वात्धातूनामुपपूर्वः तिष्ठतिरत्र प्राप्त्यर्थे वर्तते । आशामयस्य सांसारिकव्यवहारस्यात्मप्राप्त्युपायत्वे नामापि ग्रहीतुं न योग्यमिति । का कथा शुष्कतर्कात्श्रैष्ठ्यस्येति भावः ॥ ४,३२.३७ ॥
प्रोक्तसांसारिकव्यवहाररहितस्य शुभप्राप्तिं कथयति
वेत्ति नित्यमुदारात्मा त्रैलोक्यमपि यस्तृणम् ।
तं त्यजन्त्यापदः सर्वा रसतेव जरत्तृणम् ॥ ४,३२.३८ ॥
यः उदारात्मा ममताख्यदारिद्र्यरहितः । नित्यं न तु अभिमतवस्तुप्राप्तिकाल एव । त्रैलोक्यमपि तृणं वेत्ति । तं पुरुषम् । सर्वाः आपदः त्यजन्ति । अतृप्तेरेवापच्छब्दप्रवृत्तिनिमित्तत्वात् । आपदः का इव । रसता इव । पादपूरणार्थो भावप्रत्ययः । रसः इव । यथा रसः जरत्तृणं त्यजति । तथेत्यर्थः ॥ ४,३२.३८ ॥
ननु सर्वं त्यजतः कथं शरीरयात्रा सिध्यतीत्य् । अत्राह
परिस्फुरति यस्यान्तर्नित्यं सत्त्वचमत्कृतिः ।
ब्राह्ममण्डमिवाखण्डं लोकेशाः पालयन्ति तम् ॥ ४,३२.३९ ॥
यस्य पुरुषस्य । सत्त्वचमत्कृतिः । सत्त्वस्य सर्वत्यागरूपस्य धैर्यस्य । चमत्कृतिः चमत्कारः । अन्तः मनसि । स्फुरति । न तु दम्भालस्यादिना वचनमात्रे एव स्फुरति । तं लोकेशाः अखण्डं सम्यक् । पालयन्ति । किमिव । ब्रह्माण्डमिव । अत्यन्तनिर्लोभस्य कार्यं ब्रह्माण्डकार्यमिव स्वयमेव सम्पद्यत इति भावः ॥ ४,३२.३९ ॥
ननु यदि कदाचित्तस्य दुरन्ता विपत्स्यात्तदा किं कार्यमित्य् । अत्राह
अप्यापदि दुरन्तायां नैव रन्तव्यमक्रमे ।
राहुरप्यक्रमेणैव पिबन्नप्यमृतं मृतः ॥ ४,३२.४० ॥
दुरन्तायामपि अन्तरहितायाम् । बह्व्यामपीति यावत् । आपदि विचारयुक्तेन पुरुषेण । अक्रमे शास्त्रादिविरुद्धे क्रमे । न रन्तव्यं न लगनीयम् । अर्थात्स्वप्रवाहागते क्रमे रन्तव्यमिति ज्ञेयम् [...] । अतः क्रम एव कार्य इति भावः ॥ ४,३२.४० ॥
क्रमप्रदर्शकं सच्छास्त्रादिकं प्रशंसति
सच्छास्त्रसाधुसम्पर्कमर्कमुग्रप्रकाशदम् ।
ये श्रयन्ति न ते यान्ति मोहान्ध्यस्य पुनर्वशम् ॥ ४,३२.४१ ॥
मोहान्ध्यस्याक्रमरूपस्येत्यर्थः ॥ ४,३२.४१ ॥
सच्छास्त्रादिसेवनादुत्पन्नान्मैत्र्यादिगुणान् प्रशंसति
अवश्या वश्यमायान्ति यान्ति सर्वापदः क्षयम् ।
अवश्यं भवति श्रेयः क्रेयं यस्य गुणैर्यशः ॥ ४,३२.४२ ॥
अवश्याः शत्रवः । श्रेयः मोक्षाख्यं परमकल्याणम् । क्रेयं ग्राह्यम् । उत्पाद्यमिति यावत् । गुणैः सच्छास्त्रादिसेवनोत्पादितैः मैत्र्यादिगुणैः । तस्मात्यशत्पादकान् गुणानेवाश्रयेदिति भावः ॥ ४,३२.४२ ॥
