सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.1 प्रथमप्रपाठकः/2.1.2 द्वितीयोऽर्द्धः

विकिस्रोतः तः
Jump to navigation Jump to search

2.1.2 (713-774)

पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनां ७१३ ॥

पुरुहूतं पुरुष्टुतं गाथान्या३ं सनश्रुतं ।
इन्द्र इति ब्रवीतन ॥ ७१४ ॥

इन्द्र इन्नो महोनां दाता वाजानां नृतुः ।
महां अभिज्ञ्वा यमत् ॥७१५ ॥

वैतहव्यमोकोनिधनम्



प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
सखायः सोमपाव्ने ॥ ७१६ ॥

शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः ।
चकृमा सत्यराधसे ॥ ७१७ ॥

त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।
त्वं हिरण्ययुर्वसो ॥ ७१८ ॥

शाक्त्यम्



वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर्जरन्ते ॥ ७१९ ॥

न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।
तवेदु स्तोमैश्चिकेत ॥ ७२० ॥

इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादमतन्द्राः ॥ ७२१ ॥

काण्वम्



इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।
अर्कमर्च्चन्तु कारवः ॥ ७२२ ॥

यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
इन्द्रं सुते हवामहे ॥ ७२३ ॥

त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
तमिद्वर्धन्तु नो गिरः ॥ ७२४ ॥

श्रौतकक्षम्


अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीमस्य द्रवा पिब ॥ ७२५ ॥

शाचिगो शाचिपूजनायं रणाय ते सुतः ।
आखण्डल प्र हूयसे ॥ ७२६ ॥

यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः ।
न्यस्मिं दध्र आ मनः ॥ ७२७ ॥

इहवद्दैवोदासम्



आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
महाहस्ति दक्षिणेन ॥ ७२८ ॥

विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघं ।
तुविमात्रमवोभिः ॥ ७२९ ॥

न हि त्वा शूर देवा न मर्तासो दित्सन्तं ।
भीमं न गां वारयन्ते ॥ ७३० ॥

आकूपारम्



अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
तृम्पा व्यश्नुही मदं ॥ ७३१ ॥

मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
मा कीं ब्रह्मद्विषं वनः ॥ ७३२ ॥

इह त्वा गोपरीणसं महे मन्दन्तु राधसे ।
सरो गौरो यथा पिब ॥ ७३३ ॥

आर्षभम्



इदं वसो सुतमन्धः पिबा सुपूर्णमुदरं ।
अनाभयिन्ररिमा ते ॥ ७३४ ॥

नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः ।
अश्वो न निक्तो नदीषु ॥ ७३५ ॥

तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
इन्द्र त्वास्मिंत्सधमादे ॥ ७३६ ॥

गारम्



इदं ह्यन्वोजसा सुतं राधानां पते ।
पिबा त्वा३स्य गिर्वणः ॥ ७३७ ॥

यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वं ।
स त्वा ममत्तु सोम्यं ॥ ७३८ ॥

प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
प्र बाहू शूर राधसा ॥ ७३९ ॥

घृतश्चुन्निधनम्


१०
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥ ७४० ॥

पुरूतमं पुरूणामीशानं वार्याणां ।
इन्द्रं सोमे सचा सुते ॥ ७४१ ॥

स घा नो योग आ भुवत्स राये स पुरन्ध्या ।
गमद्वाजेभिरा स नः ॥ ७४२ ॥

११
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥ ७४३ ॥

अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरं ।
यं ते पूर्वं पिता हुवे ॥ ७४४ ॥

आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
वाजेभिरुप नो हवं ॥ ७४५ ॥

सौमेधम्


१२
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यं ।
विदे वृधस्य दक्षस्य महां हि षः ॥ ७४६ ॥

स प्रथमे व्योमनि देवानां सदने वृधः ।
सुपारः सुश्रवस्तमः समप्सुजित् ॥७४७ ॥

तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणं ।
भवा नः सुम्ने अन्तमः सखा वृधे ॥ ७४८ ॥

कौत्सम्


१३
एना वो अग्निं नमसोर्जो नपातमा हुवे ।
प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतं ॥ ७४९ ॥

