प्रबोधसुधाकरः/ध्यानविधिप्रकरणम्
यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये ।
कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य ॥ १८४॥
तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्वम् ।
पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङ्गम् ॥ १८५॥
आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् ।
मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥ १८५॥
वलयाङ्गुलीयकाद्यानुज्ज्वलयन्तं स्वलङ्कारान् ।
गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥ १८७॥
गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि ।
भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥ १८८॥
मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् ।
मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥ १८९॥
सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः ।
सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥ १९०॥
कन्दर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं
कृष्णम् ।
त्यक्त्वा कमन्यविषयं नेत्रयुगं द्रष्टुमुत्सहते ॥ १९१॥
पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्त्वा ।
श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं भवति ॥ १९२॥
दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके ।
क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु ॥ १९३॥