गुणलुब्धत्वं प्रशंसति
येषां गुणेष्वसन्तोषो रागो येषां श्रुतं प्रति ।
सत्ये व्यसनिनो ये च ते नराः पशवोऽपरे ॥ ४,३२.४३ ॥
असन्तोषः अपूर्णता । श्रुतमध्यात्मशास्त्रम् । अपरे एतेभ्यः व्यतिरिक्ताः ॥ ४,३२.४३ ॥
गुणोत्पादितं यशः प्रशंसति
यशश्चन्द्रिकया येषां भासितं जनहृन्नभः ।
तेषां क्षीरसमुद्राणां नूनं मूर्तौ स्थितो हरिः ॥ ४,३२.४४ ॥
येषां पुरुषाणाम् । सम्बन्धिन्या यशश्चन्द्रिकया मैत्र्यादिगुणोत्पादितया यशश्चन्द्रिकया । जनहृन्नभः जनहृदयः आकाशः । भासितम् । तेषां क्षीरसमुद्राणां चन्द्रिकोत्पादकत्वसाम्यात्क्षीरसमुद्रतुल्यानाम् । नूनं निश्चयेन । मूर्तौ हरिः श्रीनारायणः । स्थितः भवति । तेषां मनसि भगवान् सततमेव स्फुरतीति भावः । युक्तं च क्षीरसमुद्रमूर्तौ श्रीहर्यवस्थानम् ॥ ४,३२.४४ ॥
भुक्तं भोक्तव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः ।
किमन्यद्भवभङ्गाय भूयो भोगेष्वलुब्धता ॥ ४,३२.४५ ॥
युष्माभिः अखिलं भोक्तव्यं भुक्तम् । किञ्चिद्भोगद्वारेण तत्समानयोगक्षेमाः सर्वे भोगा भुक्ता इत्यर्थः । द्रष्टव्याः दर्शनीयाः । दृष्टयः दृष्टाः । अत्रापि पूर्ववतेव योज्यम् । भूयः पुनः । अन्यतितरत्भोक्तव्यं द्रष्टव्यं वा । किमस्ति । किञ्चिदपि नास्तीत्यर्थः । अतः भवभङ्गाय संसारनाशाय । अलुब्धता लोभराहित्यम् । धार्यतामिति शेषः ॥ ४,३२.४५ ॥
यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति ।
स्थीयतां मुच्यतामन्तर्भोगगार्ध्यमवास्तवम् ॥ ४,३२.४६ ॥
यथाचारं स्वाचारसदृशम् । न त्वाचारान्तरनिष्ठतया । तत्त्वे हि अयुक्तं कारित्वं स्यात् । यथास्थिति । न तु गृहस्थः सन् वनस्थतया वनस्थो वा सन् गृहस्थतयेत्यर्थः । अन्तः मनसि । भोगगार्ध्यं भोगेषु गर्धः लोभः यस्य । सः भोगगर्धः । तस्य भावः । तत् ॥ ४,३२.४६ ॥
संस्तवः क्रियतां कीर्त्या गुणैर्गगनगामिभिः ।
त्रायन्ते मृत्युनोपेतं न कदाचन भोगकाः ॥ ४,३२.४७ ॥
युष्माभिः । गगनगामिभिः गुणैः मैत्र्यादिगुणैः । उत्पन्नया कीर्त्या सह । संस्तवः परिचयः । क्रियताम् । ननु भोगैः सह संस्तवं त्यक्त्वा कीर्त्या सह किमर्थं कुर्म इत्य् । अत्राह त्रायन्त इति । ये तादृश्यां मरणावस्थायां नोपयुज्यन्ते किं तैः सह संस्तवेनेति भावः ॥ ४,३२.४७ ॥
गुणोत्पादितयशोयुक्तान् प्रशंसति