स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानां ॥ ७५० ॥

वसिष्ठः


१४
प्रत्यु अदर्श्यायत्यू३च्छन्ती दुहिता दिवः ।
अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥ ७५१ ॥

उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् ।
तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥ ७५२ ॥

वसिष्ठः

१५
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।
अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥ ७५३ ॥

युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते ।
अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥ ७५४ ॥

वसिष्ठः


१६
अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
पयः सहस्रसामृषिं ॥ ७५५ ॥

अयं सूर्य इवोपदृगयं सरांसि धावति ।
सप्त प्रवत आ दिवं ॥ ७५६ ॥

अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
सोमो देवो न सूर्यः ॥ ७५७ ॥

ऋषभः पवमानः


१७
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
हरिः पवित्रे अर्षति ॥ ७५८ ॥

एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।
कविर्विप्रेण वावृधे ॥ ७५९ ॥

दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे ।
क्रन्दं देवां अजीजनः ॥ ७६० ॥

१८
उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे ।
पवमान विदा रयिं ॥ ७६१ ॥

उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
इन्दुं देवा अयासिषुः ॥ ७६२ ॥

उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवां इयक्षते ॥ ७६३ ॥

१९
प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः ।
वनानि महिषा इव ॥ ७६४ ॥

अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।
वाजं गोमन्तमक्षरन् ॥७६५ ॥

सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्तु विष्णवे ॥ ७६६ ॥

सोमसाम


२०
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतं ॥ ७६७ ॥

आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।
तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥ ७६८ ॥

यौधाजयम्


२१
प्र सोमासो मदच्युतः श्रवसे नो मघोनां ।
सुता विदथे अक्रमुः ॥ ७६९ ॥

आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिं ।
अत्यो न गोभिरज्यते ॥ ७७० ॥

आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥ ७७१ ॥

२२
अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः ।
मधोर्धारा असृक्षत ॥ ७७२ ॥

पवते हर्यतो हरिरति ह्वरांसि रंह्या ।
अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥ ७७३ ॥

प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः ।
अप श्वानमराधसं हता मखं न भृगवः ॥ ७७४ ॥

