प्रबोधसुधाकरः/लिङ्गदेहादिनिरूपणप्रकरणम्

विकिस्रोतः तः
(लिङ्गदेहादिनिरूपणप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
  1. देहनिन्दाप्रकरणम्
  2. विषयनिन्दाप्रकरणम्
  3. मनोनिन्दाप्रकरणम्
  4. विषयनिग्रहप्रकरणम्
  5. मनोनिग्रहप्रकरणम्
  6. वैराग्यप्रकरणम्
  7. आत्मसिद्धिप्रकरणम्
  8. मायासिद्धिप्रकरणम्
  9. लिङ्गदेहादिनिरूपणप्रकरणम्
  10. अद्वैतप्रकरणम्
  11. कर्तृत्वभोक्तृत्वप्रकरणम्
  12. स्वप्रकाशताप्रकरणम्
  13. नादानुसन्धानप्रकरणम्
  14. मनोलयप्रकरणम्
  15. प्रबोधप्रकरणम्
  16. द्विधाभक्तिप्रकरणम्
  17. ध्यानविधिप्रकरणम्
  18. सगुणनिर्गुणयोरैक्यप्रकरणम्
  19. आनुग्रहिकप्रकरणम्

स्थूलशरीरस्यान्तर्लिङ्गशरीरं च तस्यान्तः ।
कारणमस्याप्यन्तस्ततो महाकारणं तुर्यम् ॥ ११०॥

स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः ।
अङ्गुष्ठमात्रः पुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ॥ १११॥

सूक्ष्माणि महाभूतान्यसवः पञ्चेन्द्रियाणि पञ्चैव ।
षोडषमन्तःकरणं तत्सङ्घातो हि लिङ्गतनुः ॥ ११२॥

तत्कारणं स्मृतं यत्तस्यान्तर्वासनाजालम् ।
तस्य प्रवृत्तिहेतुर्बुद्ध्याश्रयमत्र तुर्यं स्यात् ॥ ११३॥

तत्सारभूतबुद्धो यत्प्रतिफलितं तु शुद्धचैतन्यम् ।
जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि ॥ ११४॥

चरतरतरङ्गसङ्गात्प्रतिबिम्बं भास्करस्य च चलं
स्यात् ।
अस्ति तथा चञ्चलता चैतन्ये चित्तचाञ्चल्यात् ॥ ११५॥

नन्वर्कप्रतिबिम्बः सलिलादिषुयः स चावभासयति ।
किमितरपदार्थनिवहं प्रतिबिम्बोऽप्यात्मनस्तद्वत् ॥ ११६॥

प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु ।
तदनु प्रविष्टमन्तर्गृहमन्यार्थान्प्रकाशयति ॥ ११७॥

चित्प्रतिबिम्बस्तद्वद्बुद्धिषु यो जीवतां प्राप्तः ।
नेत्रादीन्द्रियमार्गैर्बहिरर्थान्सोऽवभासयति ॥ ११८॥