गायन्ति सिद्धसुन्दर्यो येषामिन्दुसितं यशः ।
गीतिभिर्गगनाभोगे ते जीवन्ति मृताः परे ॥ ४,३२.४८ ॥
परे प्रोक्तयशोरहिताः ॥ ४,३२.४८ ॥
ननु यदि प्रोक्तगुणार्जनेनापि न किञ्चित्सेत्स्यति तदा किं कार्यमित्य् । अत्राह
परमं पौरुषं यत्नमास्थायादाय सूद्यमम् ।
यथाशास्त्रमनुद्वेगमाचारात्को न सिद्धिभाक् ॥ ४,३२.४९ ॥
आचारात्गुणार्जनरूपाताचारात् ॥ ४,३२.४९ ॥
ननु यदा कदाचिन्मया गुणार्जने यत्नः कृत एव किं तेन सम्पन्नमित्य् । अत्राह
यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु ।
चिरकालपरापक्वा सिद्धिः पुष्टफला भवेत् ॥ ४,३२.५० ॥
स्पष्टम् ॥ ४,३२.५० ॥
फलितं कथयति
वीतशोकभयायासमगर्धमपयन्त्रणम् ।
व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम् ॥ ४,३२.५१ ॥
अगर्धं लोभरहितम् । अपयन्त्रणं बन्धनरहितम् ॥ ४,३२.५१ ॥
जीवो जीर्णान्धकूपेषु भवेष्वन्तर्धिमागतः ।
भवतां भूरिभङ्गानामधुनोद्ध्रियतामतः ॥ ४,३२.५२ ॥
भूरिभङ्गानां बहुनाशयुक्तानाम् । भवताम् । जीवः जीर्णान्धकूपेषु दुःखदत्वेन जीर्णान्धकूपरूपेषु । भवेषु । अन्तर्धिं गतः । क्षीण इति यावत् । भवति । अतः युष्माभिः अधुना सः जीवः उद्ध्रियताम् । अन्धकूपमग्नस्य हि उद्धरणमवश्यमेव कार्यमिति भावः ॥ ४,३२.५२ ॥
इतः प्रभृति मा भूयो गम्यतामधरादधः ।
इदं निर्धार्यतां शास्त्रमस्त्रमापन्निवारणे ॥ ४,३२.५३ ॥
युष्माभिः । इतः प्रभृति अस्मान्मदुपदेशात्प्रभृति । भूयः पुनः । अधरादधःस्थानाद् । अधः मा गम्यताम् । युष्माभिः । इदं मदुक्तम् । एतच्छास्त्रम् । निर्धार्यतां निश्चीयताम् । इदं किम् । आपन्निवारणे अस्त्रमस्त्रभूतमापन्निवारकमित्यर्थः ॥ ४,३२.५३ ॥
रणे रभसनिर्लूनवारणे प्राणमुज्झताम् ।
किमर्थमात्रया कार्यमार्याः शास्त्रमवेक्ष्यताम् ॥ ४,३२.५४ ॥
अर्थमात्रया धनलेशेन अर्थमात्रार्थम् । रणादिकार्यं त्यक्त्वा इदमेव शास्त्रमवेक्ष्यतामिति पिण्डार्थः ॥ ४,३२.५४ ॥
इदं बिम्बमिदं निम्बमिति मत्या विचार्यताम् ।
स्वया परप्रेरणया यात मा पशवो यथा ॥ ४,३२.५५ ॥
इदं बिम्बं बिम्बफलं भवति । इदं निम्बं निम्बफलं भवति । इति एवम् । स्वया मत्या बुद्ध्या । विचार्यताम् । परप्रेरणया मा यात मा गच्छत । के यथा । पशवो यथा । यथा पशवः परप्रेरणया यान्ति तथा यूयं मा यातेत्यर्थः ॥ ४,३२.५५ ॥
दौर्भाग्यदायिनी दीना शुभहीनाविचारणा ।
