सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः ३/उशनाः(आभाति)

विकिस्रोतः तः


आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।
अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥ १७५२ ॥ ऋ. ५.७६.१
न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥ १७५३ ॥
उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।
दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥ १७५४ ॥


१०. उशनाः। त्रिष्टुप् । अश्विनौ ॥

आभा ॥ तियग्निरुषसाम् । अनाऽ३इकाम् । उद्विप्राणाम् । देऽ३वयाः । वाचोअस्थूः । अर्वाञ्चानूनꣲरथ्ये । हयाऽ२३ताम् ॥ पीपिवाꣲसाम् ॥ अश्विना । घाऽ३४३ । माऽ३माऽ५"च्छाऽ६५६ ॥ श्रीः ॥ नासाम् ॥ कृतंप्रमिमीतो। गमाऽ३इष्ठा । अन्तिनूनाम् । अश्विनो। पस्तुतेहा । दिवाभिपित्वेवसा । गमाऽ२३इष्ठा ॥ प्रत्यवर्ताइम् ॥ दाशुषे । शाऽ३४३म् । भाऽश्वाऽ५इ"ष्ठाऽ६५६ ॥श्रीः।। ऊता ॥ यातꣲसङ्गवेप्रा । तराऽह्नाः । मध्यन्दिनाइ । उदिता । सूरियस्या। दिवानक्तमवसाशा । तमेऽ२३ना ॥ नेदानींपाइ ॥ तिरश्चि। नाऽ३४३। ताऽ३ताऽ५"नाऽ६५६॥

दी. २४. उ. ११. मा. २०. तौ. ॥७२८॥

[सम्पाद्यताम्]

टिप्पणी

औशनम्(प्रतुद्र) दश. १. ४ प्रतुद्रव स्वायुधःप ऋषिर्विप्रः

औशनम्(प्रेष्ठंवो) दश. ९.११ प्रेष्ठंवोअति कविमिवप्र त्वंयविष्ठ

औशनम्(इनोरा) एका. २.२० इनोराजन् कृष्णांयदेनीम् भद्रोभद्रया

औशनम्(आजागृ) अही. ८. ५ आजागृविः सपुनानः सवर्द्धिता

औशनम्(साकमु) सत्र. २. ४ साकमुक्षः संमातृभिः उतप्रपि

औशनानि(अबोधि) सत्र ३ . ८ अबोध्यग्निः अबोधिहोता यदींगणस्य

औशनम्(इदंश्रे) सत्र ३. ९ इदंश्रेष्ठम् रुशद्वत्सा समानोअध्वा

औशनम्(आभाति) सत्र ३. १० आभात्यग्निः नसंस्कृतम् उतायातम्

औशनम् ,, ५.१० तिस्रोवाचः अभिब्रह्मीः रायस्समु ५२४