सफम्
आक्षारम्
गौरीवितम्
गौतमम्

पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत। वि꣣श्वासा꣡ह꣢ श꣣त꣡क्र꣢तुं꣣ म꣡हि꣢ष्ठं चर्षणी꣣ना꣢म् ।। 1।। 713
पु꣣रुहूतं꣡ पु꣢रुष्टु꣣तं꣡ गा꣢था꣣न्या꣢꣣ऽ स꣡न꣢श्रुतम्। इ꣢न्द्र꣣ इ꣡ति꣢ ब्रवीतन ।।2 ।।
इ꣢न्द्र꣣ इ꣡न्नो꣢ म꣣हो꣡नां꣢ दा꣣ता꣡ वाजा꣢꣯नां नृ꣣तुः꣢। म꣣हा꣡अ꣢भि꣣ज्ञ्वा꣡ य꣢मत् ।।3 ।। ।।1(वा)।। 715
प्र꣢ व꣣ इ꣡न्द्रा꣢य꣣ मा꣡द꣢न꣣ ह꣡र्य꣢श्वाय गायत। स꣡खा꣢यः सोम꣣पा꣡व्ने꣢ ।।1 ।।
श꣢꣫सेदु꣣क्थ꣢ सु꣣दा꣡न꣢व उ꣣त꣢ द्यु꣣क्षं꣢꣫ यथा꣣ न꣡रः꣢। च꣣कृमा꣢ स꣣त्य꣡रा꣢धसे ।।2 ।।
त्वं꣡ न इ꣢न्द्र वाज꣣यु꣢꣫स्त्वं ग꣣व्युः꣡ श꣢तक्रतो। त्व꣡हि꣢रण्य꣣यु꣡र्व꣢सो ।। 3।। ।।2(गौ)।।
व꣣य꣡मु꣢ त्वा त꣣दि꣡द꣢र्था꣣ इ꣡न्द्र꣢ त्वा꣣य꣢न्तः꣣ स꣡खा꣢यः। क꣡ण्वा꣢ उ꣣क्थे꣡भि꣢र्जरन्ते ।।1 ।।
न꣡ घे꣢म꣣न्य꣡दा प꣢꣯पन꣣ व꣡ज्रि꣢न्न꣣प꣢सो꣣ न꣡वि꣢ष्टौ। त꣢꣫वेदु꣣ स्तो꣡मै꣢श्चिकेत ।।2 ।। 720
इ꣣च्छ꣡न्ति꣢ दे꣣वाः꣢ सु꣣न्व꣢न्तं꣣ न꣡ स्वप्ना꣢꣯य स्पृहयन्ति। य꣡न्ति꣢ प्र꣣मा꣢द꣣म꣡त꣢न्द्राः ।।3 ।। ।।3(पा)।।
इ꣡न्द्रा꣢य꣣ म꣡द्व꣢ने सु꣣तं꣡ परि꣢꣯ ष्टोभन्तु नो꣣ गि꣡रः꣢। अ꣣र्क꣡म꣢र्चन्तु का꣣र꣡वः꣢ ।।1 ।।
य꣢स्मि꣣न्वि꣢श्वा꣣ अ꣢धि꣣ श्रि꣢यो꣣ र꣡ण꣢न्ति स꣣प्त꣢ स꣣स꣡दः꣢। इ꣡न्द्र꣢ सु꣣ते꣡ ह꣢वामहे ।। 2 ।।
त्रि꣡क꣢द्रुकेषु꣣ चे꣡त꣢नं दे꣣वा꣡सो꣢ य꣣ज्ञ꣡म꣢त्नत। त꣡मिद्व꣢꣯र्धन्तु नो꣣ गि꣡रः꣢ ।।3 ।। ।।4(ला)।।
अ꣣यं꣡ त꣢ इन्द्र꣣ सो꣢मो꣣ नि꣡पू꣢तो꣣ अ꣡धि꣢ ब꣣र्हि꣡षि꣢। ए꣡ही꣢म꣣स्य꣢꣫ द्रवा꣣ पि꣡ब꣢ ।।1 ।।
शा꣡चि꣢गो꣣ शा꣡चि꣢पूजना꣣य꣡रणा꣢꣯य ते सु꣣तः꣢। आ꣡ख꣢ण्डल꣣ प्र꣡ हू꣢यसे ।।2 ।।
य꣡स्ते꣢ शृङ्गवृषो णपा꣣त्प्र꣡ण꣢पात्कुण्ड꣣पा꣡य्यः꣢। न्य꣢꣯स्मिं दध्र꣣ आ꣡ मनः꣢꣯ ।।3 ।। ।।5(दि)।।
आ꣡ तू न꣢꣯ इन्द्र क्षु꣣म꣡न्तं꣢ चि꣣त्रं꣢ ग्रा꣣भ꣡ सं गृ꣢꣯भाय। म꣣हाहस्ती꣡ दक्षि꣢꣯णेन ।।1 ।।
वि꣣द्मा꣡ हि त्वा꣢꣯ तुविकू꣣र्मिं꣢ तु꣣वि꣡दे꣢ष्णं तु꣣वी꣡म꣢घम्। तु꣣विमात्र꣡मवो꣢꣯भिः ।।2 ।।
