प्रबोधसुधाकरः/लिङ्गदेहादिनिरूपणप्रकरणम्
स्थूलशरीरस्यान्तर्लिङ्गशरीरं च तस्यान्तः ।
कारणमस्याप्यन्तस्ततो महाकारणं तुर्यम् ॥ ११०॥
स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः ।
अङ्गुष्ठमात्रः पुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ॥ १११॥
सूक्ष्माणि महाभूतान्यसवः पञ्चेन्द्रियाणि पञ्चैव ।
षोडषमन्तःकरणं तत्सङ्घातो हि लिङ्गतनुः ॥ ११२॥
तत्कारणं स्मृतं यत्तस्यान्तर्वासनाजालम् ।
तस्य प्रवृत्तिहेतुर्बुद्ध्याश्रयमत्र तुर्यं स्यात् ॥ ११३॥
तत्सारभूतबुद्धो यत्प्रतिफलितं तु शुद्धचैतन्यम् ।
जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि ॥ ११४॥
चरतरतरङ्गसङ्गात्प्रतिबिम्बं भास्करस्य च चलं
स्यात् ।
अस्ति तथा चञ्चलता चैतन्ये चित्तचाञ्चल्यात् ॥ ११५॥
नन्वर्कप्रतिबिम्बः सलिलादिषुयः स चावभासयति ।
किमितरपदार्थनिवहं प्रतिबिम्बोऽप्यात्मनस्तद्वत् ॥ ११६॥
प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु ।
तदनु प्रविष्टमन्तर्गृहमन्यार्थान्प्रकाशयति ॥ ११७॥
चित्प्रतिबिम्बस्तद्वद्बुद्धिषु यो जीवतां प्राप्तः ।
नेत्रादीन्द्रियमार्गैर्बहिरर्थान्सोऽवभासयति ॥ ११८॥