प्रबोधसुधाकरः/मनोलयप्रकरणम्
संसारतापतप्तं नानायोनिभ्रमात्परिश्रान्तम् ।
लब्ध्वा परमानन्दं न चलति चेतः कदा क्वापि ॥ १५०॥
अद्वैतानन्दभरात्किमिदं कोऽहं च कस्याहम् ।
इति मन्थरतां यातं यदा तदा मूर्छितं चेतः ॥ १५१॥
चिरतरमात्मानुभवादात्माकारं प्रजायते चेतः ।
सरिदिव सागरयाता समुद्रभावं प्रयात्युच्चैः ॥ १५२॥
आत्मन्यनुप्रविष्टं चित्तं नापेक्षते पुनर्विषयान् ।
क्षीरादुद्धृतमाज्यं यथा पुनः क्षीरतां न यातीह ॥ १५३॥
दृष्टौ द्रष्टरि दृश्ये यदनुस्यूतं च भानमात्रं
स्यात् ।
तत्रोपक्षीणं चेच्चित्तं तन्मूर्छितं भवति ॥ १५४॥
याति स्वसंमुखत्वं दृङ्मात्रं वा यदा तदा भवति ।
दृश्यद्रष्टृविभेदो ह्यसंमुखेऽस्मिन्न तद्भवति ॥ १५५॥
एकस्मिन्दृङ्मात्रे त्रेधा द्रष्ट्रादिकं हि समुदेति ।
त्रिविधे तस्मिँल्लीने दृङ्मात्रं शिष्यते पश्चात् ॥ १५६॥
दर्पणतः प्राक्पश्चादस्ति मुखं प्रतिमुखं तदाभाति ।
आदर्शेऽपि च नष्टे मुखमस्ति मुखे तथैवात्मा ॥ १५७॥