सामग्री पर जाएँ

महाभारतम्-10-सौप्तिकपर्व-004

विकिस्रोतः तः
← सौप्तिकपर्व-003 महाभारतम्
दशमपर्व
महाभारतम्-10-सौप्तिकपर्व-004
वेदव्यासः
सौप्तिकपर्व-005 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018

द्रौणिकृपयोः संवादः।। 1 ।।

कृप उवाच। 10-4-1x
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत।
न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम्।।
10-4-1a
10-4-1b
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ।
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः।।
10-4-2a
10-4-2b
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः।
परानभिमुखं यान्तं रथावास्थाय दंशितौ।।
10-4-3a
10-4-3b
आवाभ्यां सहितः शत्रूञ्श्वो निहन्ता समागमे।
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान्।।
10-4-4a
10-4-4b
शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम्।
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम्।।
10-4-5a
10-4-5b
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद।
समेत्य समरे शत्रून्वधिष्यसि न संशयः।।
10-4-6a
10-4-6b
न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम्।
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः।।
10-4-7a
10-4-7b
कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा।
को द्रौणिं युधि संरब्धं योधयेदपि देवराट्।।
10-4-8a
10-4-8b
ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः।
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्।।
10-4-9a
10-4-9b
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः।
सात्वतोपि महेष्वासो नित्यं युद्धेषु कोविदः।।
10-4-10a
10-4-10b
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान्।
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्।।
10-4-11a
10-4-11b
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्।
अहं च कृतवर्मा च प्रभाते त्वां नरोत्तमम्।।
10-4-12a
10-4-12b
अनुयास्याव सहितौ धन्विनौ परतापनौ।
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ।।
10-4-13a
10-4-13b
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे।
ततः कर्ताऽसि शत्रूणां युध्यतां कदनं महत्।।
10-4-14a
10-4-14b
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि।
विहरस्व यथा शक्रः सूदयित्वा महासुरान्।।
10-4-15a
10-4-15b
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्।
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः।।
10-4-16a
10-4-16b
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा।
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम्।।
10-4-17a
10-4-17b
न चाहं समरे तात कृतवर्मा न चैव हि।
अनिर्जित्य रणे पाण्डूनपयास्यामि कर्हिचित्।।
10-4-18a
10-4-18b
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह।
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम्।।
10-4-19a
10-4-19b
सर्वोपायैः सहायास्ते प्रभाते वयमाहवे।
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ।।
10-4-20a
10-4-20b
एवमुक्तस्ततो द्रौणिक्रमातुलेन हितं वचः।
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने।।
10-4-21a
10-4-21b
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च।
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः।।
10-4-22a
10-4-22b
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्।
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्।।
10-4-23a
10-4-23b
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्।
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति।।
10-4-24a
10-4-24b
यथा च निहतः पापैः पिता मम विशेषतः।
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति।।
10-4-25a
10-4-25b
कथं हि मादृशो लोके मुहूर्तमपि जीवति।
द्रोणहन्तेति यद्वाचः पाञ्चालानां शृणोम्यहम्।।
10-4-26a
10-4-26b
धृष्टद्युम्नमहत्वा तु नादं जीवितुमुत्सहे।
स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः।।
10-4-27a
10-4-27b
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः।
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्।।
10-4-28a
10-4-28b
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्।
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः।।
10-4-29a
10-4-29b
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः।
शोकं मे वर्धयत्येष वारिवेग इवार्णवम्।।
10-4-30a
10-4-30b
एकाग्नमनसो मेऽद्य कुतो निद्रा कुतः सुखम्।। 10-4-31a
वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान्।
अविषह्यतमान्मन्ये महेन्द्रेणापि सत्तम।।
10-4-32a
10-4-32b
न चापि शक्तः संयन्तुमस्मात्कार्यात्कथञ्चन।
तं न पश्यामि लोकेऽस्मिन्यो मां कोपान्निवर्तयेत्।।
10-4-33a
10-4-33b
इति मे निश्चिता बुद्धिरेषा साधुमता मम।। 10-4-34a
वादिकैः कथ्यमानस्तु मित्राणां मे पराभवः।
पाण्डवानां च विजयटो हृदयं दहतीव मे।।
10-4-35a
10-4-35b
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके।
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः।।
10-4-36a
10-4-36b
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि चतुर्थोऽध्यायः।। 4 ।।

10-4-4 निहन्ता निहनिष्यसि।। 10-4-23 चतुर्थ आतुरादीनां चतुर्णां मध्ये एको भागः अमर्षः। मे मम स्वप्नं अह्वाय झटिति नाशयेत्। तस्मात् स्वपेत्युक्तं तन्न युज्यते।। 23 ।। 10-4-24 अनुस्मरन् अनुस्मरतः। न शाम्यति अमर्ष इत्यर्थः।। 10-4-36 स्वप्ता स्वप्स्यामि।। 10-4-4 चतुर्थोऽध्यायः।।

सौप्तिकपर्व-003 पुटाग्रे अल्लिखितम्। सौप्तिकपर्व-005