प्रबोधसुधाकरः/आत्मसिद्धिप्रकरणम्
उत्पन्नेऽपि विरागे विना प्रबोधं सुखं न स्यात् ।
स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम् ॥ ८६॥
यद्यपि जलधेरुदकं यद्यपि वा प्रेरकोऽनिलस्तत्र ।
तदपि पिपासाकुलितः प्रतीक्षते चातको मेघम् ॥ ८७॥
त्रेधा प्रतीतिरुक्ता शास्त्राद्गुरुतस्तथात्मनस्तत्र ।
शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति ॥ ८८॥
अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शनं यद्वत् ।
आत्मप्रतीतिरस्माद्गुडभक्षणजं सुखं यद्वत् ॥ ८९॥
रसगन्धरूपशब्दस्पर्शा अन्ये पदार्थाश्च ।
कस्मादनुभूयन्ते नो देहान्नेन्द्रियग्रामात् ॥ ९०॥
मृतदेहेन्द्रियवर्गो यतो न जानाति दाहजं दुःखम् ।
प्राणश्चेन्निद्रायां तस्करबाधां स किं वेत्ति ॥ ९१॥
मनसो यदि वा विषयस्तद्युगपत्किं न जानाति ।
तस्य पराधीनत्वाद्यतः प्रमादस्य कस्त्राता ॥ ९२॥
गाढध्वान्तगृहान्ततः क्षितितले दीपं निधायोज्ज्वलं
पञ्चच्छिद्रमधोमुखं हि कलशं तस्योपरि स्थापयेत् ।
तद्बाह्ये परितोऽनुरन्ध्रममलां वीणां च कस्तूरिकां
सद्रत्नं व्यजनं न्यसेच्च
कलशच्छिद्राध्वनिर्गच्छताम् ॥ ९३॥
तेजोंशेन पृथक्पदार्थनिवहज्ञानं हि यज्जायते
तद्रन्ध्रैः कलशेन वा किमु मृदो भाण्डेन तैलेन वा ।
किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्षबाधादतो
दीपज्योतिरिहैकमेव शरणं देहे तथात्मा स्थितः ॥ ९४॥