मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ४
← सर्गः ३ | मोक्षोपायटीका/स्थितिप्रकरणम् भास्करकण्ठः |
सर्गः ५ → |
मोक्षोपायटीका/स्थितिप्रकरणम् |
---|
इन्द्रियग्रामसङ्ग्रामसेतुना भवसागरः ।
तीर्यते नेतरेणेह केनचिन्नाम कर्मणा ॥ ४,४.१ ॥
इन्द्रियग्रामेणेन्द्रियसमूहेन । यः सङ्ग्रामः । स एव सेतुः । तेन ॥ ४,४.१ ॥
शास्त्रसत्सङ्गमाभ्यासैः सविवेको जितेन्द्रियः ।
अत्यन्ताभावमेवास्य दृश्यौघस्यावगच्छति ॥ ४,४.२ ॥
अवगच्छति जानाति ॥ ४,४.२ ॥
एतत्ते कथितं सर्वं स्वरूपं रूपिणां वर ।
संसारसागरश्रेण्यो यथायान्ति प्रयान्ति च ॥ ४,४.३ ॥
हे रूपिणां वर । मया ते । अर्थात्संसारसागरश्रेणीनां सर्वं स्वरूपम् । कथितम् । तथा संसारसागरश्रेण्याः यथायान्ति प्रयान्ति च । तदपि कथितम् ॥ ४,४.३ ॥
बहुनात्र किमुक्तेन मनः कर्मद्रुमाङ्कुरम् ।
तस्मिंश्छिन्ने जगच्छाखश्छिन्नः कर्मतरुर्भवेत् ॥ ४,४.४ ॥
कर्मतरुः कथम्भूतः । जगन्त्येव शाखाः यस्य । सः । तादृशः ॥ ४,४.४ ॥
मनः सर्वमिदं राम तस्मिन्नन्तश्चिकित्सिते ।
चिकित्सितोऽयं सकलो जन्मजालमयो भवः ॥ ४,४.५ ॥
स्पष्टम् ॥ ४,४.५ ॥
तदेतज्जायते लोके मनो मललवाकुलम् ।
मनसो व्यतिरेकेण देहः क्व किल दृश्यते ॥ ४,४.६ ॥
जायते जगत्तया उत्पद्यते । मललवाकुलं सङ्कल्पाख्यमललेशाकुलम् ॥ ४,४.६ ॥
दृश्यात्यन्तासम्भवनमृते नान्येन हेतुना ।
मनःपिशाचः प्रशमं याति कल्पशतैरपि ॥ ४,४.७ ॥
दृश्यात्यन्तासम्भवनं दृश्यात्यन्ताभावम् ॥ ४,४.७ ॥
एतच्च सम्भवत्येव मनोव्याधिचिकित्सने ।
दृश्यात्यन्तासम्भवात्म परमौषधमुत्तमम् ॥ ४,४.८ ॥
मनोव्याधिचिकित्सने कार्ये । सम्भवत्येव प्रभवत्येव ॥ ४,४.८ ॥
मनो मोहमुपादत्ते म्रियते जायते पुनः ।
कस्यचित्तु प्रसादेन बध्यते मुच्यते पुनः ॥ ४,४.९ ॥
कस्यचिदनाख्यस्य चिन्मात्रस्य ॥ ४,४.९ ॥
स्फुरतीत्थं जगत्सर्वं चित्ते मननमन्थरे ।
शून्य एवाम्बरे स्फारे गन्धर्वाणां पुरं यथा ॥ ४,४.१० ॥
मननमन्थरे मननभरिते ॥ ४,४.१० ॥
मनसीदं जगत्कृत्स्नं स्फारं स्फुरति चास्ति च ।
पुष्पगुच्छ इवामोदस्तत्स्थस्तस्मादिवेतरः ॥ ४,४.११ ॥
स्फारं विस्तीर्णम् ॥ ४,४.११ ॥
यथा तिलकणे तैलं गुणो गुणिनि वा यथा ।
यथा धर्मिणि वा धर्मस्तथेदं मनसि स्थितम् ॥ ४,४.१२ ॥
स्पष्टम् ॥ ४,४.१२ ॥
यथाम्भसि तरङ्गौघ इन्दौ द्वीन्दुभ्रमो यथा ।
मृगतृष्णा यथा तापे संसारश्चित्तके तथा ॥ ४,४.१३ ॥
स्पष्टम् ॥ ४,४.१३ ॥
रश्मिजालं यथा सूर्ये यथालोकश्च तेजसि ।
यथौष्ण्यं चित्रभानौ च मनसीदं तथा जगत् ॥ ४,४.१४ ॥
स्पष्टम् ॥ ४,४.१४ ॥
शैत्यं यथैव तुहिने यथा नभसि शून्यता ।
यथा चञ्चलता वायौ मनसीदं तथा जगत् ॥ ४,४.१५ ॥
स्पष्टम् ॥ ४,४.१५ ॥
सर्गान्तश्लोकेनाप्येतदेव कथयति
मनो जगज्जगदखिलं तथा मनः
परस्परं त्वविरहितं सदैव हि ।
तयोर्द्वयोर्मनसि निरन्तरं क्षते
क्षतं जगन्न तु जगति क्षते मनः ॥ ४,४.१६ ॥
निरन्तरमतिशयेन । तयोः द्वयोरिति निर्धारणे षष्ठी । तस्मान्मन एव सम्यग्ज्ञानाद्युपायेन नाशनीयमिति भावः । इति शिवम् ॥ ४,४.१६ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे चतुर्थः सर्गः ॥४॥