न꣡ हि त्वा꣢꣯ शूर दे꣣वा꣡ न मर्तो꣢꣯सो꣣ दि꣡त्स꣢न्तम्। भी꣣मं꣢꣫ न गां वा꣣र꣡य꣢न्ते ।।3 ।। ।।6(के)।। 730
अ꣣भि꣡ त्वा꣢ वृषभा सु꣣ते꣢ सु꣣त꣡सृ꣢जामि पी꣣त꣡ये꣢। तृ꣣म्पा꣡ व्य꣢श्नुही꣣ म꣡द꣢म् ।।1 ।।
मा꣡ त्वा꣢ मू꣣रा꣡ अ꣢वि꣣ष्य꣢वो꣣ मो꣢प꣣ह꣡स्वा꣢न꣣ आ꣡ द꣢भन्। मा꣡ कीं꣢ ब्रह्म꣣द्वि꣡षं꣢ वनः ।।2 ।।
इ꣣ह꣢ त्वा꣣ गो꣡प꣢रीणसं म꣣हे꣡ म꣢न्दन्तु꣣ रा꣡ध꣢से। स꣡रो꣢ गौ꣣रो꣡ यथा꣢꣯ पिब ।।3 ।। ।।7(या)।।
इ꣣दं꣡ व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म्। अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ।।1 ।।
नृ꣡भि꣢र्धौ꣣तः꣢ सु꣣तो꣢꣫ अश्नै꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢पूतः। अ꣢श्वो꣣ न꣢
नि꣣क्तो꣢ न꣣दी꣡षु꣢ ।।2 ।।
तं꣢ ते꣣ य꣢वं꣣ य꣢था꣣ गो꣡भिः꣢ स्वा꣣दु꣡म꣢कर्म श्री꣣ण꣡न्तः꣢। इ꣡न्द्र꣢ त्वा꣣स्मिं꣡त्स꣢ध꣣मा꣡दे꣢ ।।3 ।। ।।8(थौ)।।
इ꣣द꣡ह्यन्वोज꣢꣯सा सु꣣त꣡रा꣢धानां पते। पि꣢बा꣣ त्वा꣢3स्य꣡ गि꣢र्वणः ।।1 ।।
य꣢स्ते꣣ अ꣡नु꣢ स्व꣣धा꣡मस꣢꣯त्सु꣣ते꣡ नि य꣢꣯च्छ त꣣꣬न्व꣢꣯म्। स꣡ त्वा꣢ ममत्तु सोम्य ।।2 ।।
प्र꣡ ते꣢ अश्नोतु कु꣣क्ष्योः꣢꣫ प्रेन्द्र꣣ ब्र꣡ह्म꣢णा꣣ शि꣡रः꣢। प्र꣢ बा꣣हू꣡ शू꣢र꣣ रा꣡ध꣢सा ।।3 ।। ।।9(पी)।।
आ꣢꣫ त्वेता꣣ नि꣡ षी꣢द꣣ते꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत। स꣡खा꣢य꣣ स्तो꣡म꣢वाहसः ।।1 ।। 740
पु꣣रूत꣡मं꣢ पुरू꣣णा꣡मीशा꣢꣯नं꣣ वा꣡र्या꣢णाम्। इ꣢न्द्र꣣ सो꣢मे꣣ स꣡चा꣢ सु꣣ते꣢ ।।2 ।।
स꣡ घा꣢ नो꣣ यो꣢ग꣣ आ꣡ भु꣢व꣣त्स꣢ रा꣣ये꣡ स पुर꣢꣯न्ध्या। ग꣢म꣣द्वा꣡जे꣢भि꣣रा꣡ स नः꣢꣯ ।।3 ।। ।।10(टी)।।
यो꣡गे꣢योगे त꣣व꣡स्त꣢रं꣣ वा꣡जे꣢वाजे हवामहे। स꣡खा꣢य꣣ इ꣡न्द्र꣢मू꣣त꣡ये꣢ ।।1 ।।
अ꣡नु꣢ प्र꣣त्न꣡स्यौक꣢꣯सो हु꣣वे꣡ तु꣢विप्र꣣तिं꣡ नर꣢꣯म्। यं꣢ ते꣣ पू꣡र्वं꣢ पि꣣ता꣢ हु꣣वे꣢ ।।2 ।।
आ꣡ घा꣢ गम꣣द्य꣢दि꣣ श्र꣡व꣢त्सह꣣स्रि꣡णी꣢भिरू꣣ति꣡भिः꣢। वा꣡जे꣢भि꣣रु꣡प꣢ नो꣣ ह꣡व꣢म् ।।3 ।। ।।11(ला)।।
इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣢मे꣣षु꣢ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म्। वि꣣दे꣢ वृ꣣ध꣢स्य꣣
द꣡क्ष꣢स्य म꣣हा꣢हि षः ।।1 ।।
स꣡ प्र꣢थ꣣मे꣡ व्यो꣢मनि दे꣣वा꣢ना꣣ स꣡द꣢ने वृ꣣धः꣢। सु꣣पारः꣢ सु꣣श्र꣡व꣢स्तमः꣣ स꣡म꣢प्सु꣣जि꣢त् ।।2 ।।
त꣡मु꣢ हुवे꣣ वा꣡ज꣢सातय꣣ इ꣢न्द्रं꣣ भ꣡रा꣢य शु꣣ष्मि꣡ण꣢म्। भ꣡वा꣢ नः सु꣣म्ने꣡ अन्त꣢꣯मः꣣ स꣡खा꣢ वृ꣣धे꣢ ।।3 ।। ।।12(वा)।।
ए꣣ना꣡ वो꣢ अ꣣ग्निं꣡ नम꣢꣯सो꣣र्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे। प्रि꣣यं꣡ चेति꣢꣯ष्ठमर꣣ति꣡ स्व꣢ध्व꣣रं꣡ विश्व꣢꣯स्य दू꣣त꣢म꣣मृ꣡त꣢म् ।।1 ।।
स꣡ यो꣢जते अरु꣣षा꣢ वि꣣श्व꣡भो꣢जसा꣣ स꣡ दु꣢द्रव꣣꣬त्स्वा꣢꣯हुतः । सु꣣ब्र꣡ह्मा꣢ य꣣ज्ञः꣢ सु꣣श꣢मी꣣ व꣡सू꣢नां दे꣣व꣢꣫राधो꣣ ज꣡ना꣢नाम् ।।2 ।। ।।13(तु)।। 750
प्र꣡त्यु꣢ अदर्श्याय꣣त्यू꣢꣣ऽ.च्छ꣡न्ती꣢ दुहि꣣ता꣢ दि꣣वः꣢। अ꣡पो꣢ म꣣ही꣡ वृ꣢णुते꣣ च꣡क्षु꣢षा꣣ त꣢मो꣣ ज्यो꣡ति꣢ष्कृणोति सूनरी ।।1 ।।
उ꣢दु꣣स्रि꣡याः꣢ सृजते꣣ सू꣢र्यः꣣ स꣡चा꣢ उ꣣द्य꣡न्नक्ष꣢꣯त्रमर्चि꣢व꣣त्। त꣡वेदु꣢꣯षो꣣ व्यु꣢षि꣣ सू꣡र्य꣢स्य च꣣ सं꣢ भ꣣क्ते꣡न꣢ गमेमहि ।।2 ।। ।।14(वा)।।
इ꣣मा꣡ उ꣢ वां꣣ दि꣡वि꣢ष्टय उ꣣स्रा꣡ ह꣢वन्ते अश्विना। अ꣣यं꣡ वा꣢म꣣ह्वे꣡ऽव꣢से शचीवसू꣣ वि꣡शं꣢विश꣣ हि꣡ गच्छ꣢꣯थः ।।1 ।।
यु꣣वं꣢ चि꣣त्रं꣡ द꣢दथु꣣र्भो꣡ज꣢नं नरा꣣ चो꣡दे꣢था सू꣣नृ꣡ता꣢वते। अ꣣र्वा꣢꣫ग्रथ꣣ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतं꣣ पि꣡ब꣢त सो꣣म्यं꣡ मधु꣢꣯ ।।2 ।। ।।15(चा)।।
अ꣣स्य꣢ प्र꣣त्ना꣢꣫मनु꣣ द्यु꣡त꣢ शु꣣क्रं꣡ दु꣢दुह्रे꣣ अ꣡ह्र꣢यः। प꣡यः꣢ सहस्र꣣सा꣡मृषि꣢꣯म् ।।1 ।।
अ꣣य꣡ सूर्य꣢꣯ इवोप꣣दृ꣢ग꣣य꣡ सरा꣢꣯सि धावति। स꣣प्त꣢ प्र꣣व꣢त꣣ आ꣡ दिव꣢꣯म् ।।2 ।।
अ꣣यं꣡ विश्वा꣢꣯नि तिष्ठति पुना꣣नो꣡ भुव꣢꣯नो꣣प꣡रि꣢। सो꣡मो꣢ दे꣣वो꣡ न सूर्यः꣢꣯
।।3 ।। ।।16(ते)।।
ए꣣ष꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢। ह꣡रिः꣢ प꣣वि꣡त्रे꣢ अर्षति ।।1 ।।
