प्रबोधसुधाकरः/देहनिन्दाप्रकरणम्
नित्यानन्दैकरसं सच्चिन्मात्रं स्वयञ्ज्योतिः ।
पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् ॥ १॥
यं वर्णयितुं साक्षाच्छृतिरपि मूकेव मौनमाचरति ।
सोऽस्माकं मनुजानां किं वाचां गोचरो भवति ॥ २॥
यद्यप्येवं विदितं तथापि परिभाषितो भवेदेव ।
अध्यात्मशास्त्रसारैर्हरिचिन्तनकीर्तनाभ्यासैः ॥ ३॥
क्लृप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः ।
पुंसो विना विरागं मुक्तेरधिकारिता न स्यात् ॥ ४॥
वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् ।
मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता ॥ ५॥
सा चाहंममताभ्यां प्रच्छन्ना सर्वदेहेषु ।
तत्राहन्ता देहे ममता भार्यादिविषयेषु ॥ ६॥
देहः किमात्मकोऽयं कः सम्बन्धोऽस्य वा विषयैः ।
एवं विचार्यमाणेऽहन्ताममते निवर्तेते ॥ ७॥
स्त्रीपुंसोः संयोगात्सम्पाते शुक्रशोणितयोः ।
प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते ॥ ८॥
मातृगुरूदरदर्यां कफमूत्रपुरीषपूर्णायाम् ।
जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः ॥ ९॥
दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति ।
शस्त्रैर्विखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात् ॥ १०॥
अथवा यन्त्रच्छिद्राद्यद तु निःसार्यते प्रबलैः ।
प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११॥
आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्रैः ।
जन्मान्तरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२॥
नरपशुविहङ्गतिर्यग्योनीनां चतुरशीतिलक्षाणाम् ।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते ॥ १३॥
चरमस्तत्र नृदेहस्तत्रोज्जन्मान्वयोत्पत्तिः ।
स्वकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि ॥ १४॥
आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम् ।
एवं सति स्वमायुः प्राज्ञैरपि नीयते मिथ्या ॥ १५॥
आयुःक्षणलवमात्रं न लभ्यते हेमकोटिभिः क्वापि ।
तच्चेद्गच्छति सर्वं मृषा ततः काधिका हानिः ॥ १६॥
नरदेहातिक्रमणात्प्राप्तौ पश्वादिदेहानाम् ।
स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता ॥ १७॥
सततं प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः ।
हा कष्टं क्षुत्कामैः श्रान्तैर्नो शक्यते वक्तुम् ॥ १८॥
रुधिरत्रिधातुमज्जामेदोमांसास्थिसंहतिर्देहः ।
स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकैः ॥ १९॥
नासाग्राद्वदनादवा कफं मलं पायुतो विसृजन् ।
स्वयमेवैति जुगुप्सामन्तः प्रसृतं च नो वेत्ति ॥ २०॥
पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति ।
नो पश्यति निजदेहं चास्थिसहस्रावृतं परितः ॥ २१॥
केशावधि नखराग्रादिदमन्तः पूतिगन्धसम्पूर्णम् ।
बहिरपि चागरुचन्दनकर्पूराद्यैर्विलेपयति ॥ २२॥
यत्नादस्य पिधत्ते स्वाभाविकदोषसङ्घातम् ।
औपाधिकगुणनिवहं प्रकाशयञ्श्लाघते मूढः ॥ २३॥
क्षतमुतन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम् ।
तत्रोत्पतन्ति बहवः क्रिमयो दुर्गन्धसङ्कीर्णाः ॥ २४॥
यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे ।
सम्प्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ ॥ २५॥
सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् ।
तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति ॥ २६॥
एवंविधोऽतिमलिनो देहो यत्सत्तया चलति ।
तं विस्मृत्य परेशं वहत्यहन्तामनित्येऽस्मिन् ॥ २७॥
क्वात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः ।
इति यो लज्जति धीमानितरशरीरं स किं मनुते ॥ २८॥