घनदीर्घमहानिद्रा त्यज्यतां सम्प्रबुध्यताम् ॥ ४,३२.५६ ॥
युष्माभिः । अविचारणा अविचाराख्या घनदीर्घा चासौ महानिद्रा । सा त्यज्यताम् । कथम्भूता सा । दौर्भाग्यदायिनी आशारूपदारिद्र्यदायिनी । तां त्यक्त्वा सम्प्रबुध्यताम् । युक्तश्च निद्रात्यागानन्तरं प्रबोधः ॥ ४,३२.५६ ॥
सुप्तैः मा स्थीयतां वृद्धमन्दकच्छपवच्छनैः ।
उत्थानमङ्गीक्रियतां जरामरणशान्तये ॥ ४,३२.५७ ॥
युष्माभिः । वृद्धमन्दकच्छपवत्सुप्तैः स्वात्मविचारे विमुखैः । मा स्थीयताम् । वृद्धमन्दकच्छपो हि सुप्तः तिष्ठति । शनैः क्रमेण । जरामरणशान्तये मोक्षाय । उत्थानमुद्योगः । अङ्गीक्रियतां निर्वाणमुख्योपायभूतं सच्छास्त्रविचारादि क्रियतामित्यर्थः ॥ ४,३२.५७ ॥
ननु सुखसाधनधनाद्यर्जनमपहाय किमर्थमन्यत्कुर्म इत्य् । अत्राह
अनर्थायार्थसम्पत्तिर्भोगौघो भवरोगदः ।
आपदे सम्पदः सर्वाः सर्वत्रानादरो जयः ॥ ४,३२.५८ ॥
अर्थसम्पत्तिः अनर्थाय दुःखाय भवति । अर्जनादौ क्लेशहेतुत्वात् । भोगौघः भवरोगदः भवति । रागाद्युत्पादकत्वात् । सम्पदः श्रियः । आपदे भवन्ति । तापकारिदर्पादिदोषोत्पादकत्वात् । सर्वत्र समस्ते धनादौ भावजाते । अनादरः त्यागादानव्यतिरिक्तस्वरूपा उपेक्षा । जयः भवति ॥ ४,३२.५८ ॥
लोकतन्त्रानुसारेण विचाराद्व्यवहारिणाम् ।
शास्त्राचाराविरुद्धेन कर्मणा शर्म सिध्यति ॥ ४,३२.५९ ॥
लोकतन्त्रानुसारेण लोकाचारानुसारेण । विचारातिति ल्यप्लोपे पञ्चमी । तेन विचारं कृत्वेत्यर्थः ॥ ४,३२.५९ ॥
सर्गान्तश्लोकेनाप्येतदेव कथयति
स्वाचारचारुचरितस्य विविक्तवृत्तेः
संसारदुःखलवसौख्यदशास्वगृध्नोः ।
आयुर्यशांसि च गुणाश्च सहैव लक्ष्म्या
फुल्लन्ति माधवलता इव सत्फलाय ॥ ४,३२.६० ॥
स्वाचारेण शोभनाचारेण । चारुचरितं यस्य । सः । तादृशस्य । विविक्ता विशिष्टा । वृत्तिः व्यापारो यस्य । सः । तादृशस्य । तथा दुःखलवरूपाः च ताः सौख्यदशाः दुःखलवसौख्यदशाः । संसारस्य याः दुःखलवसौख्यदशाः । तासु अगृध्नोः लोभरहितस्य पुरुषस्य । आयुः यशांसि गुणाश्चेत्येतानि वस्तूनि । लक्ष्म्या सहैव सत्फलाय मोक्षाख्याय शोभनाय फलाय । फुल्लन्ति विकसन्ति । मोक्षमुत्पादयन्तीत्यर्थः । एतानि वस्तूनि का इव । माधवलताः इव । यथा माधवलताः वसन्तलताः । सत्फलाय फुल्लन्ति । तथेत्यर्थः । इति शिवम् ॥ ४,३२.६० ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वात्रिंशः सर्गः ॥३२॥