ए꣣ष꣢ प्र꣣त्ने꣢न꣣ म꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣢भ्य꣣स्प꣡रि꣢। क꣣वि꣡र्विप्रे꣢꣯ण वावृधे ।।2 ।।
दु꣣हानः꣢ प्र꣣त्न꣡मित्पयः꣢꣯ प꣣वि꣢त्रे꣣ प꣡रि꣢ षिच्यसे। क्र꣡न्दं꣢ दे꣣वा꣡ अ꣢जीजनः ।।3 ।। ।।17(हा)।। 760
उ꣡प꣢ शिक्षापत꣣स्थु꣡षो꣢ भि꣣य꣢स꣣मा꣡ धे꣢हि꣣ श꣡त्र꣢वे। प꣡व꣢मान वि꣣दा꣢ र꣣यि꣢म् ।।1 ।।
उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ (गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषु) ।।2 ।।
उ꣡पा꣢स्मै गायता नरः꣣ (पवमानायेन्दवे)।।3 ।। ।।18(वौ)।।
प्र꣡ सोमा꣢꣯सो विप꣣श्चि꣢तो꣣ऽपो꣡ न꣢यन्त ऊ꣣र्म꣡यः꣢। व꣡ना꣢नि महि꣣षा꣡ इ꣢व ।।1 ।।
अ꣣भि꣡ द्रोणा꣢꣯नि ब꣣भ्र꣡वः꣢ शु꣣क्रा꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या। वा꣢जं꣣ गो꣡म꣢न्तमक्षरन् ।।2 ।।
सु꣣ता꣡ इन्द्रा꣢꣯य वा꣣य꣢वे꣣ व꣡रु꣢णाय म꣣रु꣡द्भ्यः꣢। सो꣡मा꣢ अर्षन्तु꣣ वि꣡ष्ण꣢वे ।।3 ।। ।।19(वि)।।
प्र꣡ सो꣢म दे꣣व꣡वी꣢तये꣣ सि꣢न्धु꣣र्न꣡ पि꣢प्ये꣣ अ꣡र्ण꣢सा। अ꣣शोः꣡ पय꣢꣯सा मदि꣣रो꣡ न जागृ꣢꣯वि꣣र꣢च्छा꣣ को꣡शं꣢ मधु꣣श्चु꣡त꣢म् ।।1 ।।
आ꣡ ह꣢र्य꣣तो꣡ अर्जु꣢꣯नो꣣ अ꣡त्के꣢ अव्यत प्रि꣣यः꣢ सू꣣नु꣡र्न मर्ज्यः꣢꣯। त꣡मी꣢ हिन्वन्त्य꣣प꣢सो꣣ य꣢था꣣ र꣡थं꣢ न꣣दी꣡ष्वा गभ꣢꣯स्त्योः ।।2 ।। ।।20 (रु)।।
प्र꣡ सोमा꣢꣯सो मद꣣च्यु꣢तः꣣ श्र꣡व꣢से नो म꣣घो꣡ना꣢म्। सु꣣ता꣢ वि꣣द꣡थे꣢ अक्रमुः ।।1 ।।
आ꣡दी꣢ ह꣣सो꣡ यथा꣢꣯ ग꣣णं꣡ विश्व꣢꣯स्यावीवशन्म꣣ति꣢म्। अ꣢त्यो꣣ न꣡ गोभि꣢꣯रज्यते ।।2 ।। 770
आ꣡दी꣢ त्रि꣣त꣢स्य꣣ यो꣡ष꣢णो꣣ ह꣡रि꣢ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ।।3 ।। ।।21(ली)।।
अ꣣या꣡ प꣢वस्व देव꣣यु꣡ रेभ꣢꣯न्प꣣वि꣢त्रं꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢। म꣢धो꣣र्धा꣡रा꣢ असृक्षत ।।1 ।।
प꣡व꣢ते हर्य꣣तो हरिः꣢꣯ (रति ह्वरासि रह्या। अभ्यर्ष स्तोतृभ्यो वीरवद्यशः)*।।2 ।।
प्र꣡ सु꣢न्वा꣣ना꣡स्यान्ध꣢꣯सोः (मर्तो न वष्ट तद्वचः। अप श्वानमराधसँ हता मखं न भृगवः)*।।3 ।। ।।22(लि)।। 774